एतदाख्याय रामाय महर्षिः कुम्भसंभवः।अस्यामेवापरं वाक्यं कथायामुपचक्रमे॥ १
ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम्।अकरोत्तत्र मन्दात्मा राज्यं निहतकण्टकम्॥ २
अथ काले तु कस्मिंश्चिद्राजा भार्गवमाश्रमम्।रमणीयमुपाक्रामच्चैत्रे मासि मनोरमे॥ ३
तत्र भार्गवकन्यां स रूपेणाप्रतिमां भुवि।विचरन्तीं वनोद्देशे दण्डोऽपश्यदनुत्तमाम्॥ ४
स दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः।अभिगम्य सुसंविग्नः कन्यां वचनमब्रवीत्॥ ५
कुतस्त्वमसि सुश्रोणि कस्य वासि सुता शुभे।पीडितोऽहमनङ्गेन पृच्छामि त्वां सुमध्यमे॥ ६
तस्य त्वेवं ब्रुवाणस्य मोहोन्मत्तस्य कामिनः।भार्गवी प्रत्युवाचेदं वचः सानुनयं नृपम्॥ ७
भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः।अरजां नाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम्॥ ८
गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः।व्यसनं सुमहत्क्रुद्धः स ते दद्यान्महातपाः॥ ९
यदि वात्र मया कार्यं धर्मदृष्टेन सत्पथा।वरयस्व नृप श्रेष्ठ पितरं मे महाद्युतिम्॥ १०
अन्यथा तु फलं तुभ्यं भवेद्घोराभिसंहितम्।क्रोधेन हि पिता मेऽसौ त्रैलोक्यमपि निर्दहेत्॥ ११
एवं ब्रुवाणामरजां दण्डः कामशरार्दितः।प्रत्युवाच मदोन्मत्तः शिरस्याधाय सोऽञ्जलिम्॥ १२
प्रसादं कुरु सुश्रोणि न कालं क्षेप्तुमर्हसि।त्वत्कृते हि मम प्राणा विदीर्यन्ते शुभानने॥ १३
त्वां प्राप्य हि वधो वापि पापं वापि सुदारुणम्।भक्तं भजस्व मां भीरु भजमानं सुविह्वलम्॥ १४
एवमुक्त्वा तु तां कन्यां दोर्भ्यां गृह्य बलाद्बली।विस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे॥ १५
तमनर्थं महाघोरं दण्डः कृत्वा सुदारुणम्।नगरं प्रययौ चाशु मधुमन्तमनुत्तमम्॥ १६
अरजापि रुदन्ती सा आश्रमस्याविदूरतः।प्रतीक्षते सुसंत्रस्ता पितरं देवसंनिभम्॥ १७
इति श्रीरामायणे उत्तरकाण्डे एकसप्ततितमः सर्गः ॥ ७१