॥ ॐ श्री गणपतये नमः ॥

९२ सर्गः

तच्छ्रुत्वा हर्षमापेदे राघवो भ्रातृभिः सहवाक्यं चाद्भुतसंकाशं भ्रातॄन्प्रोवाच राघवः

इमौ कुमारौ सौमित्रे तव धर्मविशारदौअङ्गदश्चन्द्रकेतुश्च राज्यार्हौ दृढधन्विनौ

इमौ राज्येऽभिषेक्ष्यामि देशः साधु विधीयताम्रमणीयो ह्यसंबाधो रमेतां यत्र धन्विनौ

राज्ञां यत्र पीदा स्यान्नाश्रमाणां विनाशनम् देशो दृश्यतां सौम्य नापराध्यामहे यथा

तथोक्तवति रामे तु भरतः प्रत्युवाच अयं कारापथो देशः सुरमण्यो निरामयः

निवेश्यतां तत्र पुरमङ्गदस्य महात्मनःचन्द्रकेतोश्च रुचिरं चन्द्रकान्तं निरामयम्

तद्वाक्यं भरतेनोक्तं प्रतिजग्राह राघवःतं कृत्वा वशे देशमङ्गदस्य न्यवेशयत्

अङ्गदीया पुरी रम्या अङ्गदस्य निवेशितारमणीया सुगुप्ता रामेणाक्लिष्टकर्मणा

चन्द्रकेतोस्तु मल्लस्य मल्लभूम्यां निवेशिताचन्द्रकान्तेति विख्याता दिव्या स्वर्गपुरी यथा

ततो रामः परां प्रीतिं भरतो लक्ष्मणस्तथाययुर्युधि दुराधर्षा अभिषेकं चक्रिरे१०

अभिषिच्य कुमारौ द्वौ प्रस्थाप्य सबलानुगौअङ्गदं पश्चिमां भूमिं चन्द्रकेतुमुदङ्मुखम्११

अङ्गदं चापि सौमित्रिर्लक्ष्मणोऽनुजगाम चन्द्रकेतोस्तु भरतः पार्ष्णिग्राहो बभूव १२

लक्ष्मणस्त्वङ्गदीयायां संवत्सरमथोषितःपुत्रे स्थिते दुराधर्षे अयोध्यां पुनरागमत्१३

भरतोऽपि तथैवोष्य संवत्सरमथाधिकम्अयोध्यां पुनरागम्य रामपादावुपागमत्१४

उभौ सौमित्रिभरतौ रामपादावनुव्रतौकालं गतमपि स्नेहान्न जज्ञातेऽतिधार्मिकौ१५

एवं वर्षसहस्राणि दश तेषां ययुस्तदाधर्मे प्रयतमानानां पौरकार्येषु नित्यदा१६

विहृत्य कालं परिपूर्णमानसाःश्रिया वृता धर्मपथे परे स्थिताःत्रयः समिद्धा इव दीप्ततेजसाहुताग्नयः साधु महाध्वरे त्रयः१७

इति श्रीरामायणे उत्तरकाण्डे द्विनवतितमः सर्गः९२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved