प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह राघवः।प्रमुमोद सुखी राज्यं धर्मेण परिपालयन्॥ १
ततः कतिपयाहःसु वृद्धो जानपदो द्विजः।शवं बालमुपादाय राजद्वारमुपागमत्॥ २
रुदन्बहुविधा वाचः स्नेहाक्षरसमन्विताः।असकृत्पुत्र पुत्रेति वाक्यमेतदुवाच ह॥ ३
किं नु मे दुष्कृतं कर्म पूर्वं देहान्तरे कृतम्।यदहं पुत्रमेकं त्वां पश्यामि निधनं गतम्॥ ४
अप्राप्तयौवनं बालं पञ्चवर्षसमन्वितम्।अकाले कालमापन्नं दुःखाय मम पुत्रक॥ ५
अल्पैरहोभिर्निधनं गमिष्यामि न संशयः।अहं च जननी चैव तव शोकेन पुत्रक॥ ६
न स्मराम्यनृतं ह्युक्तं न च हिंसां स्मराम्यहम्।केन मे दुष्कृतेनाद्य बाल एव ममात्मजः।अकृत्वा पितृकार्याणि नीतो वैवस्वतक्षयम्॥ ७
नेदृशं दृष्टपूर्वं मे श्रुतं वा घोरदर्शनम्।मृत्युरप्राप्तकालानां रामस्य विषये यथा॥ ८
रामस्य दुष्कृतं किंचिन्महदस्ति न संशयः।त्वं राजञ्जीवयस्वैनं बालं मृत्युवशं गतम्॥ ९
भ्रातृभिः सहितो राजन्दीर्घमायुरवाप्नुहि।उषिताः स्म सुखं राज्ये तवास्मिन्सुमहाबल॥ १०
संप्रत्यनाथो विषय इक्ष्वाकूणां महात्मनाम्।रामं नाथमिहासाद्य बालान्तकरणं नृपम्॥ ११
राजदोषैर्विपद्यन्ते प्रजा ह्यविधिपालिताः।असद्वृत्ते तु नृपतावकाले म्रियते जनः॥ १२
यदा पुरेष्वयुक्तानि जना जनपदेषु च।कुर्वते न च रक्षास्ति तदाकालकृतं भयम्॥ १३
सुव्यक्तं राजदोषोऽयं भविष्यति न संशयः।पुरे जनपदे वापि तदा बालवधो ह्ययम्॥ १४
एवं बहुविधैर्वाक्यैर्निन्दयानो मुहुर्मुहुः।राजानं दुःखसंतप्तः सुतं तमुपगूहति॥ १५
इति श्रीरामायणे उत्तरकाण्डे चतुष्षष्टितमः सर्गः ॥ ६४