ततो द्वादशमे वर्षे शत्रुघ्नो रामपालिताम्।अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः॥ १
मन्त्रिणो बलमुख्यांश्च निवर्त्य च पुरोधसं।जगाम रथमुख्येन हययुक्तेन भास्वता॥ २
स गत्वा गणितान्वासान्सप्ताष्टौ रघुनन्दनः।अयोध्यामगमत्तूर्णं राघवोत्सुकदर्शनः॥ ३
स प्रविश्य पुरीं रम्यां श्रीमानिक्ष्वाकुनन्दनः।प्रविवेश महाबाहुर्यत्र रामो महाद्युतिः॥ ४
सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा।उवाच प्राञ्जलिर्भूत्वा रामं सत्यपराक्रमम्॥ ५
यदाज्ञप्तं महाराज सर्वं तत्कृतवानहम्।हतः स लवणः पापः पुरी सा च निवेशिता॥ ६
द्वादशं च गतं वर्षं त्वां विना रघुनन्दन।नोत्सहेयमहं वस्तुं त्वया विरहितो नृप॥ ७
स मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम।मातृहीनो यथा वत्सस्त्वां विना प्रवसाम्यहम्॥ ८
एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदमब्रवीत्।मा विषादं कृथा वीर नैतत्क्षत्रियचेष्टितम्॥ ९
नावसीदन्ति राजानो विप्रवासेषु राघव।प्रजाश्च परिपाल्या हि क्षत्रधर्मेण राघव॥ १०
काले काले च मां वीर अयोध्यामवलोकितुम्।आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव॥ ११
ममापि त्वं सुदयितः प्राणैरपि न संशयः।अवश्यं करणीयं च राज्यस्य परिपालनम्॥ १२
तस्मात्त्वं वस काकुत्स्थ पञ्चरात्रं मया सह।ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः॥ १३
रामस्यैतद्वचः श्रुत्वा धर्मयुक्तं मनोऽनुगम्।शत्रुघ्नो दीनया वाचा बाढमित्येव चाब्रवीत्॥ १४
स पञ्चरात्रं काकुत्स्थो राघवस्य यथाज्ञया।उष्य तत्र महेष्वासो गमनायोपचक्रमे॥ १५
आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम्।भरतं लक्ष्मणं चैव महारथमुपारुहत्॥ १६
दूरं ताभ्यामनुगतो लक्ष्मणेन महात्मना।भरतेन च शत्रुघ्नो जगामाशु पुरीं तदा॥ १७
इति श्रीरामायणे उत्तरकाण्डे त्रिषष्टितमः सर्गः ॥ ६३