॥ ॐ श्री गणपतये नमः ॥

२३ सर्गः

तु जित्वा दशग्रीवो यमं त्रिदशपुंगवम्रावणस्तु जयश्लाघी स्वसहायान्ददर्श

जयेन वर्धयित्वा मारीचप्रमुखास्ततःपुष्पकं भेजिरे सर्वे सान्त्विता रवणेन

ततो रसातलं हृष्टः प्रविष्टः पयसो निधिम्दैत्योरग गणाध्युष्टं वरुणेन सुरक्षितम्

तु भोगवतीं गत्वा पुरीं वासुकिपालिताम्स्थाप्य नागान्वशे कृत्वा ययौ मणिमतीं पुरीम्

निवातकवचास्तत्र दैत्या लब्धवरा वसन्राक्षसस्तान्समासाद्य युद्धेन समुपाह्वयत्

ते तु सर्वे सुविक्रान्ता दैतेया बलशालिनःनानाप्रहरणास्तत्र प्रयुद्धा युद्धदुर्मदाः

तेषां तु युध्यमानानां साग्रः संवत्सरो गतः चान्यतरयोस्तत्र विजयो वा क्षयोऽपि वा

ततः पितामहस्तत्र त्रैलोक्यगतिरव्ययःआजगाम द्रुतं देवो विमानवरमास्थितः

निवातकवचानां तु निवार्य रणकर्म तत्वृद्धः पितामहो वाक्यमुवाच विदितार्थवत्

ह्ययं रावणो युद्धे शक्यो जेतुं सुरासुरैः भवन्तः क्षयं नेतुं शक्याः सेन्द्रैः सुरासुरैः१०

राक्षसस्य सखित्वं वै भवद्भिः सह रोचतेअविभक्ता हि सर्वार्थाः सुहृदां नात्र संशयः११

ततोऽग्निसाक्षिकं सख्यं कृतवांस्तत्र रावणःनिवातकवचैः सार्धं प्रीतिमानभवत्तदा१२

अर्चितस्तैर्यथान्यायं संवत्सरसुखोषितःस्वपुरान्निर्विशेषं पूजां प्राप्तो दशाननः१३

तूपधार्य मायानां शतमेकोनमात्मवान्सलिलेन्द्रपुरान्वेषी बभ्राम रसातलम्१४

ततोऽश्मनगरं नाम कालकेयाभिरक्षितम्तं विजित्य मुहूर्तेन जघ्ने दैत्यांश्चतुःशतम्१५

ततः पाण्डुरमेघाभं कैलासमिव संस्थितम्वरुणस्यालयं दिव्यमपश्यद्राक्षसाधिपः१६

क्षरन्तीं पयो नित्यं सुरभिं गामवस्थिताम्यस्याः पयोविनिष्यन्दात्क्षीरोदो नाम सागरः१७

यस्माच्चन्द्रः प्रभवति शीतरश्मिः प्रजाहितःयं समासाद्य जीवन्ति फेनपाः परमर्षयःअमृतं यत्र चोत्पन्नं सुरा चापि सुराशिनाम्१८

यां ब्रुवन्ति नरा लोके सुरभिं नाम नामतःप्रदक्षिणं तु तां कृत्वा रावणः परमाद्भुताम्प्रविवेश महाघोरं गुप्तं बहुविधैर्बलैः१९

ततो धाराशताकीर्णं शारदाभ्रनिभं तदानित्यप्रहृष्टं ददृशे वरुणस्य गृहोत्तमम्२०

ततो हत्वा बलाध्यक्षान्समरे तैश्च ताडितःअब्रवीत्क्व गतो यो वो राजा शीघ्रं निवेद्यताम्२१

युद्धार्थी रावणः प्राप्तस्तस्य युद्धं प्रदीयताम्वद वा भयं तेऽस्ति निर्जितोऽस्मीति साञ्जलिः२२

एतस्मिन्नन्तरे क्रुद्धा वरुणस्य महात्मनःपुत्राः पौत्राश्च निष्क्रामन्गौश्च पुष्कर एव २३

