॥ ॐ श्री गणपतये नमः ॥

५७ सर्गः

प्रस्थाप्य तद्बलं सर्वं मासमात्रोषितः पथिएक एवाशु शत्रुघ्नो जगाम त्वरितस्तदा

द्विरात्रमन्तरे शूर उष्य राघवनन्दनःवाल्मीकेराश्रमं पुण्यमगच्छद्वासमुत्तमम्

सोऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम्कृताञ्जलिरथो भूत्वा वाक्यमेतदुवाच

भगवन्वस्तुमिच्छामि गुरोः कृत्यादिहागतःश्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम्

शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुंगवःप्रत्युवाच महात्मानं स्वागतं ते महायशः

स्वमाश्रममिदं सौम्य राघवाणां कुलस्य आसनं पाद्यमर्घ्यं निर्विशङ्कः प्रतीच्छ मे

प्रतिगृह्य ततः पूजां फलमूलं भोजनम्भक्षयामास काकुत्स्थस्तृप्तिं परमां गतः

तु भुक्त्वा महाबाहुर्महर्षिं तमुवाच पूर्वं यज्ञविभूतीयं कस्याश्रमसमीपतः

तस्य तद्भाषितं श्रुत्वा वाल्मीकिर्वाक्यमब्रवीत्शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा

युष्माकं पूर्वको राजा सुदासस्य महात्मनःपुत्रो मित्रसहो नाम वीर्यवानतिधार्मिकः१०

बाल एव सौदासो मृगयामुपचक्रमेचञ्चूर्यमाणं ददृशे शूरो राक्षसद्वयम्११

शार्दूलरूपिणौ घोरौ मृगान्बहुसहस्रशःभक्षयाणावसंतुष्टौ पर्याप्तिं जग्मतुः१२

तु तौ राक्षसौ दृष्ट्वा निर्मृगं वनं कृतम्क्रोधेन महताविष्टो जघानैकं महेषुणा१३

विनिपात्य तमेकं तु सौदासः पुरुषर्षभःविज्वरो विगतामर्षो हतं रक्षोऽभ्यवैक्षत१४

निरीक्षमाणं तं दृष्ट्वा सहायस्तस्य रक्षसःसंतापमकरोद्घोरं सौदासं चेदमब्रवीत्१५

यस्मादनपराद्धं त्वं सहायं मम जघ्निवान्तस्मात्तवापि पापिष्ठ प्रदास्यामि प्रतिक्रियाम्१६

एवमुक्त्वा तु तं रक्षस्तत्रैवान्तरधीयतकालपर्याययोगेन राजा मित्रसहोऽभवत्१७

राजापि यजते यज्ञं तस्याश्रमसमीपतःअश्वमेधं महायज्ञं तं वसिष्ठोऽभ्यपालयत्१८

तत्र यज्ञो महानासीद्बहुवर्षगणायुतान्समृद्धः परया लक्ष्म्या देवयज्ञसमोऽभवत्१९

अथावसाने यज्ञस्य पूर्ववैरमनुस्मरन्वसिष्ठरूपी राजानमिति होवाच राक्षसः२०

अद्य यज्ञावसानान्ते सामिषं भोजनं ममदीयतामिति शीघ्रं वै नात्र कार्या विचारणा२१

तच्छ्रुत्वा व्याहृतं वाक्यं रक्षसा कामरूपिणाभक्षसंस्कारकुशलमुवाच पृथिवीपतिः२२

हविष्यं सामिषं स्वादु यथा भवति भोजनम्तथा कुरुष्व शीघ्रं वै परितुष्येद्यथा गुरुः२३

शासनात्पार्थिवेन्द्रस्य सूदः संभ्रान्तमानसः रक्षः पुनस्तत्र सूदवेषमथाकरोत्२४

मानुषमथो मांसं पार्थिवाय न्यवेदयत्इदं स्वादु हविष्यं सामिषं चान्नमाहृतम्२५

भोजनं वसिष्ठाय पत्न्या सार्धमुपाहरत्मदयन्त्या नरव्याघ्र सामिषं रक्षसा हृतम्२६

ज्ञात्वा तदामिषं विप्रो मानुषं भोजनाहृतम्क्रोधेन महताविष्टो व्याहर्तुमुपचक्रमे२७

यस्मात्त्वं भोजनं राजन्ममैतद्दातुमिच्छसितस्माद्भोजनमेतत्ते भविष्यति संशयः२८

राजा सह पत्न्या वै प्रणिपत्य मुहुर्मुहुःपुनर्वसिष्ठं प्रोवाच यदुक्तं ब्रह्मरूपिणा२९

तच्छ्रुता पार्थिवेन्द्रस्य रक्षसा विकृतं तत्पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम्३०

मया रोषपरीतेन यदिदं व्याहृतं वचःनैतच्छक्यं वृथा कर्तुं प्रदास्यामि ते वरम्३१

कालो द्वादश वर्षाणि शापस्यास्य भविष्यतिमत्प्रसादाच्च राजेन्द्र अतीतं स्मरिष्यसि३२

एवं राजा तं शापमुपभुज्यारिमर्दनःप्रतिलेभे पुना राज्यं प्रजाश्चैवान्वपालयत्३३

तस्य कल्माषपादस्य यज्ञस्यायतनं शुभम्आश्रमस्य समीपेऽस्मिन्यस्मिन्पृच्छसि राघव३४

तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा सुदारुणाम्विवेश पर्णशालायां महर्षिमभिवाद्य ३५

इति श्रीरामायणे उत्तरकाण्डे सप्तपञ्चाशः सर्गः५७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved