एवमुक्त्वा तु काकुत्स्थं प्रशस्य च पुनः पुनः।पुनरेवापरं वाक्यमुवाच रघुनन्दनः॥ १
इमान्यश्वसहस्राणि चत्वारि पुरुषर्षभ।रथानां च सहस्रे द्वे गजानां शतमेव च॥ २
अन्तरापणवीथ्यश्च नानापण्योपशोभिताः।अनुगच्छन्तु शत्रुघ्न तथैव नटनर्तकाः॥ ३
हिरण्यस्य सुवर्णस्य अयुतं पुरुषर्षभ।गृहीत्वा गच्छ शत्रुघ्न पर्याप्तधनवाहनः॥ ४
बलं च सुभृतं वीर हृष्टपुष्टमनुत्तमम्।संभाष्य संप्रदानेन रञ्जयस्व नरोत्तम॥ ५
न ह्यर्थास्तत्र तिष्ठन्ति न दारा न च बान्धवाः।सुप्रीतो भृत्यवर्गस्तु यत्र तिष्ठति राघव॥ ६
अतो हृष्टजनाकीर्णां प्रस्थाप्य महतीं चमूम्।एक एव धनुष्पानिस्तद्गच्छ त्वं मधोर्वनम्॥ ७
यथा त्वां न प्रजानाति गच्छन्तं युद्धकाङ्क्षिणम्।लवणस्तु मधोः पुत्रस्तथा गच्छेरशङ्कितः॥ ८
न तस्य मृत्युरन्योऽस्ति कश्चिद्धि पुरुषर्षभ।दर्शनं योऽभिगच्छेत स वध्यो लवणेन हि॥ ९
स ग्रीष्मे व्यपयाते तु वर्षरात्र उपस्थिते।हन्यास्त्वं लवणं सौम्य स हि कालोऽस्य दुर्मतेः॥ १०
महर्षींस्तु पुरस्कृत्य प्रयान्तु तव सैनिकाः।यथा ग्रीष्मावशेषेण तरेयुर्जाह्नवीजलम्॥ ११
ततः स्थाप्य बलं सर्वं नदीतीरे समाहितः।अग्रतो धनुषा सार्धं गच्छ त्वं लघुविक्रम॥ १२
एवमुक्तस्तु रामेण शत्रुघ्नस्तान्महाबलान्।सेनामुख्यान्समानीय ततो वाक्यमुवाच ह॥ १३
एते वो गणिता वासा यत्र यत्र निवत्स्यथ।स्थातव्यं चाविरोधेन यथा बाधा न कस्यचित्॥ १४
तथा तांस्तु समाज्ञाप्य निर्याप्य च महद्बलम्।कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत्॥ १५
रामं प्रदक्षिणं कृत्वा शिरसाभिप्रणम्य च।रामेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः॥ १६
लक्ष्मणं भरतं चैव प्रणिपत्य कृताञ्जलिः।पुरोधसं वसिष्ठं च शत्रुघ्नः प्रयतात्मवान्।प्रदक्षिणमथो कृत्वा निर्जगाम महाबलः॥ १७
इति श्रीरामायणे उत्तरकाण्डे षट्पञ्चाशः सर्गः ॥ ५६