॥ ॐ श्री गणपतये नमः ॥

३४ सर्गः

अर्जुनेन विमुक्तस्तु रावणो राक्षसाधिपःचचार पृथिवीं सर्वामनिर्विण्णस्तथा कृतः

राक्षसं वा मनुष्यं वा शृणुते यं बलाधिकम्रावणस्तं समासाद्य युद्धे ह्वयति दर्पितः

ततः कदाचित्किष्किन्धां नगरीं वालिपालिताम्गत्वाह्वयति युद्धाय वालिनं हेममालिनम्

ततस्तं वानरामात्यस्तारस्तारापिता प्रभुःउवाच रावणं वाक्यं युद्धप्रेप्सुमुपागतम्

राक्षसेन्द्र गतो वाली यस्ते प्रतिबलो भवेत्नान्यः प्रमुखतः स्थातुं तव शक्तः प्लवंगमः

चतुर्भ्योऽपि समुद्रेभ्यः संध्यामन्वास्य रावणइमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम्

एतानस्थिचयान्पश्य एते शङ्खपाण्डुराःयुद्धार्थिनामिमे राजन्वानराधिपतेजसा

यद्वामृतरसः पीतस्त्वया रावणराक्षसतथा वालिनमासाद्य तदन्तं तव जीवितम्

अथ वा त्वरसे मर्तुं गच्छ दक्षिणसागरम्वालिनं द्रक्ष्यसे तत्र भूमिष्ठमिव भास्करम्

तु तारं विनिर्भर्त्स्य रावणो राक्षसेश्वरःपुष्पकं तत्समारुह्य प्रययौ दक्षिणार्णवम्१०

तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम्रावणो वालिनं दृष्ट्वा संध्योपासनतत्परम्११

पुष्पकादवरुह्याथ रावणोऽञ्जनसंनिभःग्रहीतुं वालिनं तूर्णं निःशब्दपदमाद्रवत्१२

यदृच्छयोन्मीलयता वालिनापि रावणःपापाभिप्रायवान्दृष्टश्चकार संभ्रमम्१३

शशमालक्ष्य सिंहो वा पन्नगं गरुडो यथा चिन्तयति तं वाली रावणं पापनिश्चयम्१४

जिघृक्षमाणमद्यैनं रावणं पापबुद्धिनम्कक्षावलम्बिनं कृत्वा गमिष्यामि महार्णवान्१५

द्रक्ष्यन्त्यरिं ममाङ्कस्थं स्रंसितोरुकराम्बरम्लम्बमानं दशग्रीवं गरुडस्येव पन्नगम्१६

इत्येवं मतिमास्थाय वाली कर्णमुपाश्रितःजपन्वै नैगमान्मन्त्रांस्तस्थौ पर्वतराडिव१७

तावन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौप्रयत्नवन्तौ तत्कर्म ईहतुर्बलदर्पितौ१८

हस्तग्राह्यं तु तं मत्वा पादशब्देन रावणम्पराङ्मुखोऽपि जग्राह वाली सर्पमिवाण्डजः१९

ग्रहीतुकामं तं गृह्य रक्षसामीश्वरं हरिःखमुत्पपात वेगेन कृत्वा कक्षावलम्बिनम्२०

तं पीड्दयमानस्तु वितुदन्तं नखैर्मुहुःजहार रावणं वाली पवनस्तोयदं यथा२१

अथ ते राक्षसामात्या ह्रियमाणे दशाननेमुमोक्षयिषवो घोरा रवमाणा ह्यभिद्रवन्२२

अन्वीयमानस्तैर्वाली भ्राजतेऽम्बरमध्यगःअन्वीयमानो मेघौघैरम्बरस्थ इवांशुमान्२३

तेऽशक्नुवन्तः संप्राप्तं वालिनं राक्षसोत्तमाःतस्य बाहूरुवेगेन परिश्रान्तः पतन्ति २४

वालिमार्गादपाक्रामन्पर्वतेन्द्रा हि गच्छतः२५

अपक्षिगणसंपातो वानरेन्द्रो महाजवःक्रमशः सागरान्सर्वान्संध्याकालमवन्दत२६

सभाज्यमानो भूतैस्तु खेचरैः खेचरो हरिःपश्चिमं सागरं वाली आजगाम सरावणः२७

तत्र संध्यामुपासित्वा स्नात्वा जप्त्वा वानरःउत्तरं सागरं प्रायाद्वहमानो दशाननम्२८

उत्तरे सागरे संध्यामुपासित्वा दशाननम्वहमानोऽगमद्वाली पूर्वमम्बुमहानिधिम्२९

तत्रापि संध्यामन्वास्य वासविः हरीश्वरःकिष्किन्धाभिमुखो गृह्य रावणं पुनरागमत्३०

चतुर्ष्वपि समुद्रेषु संध्यामन्वास्य वानरःरावणोद्वहनश्रान्तः किष्किन्धोपवनेऽपतत्३१

रावणं तु मुमोचाथ स्वकक्षात्कपिसत्तमःकुतस्त्वमिति चोवाच प्रहसन्रावणं प्रति३२

विस्मयं तु महद्गत्वा श्रमलोकनिरीक्षणःराक्षसेशो हरीशं तमिदं वचनमब्रवीत्३३

वानरेन्द्र महेन्द्राभ राक्षसेन्द्रोऽस्मि रावणःयुद्धेप्सुरहं संप्राप्तः चाद्यासादितस्त्वया३४

अहो बलमहो वीर्यमहो गम्भीरता तेयेनाहं पशुवद्गृह्य भ्रामितश्चतुरोऽर्णवान्३५

एवमश्रान्तवद्वीर शीघ्रमेव वानरमां चैवोद्वहमानस्तु कोऽन्यो वीरः क्रमिष्यति३६

त्रयाणामेव भूतानां गतिरेषा प्लवंगममनोऽनिलसुपर्णानां तव वा नात्र संशयः३७

सोऽहं दृष्टबलस्तुभ्यमिच्छामि हरिपुंगवत्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः३८

दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभोजनम्सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर३९

ततः प्रज्वालयित्वाग्निं तावुभौ हरिराक्षसौभ्रातृत्वमुपसंपन्नौ परिष्वज्य परस्परम्४०

अन्योन्यं लम्बितकरौ ततस्तौ हरिराक्षसौकिष्किन्धां विशतुर्हृष्टौ सिंहौ गिरिगुहामिव४१

तत्र मासमुषितः सुग्रीव इव रावणःअमात्यैरागतैर्नीचस्त्रैलोक्योत्सादनार्थिभिः४२

एवमेतत्पुरावृत्तं वालिना रावणः प्रभोधर्षितश्च कृतश्चापि भ्राता पावकसंनिधौ४३

बलमप्रतिमं राम वालिनोऽभवदुत्तमम्सोऽपि तया विनिर्दग्धः शलभो वह्निना यथा४४

इति श्रीरामायणे उत्तरकाण्डे चतुस्त्रिंशः सर्गः३४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved