विमृश्य च ततो रामो वयस्यमकुतोभयम्।प्रतर्दनं काशिपतिं परिष्वज्येदमब्रवीत्॥ १
दर्शिता भवता प्रीतिर्दर्शितं सौहृदं परम्।उद्योगश्च कृतो राजन्भरतेन त्वया सह॥ २
तद्भवानद्य काशेयीं पुरीं वाराणसीं व्रज।रमणीयां त्वया गुप्तां सुप्राकारां सुतोरणाम्॥ ३
एतावदुक्त्वा उत्थाय काकुत्स्थः परमासनात्।पर्यष्वजत धर्मात्मा निरन्तरमुरोगतम्॥ ४
विसृज्य तं वयस्यं स स्वागतान्पृथिवीपतीन्।प्रहसन्राघवो वाक्यमुवाच मधुराक्षरम्॥ ५
भवतां प्रीतिरव्यग्रा तेजसा परिरक्षिता।धर्मश्च नियतो नित्यं सत्यं च भवतां सदा॥ ६
युष्माकं च प्रभावेन तेजसा च महात्मनाम्।हतो दुरात्मा दुर्बुद्धी रावणो राक्षसाधिपः॥ ७
हेतुमात्रमहं तत्र भवतां तेजसा हतः।रावणः सगणो युद्धे सपुत्रः सहबान्धवः॥ ८
भवन्तश्च समानीता भरतेन महात्मना।श्रुत्वा जनकराजस्य कानने तनयां हृताम्॥ ९
उद्युक्तानां च सर्वेषां पार्थिवानां महात्मनाम्।कालो ह्यतीतः सुमहान्गमने रोचतां मतिः॥ १०
प्रत्यूचुस्तं च राजानो हर्षेण महतान्विताः।दिष्ट्या त्वं विजयी राम राज्यं चापि प्रतिष्ठितम्॥ ११
दिष्ट्या प्रत्याहृता सीता दिष्ट्या शत्रुः पराजितः।एष नः परमः काम एषा नः कीर्तिरुत्तमा॥ १२
यत्त्वां विजयिनं राम पश्यामो हतशात्रवम्।उपपन्नं च काकुत्स्थ यत्त्वमस्मान्प्रशंससि॥ १३
प्रशंसार्हा हि जानन्ति प्रशंसां वक्तुमीदृशीम्।आपृच्छामो गमिष्यामो हृदिस्थो नः सदा भवान्॥ १४
भवेच्च ते महाराज प्रीतिरस्मासु नित्यदा॥ १५
इति श्रीरामायणे उत्तरकाण्डे सप्तत्रिंशः सर्गः ॥ ३७