ते तु वीर्यगुणोपेता बलैः परिवृताः स्वकैःयुक्त्वा रथान्कामगमानुद्यद्भास्करवर्चसः२४

ततो युद्धं समभवद्दारुणं लोमहर्षणम्सलिलेन्द्रस्य पुत्राणां रावणस्य रक्षसः२५

अमात्यैस्तु महावीर्यैर्दशग्रीवस्य रक्षसःवारुणं तद्बलं कृत्स्नं क्षणेन विनिपातितम्२६

समीक्ष्य स्वबलं संख्ये वरुणस्या सुतास्तदाअर्दिताः शरजालेन निवृत्ता रणकर्मणः२७

महीतलगतास्ते तु रावणं दृश्य पुष्पकेआकाशमाशु विविशुः स्यन्दनैः शीघ्रगामिभिः२८

महदासीत्ततस्तेषां तुल्यं स्थानमवाप्य तत्आकाशयुद्धं तुमुलं देवदानवयोरिव२९

ततस्ते रावणं युद्धे शरैः पावकसंनिभैःविमुखीकृत्य संहृष्टा विनेदुर्विविधान्रवान्३०

ततो महोदरः क्रुद्धो राजानं दृश्य धर्षितम्त्यक्त्वा मृत्युभयं वीरो युद्धकाङ्क्षी व्यलोकयत्३१

तेन तेषां हया ये कामगाः पवनोपमाःमहोदरेण गदया हतास्ते प्रययुः क्षितिम्३२

तेषां वरुणसूनूनां हत्वा योधान्हयांश्च तान्मुमोचाशु महानादं विरथान्प्रेक्ष्य तान्स्थितान्३३

ते तु तेषां रथाः साश्वाः सह सारथिभिर्वरैःमहोदरेण निहताः पतिताः पृथिवीतले३४

ते तु त्यक्त्वा रथान्पुत्रा वरुणस्य महात्मनःआकाशे विष्ठिताः शूराः स्वप्रभावान्न विव्यथुः३५

धनूंषि कृत्वा सज्यानि विनिर्भिद्य महोदरम्रावणं समरे क्रुद्धाः सहिताः समभिद्रवन्३६

ततः क्रुद्धो दशग्रीवः कालाग्निरिव विष्ठितःशरवर्षं महावेगं तेषां मर्मस्वपातयत्३७

मुसलानि विचित्राणि ततो भल्लशतानि पट्टसांश्चैव शक्तीश्च शतघ्नीस्तोमरांस्तथापातयामास दुर्धर्षस्तेषामुपरि विष्ठितः३८

अथ विद्धास्तु ते वीरा विनिष्पेतुः पदातयः३९

ततो रक्षो महानादं मुक्त्वा हन्ति स्म वारुणान्नानाप्रहरणैर्घोरैर्धारापातैरिवाम्बुदः४०

ततस्ते विमुखाः सर्वे पतिता धरणीतलेरणात्स्वपुरुषैः शीघ्रं गृहाण्येव प्रवेशिताः४१

तानब्रवीत्ततो रक्षो वरुणाय निवेद्यताम्रावणं चाब्रवीन्मन्त्री प्रभासो नाम वारुणः४२

गतः खलु महातेजा ब्रह्मलोकं जलेश्वरःगान्धर्वं वरुणः श्रोतुं यं त्वमाह्वयसे युधि४३

तत्किं तव वृथा वीर परिश्राम्य गते नृपेये तु संनिहिता वीराः कुमारास्ते पराजिताः४४

राक्षसेन्द्रस्तु तच्छ्रुत्वा नाम विश्राव्य चात्मनःहर्षान्नादं विमुञ्चन्वै निष्क्रान्तो वरुणालयात्४५

आगतस्तु पथा येन तेनैव विनिवृत्य सःलङ्कामभिमुखो रक्षो नभस्तलगतो ययौ४६

इति श्रीरामायणे उत्तरकाण्डे त्रयोविंशतितमः सर्गः२३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved