॥ ॐ श्री गणपतये नमः ॥

२८ सर्गः

सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम्विद्रुतं चापि स्वं सैन्यं लक्षयित्वार्दितं शरैः

ततः बलवान्क्रुद्धो रावणस्य सुतो युधिनिवर्त्य राक्षसान्सर्वान्मेघनादो व्यतिष्ठत

रथेनाग्निवर्णेन कामगेन महारथःअभिदुद्राव सेनां तां वनान्यग्निरिव ज्वलन्

ततः प्रविशतस्तस्य विविधायुधधारिणःविदुद्रुवुर्दिशः सर्वा देवास्तस्य दर्शनात्

तत्रावस्थितः कश्चिद्रणे तस्य युयुत्सतःसर्वानाविध्य वित्रस्तान्दृष्ट्वा शक्रोऽभ्यभाषत

भेतव्यं गन्तव्यं निवर्तध्वं रणं प्रतिएष गच्छति मे पुत्रो युद्धार्थमपराजितः

ततः शक्रसुतो देवो जयन्त इति विश्रुतःरथेनाद्भुतकल्पेन संग्राममभिवर्तत

ततस्ते त्रिदशाः सर्वे परिवार्य शचीसुतम्रावणस्य सुतं युद्धे समासाद्य व्यवस्थिताः

तेषां युद्धं महदभूत्सदृशं देवरक्षसाम्कृते महेन्द्रपुत्रस्य राक्षसेन्द्रसुतस्य

ततो मातलिपुत्रे तु गोमुखे राक्षसात्मजःसारथौ पातयामास शरान्काञ्चनभूषणान्१०

शचीसुतस्त्वपि तथा जयन्तस्तस्य सारथिम्तं चैव रावणिं क्रुद्धः प्रत्यविध्यद्रणाजिरे११

ततः क्रुद्धो महातेजा रक्षो विस्फारितेक्षणःरावणिः शक्रपुत्रं तं शरवर्षैरवाकिरत्१२

ततः प्रगृह्य शस्त्राणि सारवन्ति महान्ति शतघ्नीस्तोमरान्प्रासान्गदाखड्गपरश्वधान्सुमहान्त्यद्रिशृङ्गाणि पातयामास रावणिः१३

ततः प्रव्यथिता लोकाः संजज्ञे तमो महत्तस्य रावणपुत्रस्य तदा शत्रूनभिघ्नतः१४

ततस्तद्दैवतबलं समन्तात्तं शचीसुतम्बहुप्रकारमस्वस्थं तत्र तत्र स्म धावति१५

नाभ्यजानंस्तदान्योन्यं शत्रून्वा दैवतानि वातत्र तत्र विपर्यस्तं समन्तात्परिधावितम्१६

एतस्मिन्नन्तरे शूरः पुलोमा नाम वीर्यवान्दैतेयस्तेन संगृह्य शचीपुत्रोऽपवाहितः१७

गृहीत्वा तं तु नप्तारं प्रविष्टः महोदधिम्मातामहोऽर्यकस्तस्य पौलोमी येन सा शची१८

प्रणाशं दृश्य तु सुरा जयन्तस्यातिदारुणम्व्यथिताश्चाप्रहृष्टाश्च समन्ताद्विप्रदुद्रुवुः१९

रावणिस्त्वथ संहृष्टो बलैः परिवृतः स्वकैःअभ्यधावत देवांस्तान्मुमोच महास्वनम्२०

दृष्ट्वा प्रणाशं पुत्रस्य रावणेश्चापि विक्रमम्मातलिं प्राह देवेन्द्रो रथः समुपनीयताम्२१

तु दिव्यो महाभीमः सज्ज एव महारथःउपस्थितो मातलिना वाह्यमानो मनोजवः२२

ततो मेघा रथे तस्मिंस्तडिद्वन्तो महास्वनाःअग्रतो वायुचपला गच्छन्तो व्यनदंस्तदा२३

नानावाद्यानि वाद्यन्त स्तुतयश्च समाहिताःननृतुश्चाप्सरःसंघाः प्रयाते वासवे रणम्२४

रुद्रैर्वसुभिरादित्यैः साध्यैश्च समरुद्गणैःवृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः२५

निर्गच्छतस्तु शक्रस्य परुषं पवनो ववौभास्करो निष्प्रभश्चासीन्महोल्काश्च प्रपेदिरे२६

एतस्मिन्नन्तरे शूरो दशग्रीवः प्रतापवान्आरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा२७

पन्नगैः सुमहाकायैर्वेष्टितं लोमहर्षणैःयेषां निश्वासवातेन प्रदीप्तमिव संयुगम्२८

दैत्यैर्निशाचरैः शूरै रथः संपरिवारितःसमराभिमुखो दिव्यो महेन्द्रमभिवर्तत२९

पुत्रं तं वारयित्वासौ स्वयमेव व्यवस्थितःसोऽपि युद्धाद्विनिष्क्रम्य रावणिः समुपाविशत्३०

ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सहशस्त्राभिवर्षणं घोरं मेघानामिव संयुगे३१

कुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतःनाज्ञायत तदा युद्धे सह केनाप्ययुध्यत३२

दन्तैर्भुजाभ्यां पद्भ्यां शक्तितोमरसायकैःयेन केनैव संरब्धस्ताडयामास वै सुरान्३३

ततो रुद्रैर्महाभागैः सहादित्यैर्निशाचरःप्रयुद्धस्तैश्च संग्रामे कृत्तः शस्त्रैर्निरन्तरम्३४

ततस्तद्राक्षसं सैन्यं त्रिदशैः समरुद्गणैःरणे विद्रावितं सर्वं नानाप्रहरणैः शितैः३५

केचिद्विनिहताः शस्त्रैर्वेष्टन्ति स्म महीतलेवाहनेष्ववसक्ताश्च स्थिता एवापरे रणे३६

रथान्नागान्खरानुष्ट्रान्पन्नगांस्तुरगांस्तथाशिंशुमारान्वराहांश्च पिशाचवदनांस्तथा३७

तान्समालिङ्ग्य बाहुभ्यां विष्टब्धाः केचिदुच्छ्रिताःदेवैस्तु शस्त्रसंविद्धा मम्रिरे निशाचराः३८

चित्रकर्म इवाभाति तेषां रणसंप्लवःनिहतानां प्रमत्तानां राक्षसानां महीतले३९

शोणितोदक निष्यन्दाकङ्कगृध्रसमाकुलाप्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी४०

एतस्मिन्नन्तरे क्रुद्धो दशग्रीवः प्रतापवान्निरीक्ष्य तद्बलं सर्वं दैवतैर्विनिपातितम्४१

तं प्रतिविगाह्याशु प्रवृद्धं सैन्यसागरम्त्रिदशान्समरे निघ्नञ्शक्रमेवाभ्यवर्तत४२

ततः शक्रो महच्चापं विस्फार्य सुमहास्वनम्यस्य विस्फारघोषेण स्वनन्ति स्म दिशो दश४३

तद्विकृष्य महच्चापमिन्द्रो रावणमूर्धनिनिपातयामास शरान्पावकादित्यवर्चसः४४

तथैव महाबाहुर्दशग्रीवो व्यवस्थितःशक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत्४५

प्रयुध्यतोरथ तयोर्बाणवर्षैः समन्ततःनाज्ञायत तदा किंचित्सर्वं हि तमसा वृतम्४६

इति श्रीरामायणे उत्तरकाण्डे अष्टाविंशतितमः सर्गः२८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved