॥ ॐ श्री गणपतये नमः ॥

६९ सर्गः

भुक्त्वा तु भाषितं वाक्यं मम राम शुभाक्षरम्प्राञ्जलिः प्रत्युवाचेदं स्वर्गी रघुनन्दन

शृणु ब्रह्मन्यथावृत्तं ममैतत्सुखदुःखयोःदुरतिक्रमणीयं हि यथा पृच्छसि मां द्विज

पुरा वैदर्भको राजा पिता मम महायशाःसुदेव इति विख्यातस्त्रिषु लोकेषु वीर्यवान्

तस्य पुत्रद्वयं ब्रह्मन्द्वाभ्यां स्त्रीभ्यामजायतअहं श्वेत इति ख्यातो यवीयान्सुरथोऽभवत्

ततः पितरि स्वर्याते पौरा मामभ्यषेचयन्तत्राहं कृतवान्राज्यं धर्मेण सुसमाहितः

एवं वर्षसहस्राणि समतीतानि सुव्रतराज्यं कारयतो ब्रह्मन्प्रजा धर्मेण रक्षतः

सोऽहं निमित्ते कस्मिंश्चिद्विज्ञातायुर्द्विजोत्तमकालधर्मं हृदि न्यस्य ततो वनमुपागमम्

सोऽहं वनमिदं दुर्गं मृगपक्षिविवर्जितम्तपश्चर्तुं प्रविष्टोऽस्मि समीपे सरसः शुभे

भ्रातरं सुरथं राज्ये अभिषिच्य नराधिपम्इदं सरः समासाद्य तपस्तप्तं मया चिरम्

सोऽहं वर्षसहस्राणि तपस्त्रीणि महामुनेतप्त्वा सुदुष्करं प्राप्तो ब्रह्मलोकमनुत्तमम्१०

ततो मां स्वर्गसंस्थं वै क्षुत्पिपासे द्विजोत्तमबाधेते परमोदार ततोऽहं व्यथितेन्द्रियः११

गत्वा त्रिभुवणश्रेष्ठं पितामहमुवाच भगवन्ब्रह्मलोकोऽयं क्षुत्पिपासाविवर्जितः१२

कस्येयं कर्मणः प्राप्तिः क्षुत्पिपासावशोऽस्मि यत्आहारः कश्च मे देव तन्मे ब्रूहि पितामह१३

पितामहस्तु मामाह तवाहारः सुदेवजस्वादूनि स्वानि मांसानि तानि भक्षय नित्यशः१४

स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम्अनुप्तं रोहते श्वेत कदाचिन्महामते१५

दत्तं तेऽस्ति सूक्ष्मोऽपि वने सत्त्वनिषेवितेतेन स्वर्गगतो वत्स बाध्यसे क्षुत्पिपासया१६

त्वं सुपुष्टमाहारैः स्वशरीरमनुत्तमम्भक्षयस्वामृतरसं सा ते तृप्तिर्भविष्यति१७

यदा तु तद्वनं श्वेत अगस्त्यः सुमहानृषिःआक्रमिष्यति दुर्धर्षस्तदा कृच्छाद्विमोक्ष्यसे१८

हि तारयितुं सौम्य शक्तः सुरगणानपिकिं पुनस्त्वां महाबाहो क्षुत्पिपासावशं गतम्१९

सोऽहं भगवतः श्रुत्वा देवदेवस्य निश्चयम्आहारं गर्हितं कुर्मि स्वशरीरं द्विजोत्तम२०

बहून्वर्षगणान्ब्रह्मन्भुज्यमानमिदं मयाक्षयं नाभ्येति ब्रह्मर्षे तृप्तिश्चापि ममोत्तमा२१

तस्य मे कृच्छ्रभूतस्य कृच्छ्रादस्माद्विमोक्षयअन्येषामगतिर्ह्यत्र कुम्भयोनिमृते द्विजम्२२

इदमाभरणं सौम्य तारणार्थं द्विजोत्तमप्रतिगृह्णीष्व ब्रह्मर्षे प्रसादं कर्तुमर्हसि२३

तस्याहं स्वर्गिणो वाक्यं श्रुत्वा दुःखसमन्वितम्तारणायोपजग्राह तदाभरणमुत्तमम्२४

मया प्रतिगृहीते तु तस्मिन्नाभरणे शुभेमानुषः पूर्वको देहो राजर्षेः ननाश २५

प्रनष्टे तु शरीरेऽसौ राजर्षिः परया मुदातृप्तः प्रमुदितो राजा जगाम त्रिदिवं पुनः२६

तेनेदं शक्रतुल्येन दिव्यमाभरणं ममतस्मिन्निमित्ते काकुत्स्थ दत्तमद्भुतदर्शनम्२७

इति श्रीरामायणे उत्तरकाण्डे एकोनसप्ततितमः सर्गः६९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved