॥ ॐ श्री गणपतये नमः ॥

४६ सर्गः

अथ नावं सुविस्तीर्णां नैषादीं राघवानुजःआरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम्

सुमन्त्रं चैव सरथं स्थीयतामिति लक्ष्मणःउवाच शोकसंतप्तः प्रयाहीति नाविकम्

ततस्तीरमुपागम्य भागीरथ्याः लक्ष्मणःउवाच मैथिलीं वाक्यं प्राञ्जलिर्बाष्पगद्गदः

हृद्गतं मे महच्छल्यं यदस्म्यार्येण धीमताअस्मिन्निमित्ते वैदेहि लोकस्य वचनीकृतः

श्रेयो हि मरणं मेऽद्य मृत्योर्वा यत्परं भवेत् चास्मिन्नीदृशे कार्ये नियोज्यो लोकनिन्दिते

प्रसीद मे रोषं कर्तुमर्हसि सुव्रतेइत्यञ्जलिकृतो भूमौ निपपात लक्ष्मणः

रुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युमात्मनःमैथिली भृशसंविग्ना लक्ष्मणं वाक्यमब्रवीत्

किमिदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मणपश्यामि त्वां स्वस्थमपि क्षेमं महीपतेः

शापितोऽसि नरेन्द्रेण यत्त्वं संतापमात्मनःतद्ब्रूयाः संनिधौ मह्यमहमाज्ञापयामि ते

वैदेह्या चोद्यमानस्तु लक्ष्मणो दीनचेतनःअवाङ्मुखो बाष्पगलो वाक्यमेतदुवाच १०

श्रुत्वा परिषदो मध्ये अपवादं सुदारुणम्पुरे जनपदे चैव त्वत्कृते जनकात्मजे११

तानि वचनीयानि मया देवि तवाग्रतःयानि राज्ञा हृदि न्यस्तान्यमर्षः पृष्ठतः कृतः१२

सा त्वं त्यक्ता नृपतिना निर्दोषा मम संनिधौपौरापवादभीतेन ग्राह्यं देवि तेऽन्यथा१३

आश्रमान्तेषु मया त्यक्तव्या त्वं भविष्यसिराज्ञः शासनमाज्ञाय तवैवं किल दौर्हृदम्१४

तदेतज्जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम्पुण्यं रमणीयं मा विषादं कृथाः शुभे१५

राज्ञो दशरथस्यैष पितुर्मे मुनिपुंगवःसखा परमको विप्रो वाल्मीकिः सुमहायशाः१६

पादच्छायामुपागम्य सुखमस्य महात्मनःउपवासपरैकाग्रा वस त्वं जनकात्मजे१७

पतिव्रतात्वमास्थाय रामं कृत्वा सदा हृदिश्रेयस्ते परमं देवि तथा कृत्वा भविष्यति१८

इति श्रीरामायणे उत्तरकाण्डे षट्चत्वारिंशः सर्गः४६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved