॥ ॐ श्री गणपतये नमः ॥

३२ सर्गः

नर्मदा पुलिने यत्र राक्षसेन्द्रः रावणःपुष्पोपहारं कुरुते तस्माद्देशाददूरतः

अर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुःक्रीडिते सह नारीभिर्नर्मदातोयमाश्रितः

तासां मध्यगतो राज रराज ततोऽर्जुनःकरेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः

जिज्ञासुः तु बाहूनां सहस्रस्योत्तमं बलम्रुरोध नर्मदा वेगं बाहुभिः तदार्जुनः

कार्तवीर्यभुजासेतुं तज्जलं प्राप्य निर्मलम्कूलापहारं कुर्वाणं प्रतिस्रोतः प्रधावति

समीननक्रमकरः सपुष्पकुशसंस्तरः नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ

वेगः कार्तवीर्येण संप्रेषिट इवाम्भसःपुष्पोपहारं तत्सर्वं रावणस्य जहार

रावणोऽर्धसमाप्तं तु उत्सृज्य नियमं तदानर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम्

पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसंनिभम्वर्धन्तमम्भसो वेगं पूर्वामाशां प्रविश्य तु

ततोऽनुद्भ्रान्तशकुनां स्वाभाव्ये परमे स्थिताम्निर्विकाराङ्गनाभासां पश्यते रावणो नदीम्१०

सव्येतरकराङ्गुल्या सशब्दं दशाननःवेगप्रभवमन्वेष्टुं सोऽदिशच्छुकसारणौ११

तौ तु रावणसंदिष्टौ भ्रातरौ शुकसारणौव्योमान्तरचरौ वीरौ प्रस्थितौ पश्चिमोन्मुखौ१२

अर्धयोजनमात्रं तु गत्वा तौ तु निशाचरौपश्येतां पुरुषं तोये क्रीडन्तं सहयोषितम्१३

बृहत्सालप्रतीकशं तोयव्याकुलमूर्धजम्मदरक्तान्तनयनं मदनाकारवर्चसं१४

नदीं बाहुसहस्रेण रुन्धन्तमरिमर्दनम्गिरिं पादसहस्रेण रुन्धन्तमिव मेदिनीम्१५

बालानां वरनारीणां सहस्रेणाभिसंवृतम्समदानां करेणूनां सहस्रेणेव कुञ्जरम्१६

तमद्भुततमं दृष्ट्वा राक्षसौ शुकसारणौसंनिवृत्तावुपागम्य रावणं तमथोचतुः१७

बृहत्सालप्रतीकाशः कोऽप्यसौ राक्षसेश्वरनर्मदां रोधवद्रुद्ध्वा क्रीडापयति योषितः१८

तेन बाहुसहस्रेण संनिरुद्धजला नदीसागरोद्गारसंकाशानुद्गारान्सृजते मुहुः१९

इत्येवं भाषमाणौ तौ निशम्य शुकसारणौरावणोऽर्जुन इत्युक्त्वा उत्तस्थौ युद्धलालसः२०

अर्जुनाभिमुखे तस्मिन्प्रस्थिते राक्षसेश्वरेसकृदेव कृतो रावः सरक्तः प्रेषितो घनैः२१

महोदरमहापार्श्वधूम्राक्षशुकसारणैःसंवृतो राक्षसेन्द्रस्तु तत्रागाद्यत्र सोऽर्जुनः२२

नातिदीर्घेण कालेन ततो राक्षसो बलीतं नर्मदा ह्रदं भीममाजगामाञ्जनप्रभः२३

तत्र स्त्रीपरिवृतं वाशिताभिरिव द्विपम्नरेन्द्रं पश्यते राजा राक्षसानां तदार्जुनम्२४

रोषाद्रक्तनयनो राक्षसेन्द्रो बलोद्धतःइत्येवमर्जुनामात्यानाह गम्भीरया गिरा२५

अमात्याः क्षिप्रमाख्यात हैहयस्य नृपस्य वैयुद्धार्थं समनुप्राप्तो रावणो नाम नामतः२६

रावणस्य वचः श्रुत्वा मन्त्रिणोऽथार्जुनस्य तेउत्तस्थुः सायुधास्तं रावणं वाक्यमब्रुवन्२७

युद्धस्य कालो विज्ञातः साधु भोः साधु रावणयः क्षीबं स्त्रीवृतं चैव योद्धुमिच्छसि नो नृपम्वाशितामध्यगं मत्तं शार्दूल इव कुञ्जरम्२८

क्षमस्वाद्य दशग्रीव उष्यतां रजनी त्वयायुद्धश्रद्धा तु यद्यस्ति श्वस्तात समरेऽर्जुनम्२९

यदि वापि त्वरा तुभ्यं युद्धतृष्णासमावृतानिहत्यास्मांस्ततो युद्धमर्जुनेनोपयास्यसि३०

ततस्ते रावणामात्यैरमात्याः पार्थिवस्य तुसूदिताश्चापि ते युद्धे भक्षिताश्च बुभुक्षितैः३१

ततो हलहलाशब्दो नर्मदा तिर आबभौअर्जुनस्यानुयात्राणां रावणस्य मन्त्रिणाम्३२

इषुभिस्तोमरैः शूलैर्वज्रकल्पैः सकर्षणैःसरावणानर्दयन्तः समन्तात्समभिद्रुताः३३

हैहयाधिपयोधानां वेग आसीत्सुदारुणःसनक्रमीनमकरसमुद्रस्येव निस्वनः३४

रावणस्य तु तेऽमात्याः प्रहस्तशुकसारणाःकार्तवीर्यबलं क्रुद्धा निर्दहन्त्यग्नितेजसः३५

अर्जुनाय तु तत्कर्म रावणस्य समन्त्रिणःक्रीडमानाय कथितं पुरुषैर्द्वाररक्षिभिः३६

उक्त्वा भेतव्यमिति स्त्रीजनं ततोऽर्जुनःउत्ततार जलात्तस्माद्गङ्गातोयादिवाञ्जनः३७

क्रोधदूषितनेत्रस्तु ततोऽर्जुन पावकःप्रजज्वाल महाघोरो युगान्त इव पावकः३८

तूर्णतरमादाय वरहेमाङ्गदो गदाम्अभिद्रवति रक्षांसि तमांसीव दिवाकरः३९

बाहुविक्षेपकरणां समुद्यम्य महागदाम्गारुडं वेगमास्थाय आपपातैव सोऽर्जुनः४०

तस्य मर्गं समावृत्य विन्ध्योऽर्कस्येव पर्वतःस्थितो विन्ध्य इवाकम्प्यः प्रहस्तो मुसलायुधः४१

ततोऽस्य मुसलं घोरं लोहबद्धं मदोद्धतःप्रहस्तः प्रेषयन्क्रुद्धो ररास यथाम्बुदः४२

तस्याग्रे मुसलस्याग्निरशोकापीडसंनिभःप्रहस्तकरमुक्तस्य बभूव प्रदहन्निव४३

आधावमानं मुसलं कार्तवीर्यस्तदार्जुनःनिपुणं वञ्चयामास सगदो गजविक्रमः४४

ततस्तमभिदुद्राव प्रहस्तं हैहयाधिपःभ्रामयाणो गदां गुर्वीं पञ्चबाहुशतोच्छ्रयाम्४५

तेनाहतोऽतिवेगेन प्रहस्तो गदया तदानिपपात स्थितः शैलो वज्रिवज्रहतो यथा४६

प्रहस्तं पतितं दृष्ट्वा मारीचशुकसारणाःसमहोदरधूम्राक्षा अपसृप्ता रणाजिरात्४७

अपक्रान्तेष्वमात्येषु प्रहस्ते निपातितेरावणोऽभ्यद्रवत्तूर्णमर्जुनं नृपसत्तमम्४८

सहस्रबाहोस्तद्युद्धं विंशद्बाहोश्च दारुणम्नृपराक्षसयोस्तत्र आरब्धं लोमहर्षणम्४९

सागराविव संक्षुब्धौ चलमूलाविवाचलौतेजोयुक्ताविवादित्यौ प्रदहन्ताविवानलौ५०

बलोद्धतौ यथा नागौ वाशितार्थे यथा वृषौमेघाविव विनर्दन्तौ सिंहाविव बलोत्कटौ५१

रुद्रकालाविव क्रुद्धौ तौ तथा राक्षसार्जुनौपरस्परं गदाभ्यां तौ ताडयामासतुर्भृशम्५२

वज्रप्रहारानचला यथा घोरान्विषेहिरेगदाप्रहारांस्तद्वत्तौ सहेते नरराक्षसौ५३

यथाशनिरवेभ्यस्तु जायते वै प्रतिश्रुतिःतथा ताभ्यां गदापातैर्दिशः सर्वाः प्रतिश्रुताः५४

अर्जुनस्य गदा सा तु पात्यमानाहितोरसिकाञ्चनाभं नभश्चक्रे विद्युत्सौदामनी यथा५५

तथैव रावणेनापि पात्यमाना मुहुर्मुहुःअर्जुनोरसि निर्भाति गदोल्केव महागिरौ५६

नार्जुनः खेदमाप्नोति राक्षसगणेश्वरःसममासीत्तयोर्युद्धं यथा पूर्वं बलीन्द्रयोः५७

शृङ्गैर्महर्षभौ यद्वद्दन्ताग्रैरिव कुञ्जरौपरस्परं विनिघ्नन्तौ नरराक्षससत्तमौ५८

ततोऽर्जुनेन क्रुद्धेन सर्वप्राणेन सा गदास्तनयोरन्तरे मुक्ता रावणस्य महाहवे५९

वरदानकृतत्राणे सा गदा रावणोरसिदुर्बलेव यथा सेना द्विधाभूतापतत्क्षितौ६०

त्वर्जुनप्रमुक्तेन गदापातेन रावणःअपासर्पद्धनुर्मात्रं निषसाद निष्टनन्६१

विह्वलं तदालक्ष्य दशग्रीवं ततोऽर्जुनःसहसा प्रतिजग्राह गरुत्मानिव पन्नगम्६२

तं बाहुसहस्रेण बलाद्गृह्य दशाननम्बबन्ध बलवान्राजा बलिं नारायणो यथा६३

बध्यमाने दशग्रीवे सिद्धचारणदेवताःसाध्वीति वादिनः पुष्पैः किरन्त्यर्जुनमूर्धनि६४

व्याघ्रो मृगमिवादाय सिंहराडिव दन्तिनम्ररास हैहयो राजा हर्षादम्बुदवन्मुहुः६५

प्रहस्तस्तु समाश्वस्तो दृष्ट्वा बद्धं दशाननम्सह तै राकसैः क्रुद्ध अभिदुद्राव पार्थिवम्६६

नक्तंचराणां वेगस्तु तेषामापततां बभौउद्धृत आतपापाये समुद्राणामिवाद्भुतः६७

मुञ्च मुञ्चेति भाषन्तस्तिष्ठ तिष्ठेति चासकृत्मुसलानि शूलानि उत्ससर्जुस्तदार्जुने६८

अप्राप्तान्येव तान्याशु असंभ्रान्तस्तदार्जुनःआयुधान्यमरारीणां जग्राह रिपुसूदनः६९

ततस्तैरेव रक्षांसि दुर्धरैः प्रवरायुधैःभित्त्वा विद्रावयामास वायुरम्बुधरानिव७०

राक्षसांस्त्रासयित्वा तु कार्तवीर्यार्जुनस्तदारावणं गृह्य नगरं प्रविवेश सुहृद्वृतः७१

कीर्यमाणः कुसुमाक्षतोत्करैर्द्विजैः सपौरैः पुरुहूतसंनिभःतदार्जुनः संप्रविवेश तां पुरींबलिं निगृह्यैव सहस्रलोचनः७२

इति श्रीरामायणे उत्तरकाण्डे द्वात्रिंशत्तमः सर्गः३२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved