॥ ॐ श्री गणपतये नमः ॥

५२ सर्गः

ततः सुमन्त्रस्त्वागम्य राघवं वाक्यमब्रवीत्एते निवारिता राजन्द्वारि तिष्ठन्ति तापसाः

भार्गवं च्यवनं नाम पुरस्कृत्य महर्षयःदर्शनं ते महाराज चोदयन्ति कृतत्वराःप्रीयमाणा नरव्याघ्र यमुनातीरवासिनः

तस्य तद्वचनं श्रुत्वा रामः प्रोवाच धर्मवित्प्रवेश्यन्तां महात्मानो भार्गवप्रमुखा द्विजाः

राज्ञस्त्वाज्ञां पुरस्कृत्य द्वाःस्थो मूर्ध्नि कृताञ्जलिःप्रवेशयामास ततस्तापसान्संमतान्बहून्

शतं समधिकं तत्र दीप्यमानं स्वतेजसाप्रविष्टं राजभवनं तापसानां महात्मनाम्

ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बु सत्कृतम्गृहीत्वा फलमूलं रामस्याभ्याहरन्बहु

प्रतिगृह्य तु तत्सर्वं रामः प्रीतिपुरस्कृतःतीर्थोदकानि सर्वाणि फलानि विविधानि

उवाच महाबाहुः सर्वानेव महामुनीन्इमान्यासनमुख्यानि यथार्हमुपविश्यताम्

रामस्य भाषितं श्रुत्वा सर्व एव महर्षयःबृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते

उपविष्टानृषींस्तत्र दृष्ट्वा परपुरंजयःप्रयतः प्राञ्जलिर्भूत्वा राघवो वाक्यमब्रवीत्१०

किमागमनकार्यं वः किं करोमि तपोधनाःआज्ञाप्योऽहं महर्षीणां सर्वकामकरः सुखम्११

इदं राज्यं सकलं जीवितं हृदि स्थितम्सर्वमेतद्द्विजार्थं मे सत्यमेतद्ब्रवीमि वः१२

तस्य तद्वचनं श्रुत्वा साधुवादो महानभूत्ऋषीणामुग्रतपसां यमुनातीरवासिनाम्१३

ऊचुश्च ते महात्मानो हर्षेण महतान्विताःउपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः१४

बहवः पार्थिवा राजन्नतिक्रान्ता महाबलाःकार्यगौरवमश्रुत्वा प्रतिज्ञां नाभ्यरोचयन्१५

त्वया पुनर्ब्राह्मणगौरवादियंकृता प्रतिज्ञा ह्यनवेक्ष्य कारणम्कुरुष्व कर्ता ह्यसि नात्र संशयोमहाभयात्त्रातुमृषींस्त्वमर्हसि१६

इति श्रीरामायणे उत्तरकाण्डे द्विपञ्चाशः सर्गः५२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved