॥ ॐ श्री गणपतये नमः ॥

३१ सर्गः

ततो रामो महातेजा विस्मयात्पुनरेव हिउवाच प्रणतो वाक्यमगस्त्यमृषिसत्तमम्

भगवन्किं तदा लोकाः शून्या आसन्द्विजोत्तमधर्षणां यत्र प्राप्तो रावणो राक्षसेश्वरः

उताहो हीनवीर्यास्ते बभुवुः पृथिवीक्षितःबहिष्कृता वरास्त्रैश्च बहवो निर्जिता नृपाः

राघवस्य वचः श्रुत्वा अगस्त्यो भगवानृषिःउवाच रामं प्रहसन्पितामह इवेश्वरम्

एवं बाधमानस्तु पार्थिवान्पार्थिवर्षभचचार रावणो राम पृथिव्यां पृथिवीपते

ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रभाम्संप्राप्तो यत्र साम्निध्यं परमं वसुरेतसः

तुल्य आसीन्नृपस्तस्य प्रतापाद्वसुरेतसःअर्जुनो नाम यस्याग्निः शरकुण्डे शयः सदा

तमेव दिवसं सोऽथ हैहयाधिपतिर्बलीअर्जुनो नर्मदां रन्तुं गतः स्त्रीभिः सहेश्वरः

रावणो राक्षसेन्द्रस्तु तस्यामात्यानपृच्छतक्वार्जुनो वो नृपः सोऽद्य शीघ्रमाख्यातुमर्हथ

रावणोऽहमनुप्राप्तो युद्धेप्सुर्नृवरेण तुममागमनमव्यग्रैर्युष्माभिः संनिवेद्यताम्१०

इत्येवं रावणेनोक्तास्तेऽमात्याः सुविपश्चितःअब्रुवन्राक्षसपतिमसाम्निध्यं महीपतेः११

श्रुत्वा विश्रवसः पुत्रः पौराणामर्जुनं गतम्अपसृत्यागतो विन्ध्यं हिमवत्संनिभं गिरिम्१२

तमभ्रमिवाविष्टमुद्भ्रान्तमिव मेदिनीम्अपश्यद्रावणो विन्ध्यमालिखन्तमिवाम्बरम्१३

सहस्रशिखरोपेतं सिंहाध्युषितकन्दरम्प्रपात पतितैः शीतैः साट्टहासमिवाम्बुभिः१४

देवदानवगन्धर्वैः साप्सरोगणकिंनरैःसाह स्त्रीभिः क्रीडमानैः स्वर्गभूतं महोच्छ्रयम्१५

नदीभिः स्यन्दमानाभिरगतिप्रतिमं जलम्स्फुटीभिश्चलजिह्वाभिर्वमन्तमिव विष्ठितम्१६

उल्कावन्तं दरीवन्तं हिमवत्संनिभं गिरिम्पश्यमानस्ततो विन्ध्यं रावणो नर्मदां ययौ१७

चलोपलजलां पुण्यां पश्चिमोदधिगामिनीम्महिषैः सृमरैः सिंहैः शार्दूलर्क्षगजोत्तमैःउष्णाभितप्तैस्तृषितैः संक्षोभितजलाशयाम्१८

चक्रवाकैः सकारण्डैः सहंसजलकुक्कुटैःसारसैश्च सदामत्तैः कोकूजद्भिः समावृताम्१९

फुल्लद्रुमकृतोत्तंसां चक्रवाकयुगस्तनीम्विस्तीर्णपुलिनश्रोणीं हंसावलिसुमेखलाम्२०

पुष्परेण्वनुलिप्ताङ्गीं जलफेनामलांशुकाम्जलावगाहसंस्पर्शां फुल्लोत्पलशुभेक्षणाम्२१

पुष्पकादवरुह्याशु नर्मदां सरितां वराम्इष्टामिव वरां नारीमवगाह्य दशाननः२२

तस्याः पुलिने रम्ये नानाकुसुमशोभितेउपोपविष्टः सचिवैः सार्धं राक्षसपुंगवःनर्मदा दर्शजं हर्षमाप्तवान्राक्षसेश्वरः२३

ततः सलीलं प्रहसान्रावणो राक्षसाधिपःउवाच सचिवांस्तत्र मारीचशुकसारणान्२४

एष रश्मिसहस्रेण जगत्कृत्वेव काञ्चनम्तीक्ष्णतापकरः सूर्यो नभसो मध्यमास्थितःमामासीनं विदित्वेह चन्द्रायाति दिवाकरः२५

नर्मदा जलशीतश्च सुगन्धिः श्रमनाशनःमद्भयादनिलो ह्येष वात्यसौ सुसमाहितः२६

इयं चापि सरिच्छ्रेष्ठा नर्मदा नर्म वर्धिनीलीनमीनविहंगोर्मिः सभयेवाङ्गना स्थिता२७

तद्भवन्तः क्षताः शस्त्रैर्नृपैरिन्द्रसमैर्युधिचन्दनस्य रसेनेव रुधिरेण समुक्षिताः२८

ते यूयमवगाहध्वं नर्मदां शर्मदां नृणाम्महापद्ममुखा मत्ता गङ्गामिव महागजाः२९

अस्यां स्नात्वा महानद्यां पाप्मानं विप्रमोक्ष्यथ३०

अहमप्यत्र पुलिने शरदिन्दुसमप्रभेपुष्पोपहरं शनकैः करिष्यामि उमापतेः३१

रावणेनैवमुक्तास्तु मारीचशुकसारणाःसमहोदरधूम्राक्षा नर्मदामवगाहिरे३२

राक्षसेन्द्रगजैस्तैस्तु क्षोभ्यते नर्मदा नदीवामनाञ्जनपद्माद्यैर्गङ्गा इव महागजैः३३

ततस्ते राक्षसाः स्नात्वा नर्मदाया वराम्भसिउत्तीर्य पुष्पाण्याजह्रुर्बल्यर्थं रावणस्य तु३४

नर्मदा पुलिने रम्ये शुभ्राभ्रसदृशप्रभेराक्षसेन्द्रैर्मुहूर्तेन कृतः पुष्पमयो गिरिः३५

पुष्पेषूपहृतेष्वेव रावणो राक्षसेश्वरःअवतीर्णो नदीं स्नातुं गङ्गामिव महागजः३६

तत्र स्नात्वा विधिवज्जप्त्वा जप्यमनुत्तमम्नर्मदा सलिलात्तस्मादुत्ततार रावणः३७

रावणं प्राञ्जलिं यान्तमन्वयुः सप्तराक्षसाःयत्र यत्र याति स्म रावणो राक्षसाधिपःजाम्बूनदमयं लिङ्गं तत्र तत्र स्म नीयते३८

वालुकवेदिमध्ये तु तल्लिङ्गं स्थाप्य रावणःअर्चयामास गन्धैश्च पुष्पैश्चामृतगन्धिभिः३९

ततः सतामार्तिहरं हरं परंवरप्रदं चन्द्रमयूखभूषणम्समर्चयित्वा निशाचरो जगौप्रसार्य हस्तान्प्रणनर्त चायतान्४०

इति श्रीरामायणे उत्तरकाण्डे एकत्रिंशत्तमः सर्गः३१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved