॥ ॐ श्री गणपतये नमः ॥

४५ सर्गः

ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनःसुमन्त्रमब्रवीद्वाक्यं मुखेन परिशुष्यता

सारथे तुरगाञ्शीघ्रं योजयस्व रथोत्तमेस्वास्तीर्णं राजभवनात्सीतायाश्चासनं शुभम्

सीता हि राजभवनादाश्रमं पुण्यकर्मणाम्मया नेया महर्षीणां शीघ्रमानीयतां रथः

सुमन्त्रस्तु तथेत्युक्त्वा युक्तं परमवाजिभिःरथं सुरुचिरप्रख्यं स्वास्तीर्णं सुखशय्यया

आदायोवाच सौमित्रिं मित्राणां हर्षवर्धनम्रथोऽयं समनुप्राप्तो यत्कार्यं क्रियतां प्रभो

एवमुक्तः सुमन्त्रेण राजवेश्म लक्ष्मणःप्रविश्य सीतामासाद्य व्याजहार नरर्षभः

गङ्गातीरे मया देवि मुनीनामाश्रमे शुभेशीघ्रं गत्वोपनेयासि शासनात्पार्थिवस्य नः

एवमुक्ता तु वैदेही लक्ष्मणेन महात्मनाप्रहर्षमतुलं लेभे गमनं चाभ्यरोचयत्

वासांसि महार्हाणि रत्नानि विविधानि गृहीत्वा तानि वैदेही गमनायोपचक्रमे

इमानि मुनिपत्नीनां दास्याम्याभरणान्यहम्सौमित्रिस्तु तथेत्युक्त्वा रथमारोप्य मैथिलीम्प्रययौ शीघ्रतुरगो रामस्याज्ञामनुस्मरन्१०

अब्रवीच्च तदा सीता लक्ष्मणं लक्ष्मिवर्धनम्अशुभानि बहून्यद्य पश्यामि रघुनन्दन११

नयनं मे स्फुरत्यद्य गात्रोत्कम्पश्च जायतेहृदयं चैव सौमित्रे अस्वस्थमिव लक्षये१२

औत्सुक्यं परमं चापि अधृतिश्च परा ममशून्यामिव पश्यामि पृथिवीं पृथुलोचन१३

अपि स्वस्ति भवेत्तस्य भ्रातुस्ते भ्रातृभिः सहश्वश्रूणां चैव मे वीर सर्वासामविशेषतः१४

पुरे जनपदे चैव कुशलं प्राणिनामपिइत्यञ्जलिकृता सीता देवता अभ्ययाचत१५

लक्ष्मणोऽर्थं तु तं श्रुत्वा शिरसा वन्द्य मैथिलीम्शिवमित्यब्रवीद्धृष्टो हृदयेन विशुष्यता१६

ततो वासमुपागम्य गोमतीतीर आश्रमेप्रभाते पुनरुत्थाय सौमित्रिः सूतमब्रवीत्१७

योजयस्व रथं शीघ्रमद्य भागीरथीजलम्शिरसा धारयिष्यामि त्र्यम्बकः पर्वते यथा१८

सोऽश्वान्विचारयित्वाशु रथे युक्त्वा मनोजवान्आरोहस्वेति वैदेहीं सूतः प्राञ्जलिरब्रवीत्१९

सा तु सूतस्य वचनादारुरोह रथोत्तमम्सीता सौमित्रिणा सार्धं सुमन्त्रेण धीमता२०

अथार्धदिवसं गत्वा भागीरथ्या जलाशयम्निरीक्ष्य लक्ष्मणो दीनः प्ररुरोद महास्वनम्२१

सीता तु परमायत्ता दृष्ट्वा लक्ष्मणमातुरम्उवाच वाक्यं धर्मज्ञ किमिदं रुद्यते त्वया२२

जाह्नवीतीरमासाद्य चिराभिलषितं ममहर्षकाले किमर्थं मां विषादयसि लक्ष्मण२३

नित्यं त्वं रामपादेषु वर्तसे पुरुषर्षभकच्चिद्विनाकृतस्तेन द्विरात्रे शोकमागतः२४

ममापि दयितो रामो जीवितेनापि लक्ष्मण चाहमेवं शोचामि मैवं त्वं बालिशो भव२५

तारयस्व मां गङ्गां दर्शयस्व तापसान्ततो धनानि वासांसि दास्याम्याभरणानि २६

ततः कृत्वा महर्षीणां यथार्हमभिवादनम्तत्र चैकां निशामुष्य यास्यामस्तां पुरीं पुनः२७

तस्यास्तद्वचनं श्रुत्वा प्रमृज्य नयने शुभेतितीर्षुर्लक्ष्मणो गङ्गां शुभां नावमुपाहरत्२८

इति श्रीरामायणे उत्तरकाण्डे पञ्चचत्वारिंशः सर्गः४५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved