॥ ॐ श्री गणपतये नमः ॥

७४ सर्गः

तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्टकर्मणःद्वाःस्थः कुमारावाहूय राघवाय न्यवेदयत्

दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौपरिष्वज्य ततो रामो वाक्यमेतदुवाच

कृतं मया यथातथ्यं द्विजकार्यमनुत्तमम्धर्मसेतुमतो भूयः कर्तुमिच्छामि राघवौ

युवाभ्यामात्मभूताभ्यां राजसूयमनुत्तमम्सहितो यष्टुमिच्छामि तत्र धर्मो हि शाश्वतः

इष्ट्वा तु राजसूयेन मित्रः शत्रुनिबर्हणःसुहुतेन सुयज्ञेन वरुणत्वमुपागमत्

सोमश्च राजसूयेन इष्ट्वा धर्मेण धर्मवित्प्राप्तश्च सर्वलोकानां कीर्तिं स्थानं शाश्वतम्

अस्मिन्नहनि यच्छ्रेयश्चिन्त्यतां तन्मया सहहितं चायति युक्तं प्रयतौ वक्तुमर्हथ

श्रुत्वा तु राघवस्यैतद्वाक्यं वाक्यविशारदःभरतः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच

त्वयि धर्मः परः साधो त्वयि सर्वा वसुंधराप्रतिष्ठिता महाबाहो यशश्चामितविक्रम

महीपालाश्च सर्वे त्वां प्रजापतिमिवामराःनिरीक्षन्ते महात्मानो लोकनाथं यथा वयम्१०

प्रजाश्च पितृवद्राजन्पश्यन्ति त्वां महाबलपृथिव्यां गतिभूतोऽसि प्राणिनामपि राघव११

त्वमेवंविधं यज्ञमाहर्तासि कथं नृपपृथिव्यां राजवंशानां विनाशो यत्र दृश्यते१२

पृथिव्यां ये पुरुषा राजन्पौरुषमागताःसर्वेषां भविता तत्र क्षयः सर्वान्तकोपमः१३

त्वं पुरुषशार्दूल गुणैरतुलविक्रमपृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते१४

भरतस्य तु तद्वाक्यं श्रुत्वामृतमयं यथाप्रहर्षमतुलं लेभे रामः सत्यपराक्रमः१५

उवाच शुभां वाणीं कैकेय्या नन्दिवर्धनम्प्रीतोऽस्मि परितुष्टोऽस्मि तवाद्य वचनेन हि१६

इदं वचनमक्लीबं त्वया धर्मसमाहितम्व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम्१७

एष तस्मादभिप्रायाद्राजसूयात्क्रतूत्तमात्निवर्तयामि धर्मज्ञ तव सुव्याहृतेन वै१८

प्रजानां पालनं धर्मो राज्ञां यज्ञेन संमितःतस्माच्छृणोमि ते वाक्यं साधूक्तं सुसमाहितम्१९

इति श्रीरामायणे उत्तरकाण्डे चतुस्सप्ततितमः सर्गः७४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved