॥ ॐ श्री गणपतये नमः ॥

२६ सर्गः

तु तत्र दशग्रीवः सह सैन्येन वीर्यवान्अस्तं प्राप्ते दिनकरे निवासं समरोचयत्

उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि ददर्श गुणांस्तत्र चन्द्रपादोपशोभितान्

कर्णिकारवनैर्दिव्यैः कदम्बगहनैस्तथापद्मिनीभिश्च फुल्लाभिर्मन्दाकिन्या जलैरपि

घण्टानामिव संनादः शुश्रुवे मधुरस्वनःअप्सरोगणसंघनां गायतां धनदालये

पुष्पवर्षाणि मुञ्चन्तो नगाः पवनताडिताःशैलं तं वासयन्तीव मधुमाधवगन्धिनः

मधुपुष्परजःपृक्तं गन्धमादाय पुष्कलम्प्रववौ वर्धयन्कामं रावणस्य सुखोऽनिलः

गेयात्पुष्पसमृद्ध्या शैत्याद्वायोर्गुणैर्गिरेःप्रवृत्तायां रजन्यां चन्द्रस्योदयनेन

रावणः सुमहावीर्यः कामबाणवशं गतःविनिश्वस्य विनिश्वस्य शशिनं समवैक्षत

एतस्मिन्नन्तरे तत्र दिव्यपुष्पविभूषितासर्वाप्सरोवरा रम्भा पूर्णचन्द्रनिभानना

कृतैर्विशेषकैरार्द्रैः षडर्तुकुसुमोत्सवैःनीलं सतोयमेघाभं वस्त्रं समवगुण्ठिता१०

यस्य वक्त्रं शशिनिभं भ्रुवौ चापनिभे शुभेऊरू करिकराकारौ करौ पल्लवकोमलौसैन्यमध्येन गच्छन्ती रावणेनोपलक्षिता११

तां समुत्थाय रक्षेन्द्रः कामबाणबलार्दितःकरे गृहीत्वा गच्छन्तीं स्मयमानोऽभ्यभाषत१२

क्व गच्छसि वरारोहे कां सिद्धिं भजसे स्वयम्कस्याभ्युदयकालोऽयं यस्त्वां समुपभोक्ष्यते१३

तवाननरसस्याद्य पद्मोत्पलसुगन्धिनःसुधामृतरसस्येव कोऽद्य तृप्तिं गमिष्यति१४

स्वर्णकुम्भनिभौ पीनौ शुभौ भीरु निरन्तरौकस्योरस्थलसंस्पर्शं दास्यतस्ते कुचाविमौ१५

सुवर्णचक्रप्रतिमं स्वर्णदामचितं पृथुअध्यारोक्ष्यति कस्तेऽद्य स्वर्गं जघनरूपिणम्१६

मद्विशिष्टः पुमान्कोऽन्यः शक्रो विष्णुरथाश्विनौमामतीत्य हि यस्य त्वं यासि भीरु शोभनम्१७

विश्रम त्वं पृथुश्रोणि शिलातलमिदं शुभम्त्रैलोक्ये यः प्रभुश्चैव तुल्यो मम विद्यते१८

तदेष प्राञ्जलिः प्रह्वो याचते त्वां दशाननःयः प्रभुश्चापि भर्ता त्रैलोक्यस्य भजस्व माम्१९

एवमुक्ताब्रवीद्रम्भा वेपमाना कृताञ्जलिःप्रसीद नार्हसे वक्तुमीदृशं त्वं हि मे गुरुः२०

अन्येभ्योऽपि त्वया रक्ष्या प्राप्नुयां धर्षणं यदिधर्मतश्च स्नुषा तेऽहं तत्त्वमेतद्ब्रवीमि ते२१

अब्रवीत्तां दशग्रीवश्चरणाधोमुखीं स्थिताम्सुतस्य यदि मे भार्या ततस्त्वं मे स्नुषा भवेः२२

बाढमित्येव सा रम्भा प्राह रावणमुत्तरम्धर्मतस्ते सुतस्याहं भार्या राक्षसपुंगव२३

पुत्रः प्रियतरः प्राणैर्भ्रातुर्वैश्रवणस्य तेख्यातो यस्त्रिषु लोकेषु नलकूबर इत्यसौ२४

धर्मतो यो भवेद्विप्रः क्षत्रियो वीर्यतो भवेत्क्रोधाद्यश्च भवेदग्निः क्षान्त्या वसुधासमः२५

तस्यास्मि कृतसंकेता लोकपालसुतस्य वैतमुद्दिश्य मे सर्वं विभूषणमिदं कृतम्२६

यस्य तस्य हि नान्यस्य भावो मां प्रति तिष्ठतितेन सत्येन मां राजन्मोक्तुमर्हस्यरिंदम२७

हि तिष्ठति धर्मात्मा साम्प्रतं मत्समुत्सुकःतन्न विघ्नं सुतस्येह कर्तुमर्हसि मुञ्च माम्२८

सद्भिराचरितं मार्गं गच्छ राक्षसपुंगवमाननीयो मया हि त्वं लालनीया तथास्मि ते२९

एवं ब्रुवाणां रम्भां तां धर्मार्थसहितं वचःनिर्भर्त्स्य राक्षसो मोहात्प्रतिगृह्य बलाद्बलीकाममोहाभिसंरब्धो मैथुनायोपचक्रमे३०

सा विमुक्ता ततो रम्भा भ्रष्टमाल्यविभूषणागजेन्द्राक्रीडमथिता नदीवाकुलतां गता३१

सा वेपमाना लज्जन्ती भीता करकृताञ्जलिःनलकूबरमासाद्य पादयोर्निपपात ३२

तदवस्थां तां दृष्ट्वा महात्मा नलकूबरःअब्रवीत्किमिदं भद्रे पादयोः पतितासि मे३३

सा तु निश्वसमाना वेपमानाथ साञ्जलिःतस्मै सर्वं यथातथ्यमाख्यातुमुपचक्रमे३४

एष देव दशग्रीवः प्राप्तो गन्तुं त्रिविष्टपम्तेन सैन्यसहायेन निशेह परिणाम्यते३५

आयान्ती तेन दृष्टास्मि त्वत्सकाशमरिंदमगृहीत्वा तेन पृष्टास्मि कस्य त्वमिति रक्षसा३६

मया तु सर्वं यत्सत्यं तद्धि तस्मै निवेदितम्काममोहाभिभूतात्मा नाश्रौषीत्तद्वचो मम३७

याच्यमानो मया देव स्नुषा तेऽहमिति प्रभोतत्सर्वं पृष्ठतः कृत्वा बलात्तेनास्मि धर्षिता३८

एवं त्वमपराधं मे क्षन्तुमर्हसि मानद हि तुल्यं बलं सौम्य स्त्रियाश्च पुरुषस्य ३९

एवं श्रुत्वा तु संक्रुद्धस्तदा वैश्वरणात्मजःधर्षणां तां परां श्रुत्वा ध्यानं संप्रविवेश ४०

तस्य तत्कर्म विज्ञाय तदा वैश्रवणात्मजःमुहूर्ताद्रोषताम्राक्षस्तोयं जग्राह पाणिना४१

गृहीत्वा सलिलं दिव्यमुपस्पृश्य यथाविधिउत्ससर्ज तदा शापं राक्षसेन्द्राय दारुणम्४२

अकामा तेन यस्मात्त्वं बलाद्भद्रे प्रधर्षितातस्मात्स युवतीमन्यां नाकामामुपयास्यति४३

यदा त्वकामां कामार्तो धर्षयिष्यति योषितम्मूर्धा तु सप्तधा तस्य शकलीभविता तदा४४

तस्मिन्नुदाहृते शापे ज्वलिताग्निसमप्रभेदेवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता४५

प्रजापतिमुखाश्चापि सर्वे देवाः प्रहर्षिताःज्ञात्वा लोकगतिं सर्वां तस्य मृत्युं रक्षसः४६

श्रुत्वा तु दशग्रीवस्तं शापं रोमहर्षणम्नारीषु मैथुनं भावं नाकामास्वभ्यरोचयत्४७

इति श्रीरामायणे उत्तरकाण्डे षड्विंशतितमः सर्गः२६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved