॥ ॐ श्री गणपतये नमः ॥

१७ सर्गः

अथ राजन्महाबाहुर्विचरन्स महीतलम्हिमवद्वनमासाद्य परिचक्राम रावणः

तत्रापश्यत वै कन्यां कृष्टाजिनजटाधराम्आर्षेण विधिना युक्तां तपन्तीं देवतामिव

दृष्ट्वा रूपसंपन्नां कन्यां तां सुमहाव्रताम्काममोहपरीतात्मा पप्रच्छ प्रहसन्निव

किमिदं वर्तसे भद्रे विरुद्धं यौवनस्य ते हि युक्ता तवैतस्य रूपस्येयं प्रतिक्रिया

कस्यासि दुहिता भद्रे को वा भर्ता तवानघेपृच्छतः शंस मे शीघ्रं को वा हेतुस्तपोऽर्जने

एवमुक्ता तु सा कन्या तेनानार्येण रक्षसाअब्रवीद्विधिवत्कृत्वा तस्यातिथ्यं तपोधना

कुशध्वजो नाम पिता ब्रह्मर्षिर्मम धार्मिकःबृहस्पतिसुतः श्रीमान्बुद्ध्या तुल्यो बृहस्पतेः

तस्याहं कुर्वतो नित्यं वेदाभ्यासं महात्मनःसंभूता वान्मयी कन्या नाम्ना वेदवती स्मृता

ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाःते चापि गत्वा पितरं वरणं रोचयन्ति मे

मां पिता तेभ्यो दत्तवान्राक्षसेश्वरकारणं तद्वदिष्यामि निशामय महाभुज१०

पितुस्तु मम जामाता विष्णुः किल सुरोत्तमःअभिप्रेतस्त्रिलोकेशस्तस्मान्नान्यस्य मे पिता११

दातुमिच्छति धर्मात्मा तच्छ्रुत्वा बलदर्पितःशम्भुर्नाम ततो राजा दैत्यानां कुपितोऽभवत्तेन रात्रौ प्रसुप्तो मे पिता पापेन हिंसितः१२

ततो मे जननी दीना तच्छरीरं पितुर्ममपरिष्वज्य महाभागा प्रविष्टा दहनं सह१३

ततो मनोरथं सत्यं पितुर्नारायणं प्रतिकरोमीति ममेच्छा हृदये साधु विष्ठिता१४

अहं प्रेतगतस्यापि करिष्ये काङ्क्षितं पितुःइति प्रतिज्ञामारुह्य चरामि विपुलं तपः१५

एतत्ते सर्वमाख्यातं मया राक्षसपुंगवआश्रितां विद्धि मां धर्मं नारायणपतीच्छया१६

विज्ञातस्त्वं हि मे राजन्गच्छ पौलस्त्यनन्दनजानामि तपसा सर्वं त्रैलोक्ये यद्धि वर्तते१७

सोऽब्रवीद्रावणस्तत्र तां कन्यां सुमहाव्रताम्अवरुह्य विमानाग्रात्कन्दर्पशरपीडितः१८

अवलिप्तासि सुश्रोणि यस्यास्ते मतिरीदृशीवृद्धानां मृगशावाक्षि भ्राजते धर्मसंचयः१९

त्वं सर्वगुणसंपन्ना नार्हसे कर्तुमीदृशम्त्रैलोक्यसुन्दरी भीरु यौवने वार्धकं विधिम्२०

कश्च तावदसौ यं त्वं विष्णुरित्यभिभाषसेवीर्येण तपसा चैव भोगेन बलेन मयासौ समो भद्रे यं त्वं कामयसेऽङ्गने२१

मा मैवमिति सा कन्या तमुवाच निशाचरम्मूर्धजेषु तां रक्षः कराग्रेण परामृशत्२२

ततो वेदवती क्रुद्धा केशान्हस्तेन साच्छिनत्उवाचाग्निं समाधाय मरणाय कृतत्वरा२३

धर्षितायास्त्वयानार्य नेदानीं मम जीवितम्रक्षस्तस्मात्प्रवेक्ष्यामि पश्यतस्ते हुताशनम्२४

यस्मात्तु धर्षिता चाहमपापा चाप्यनाथवत्तस्मात्तव वधार्थं वै समुत्पत्स्याम्यहं पुनः२५

हि शक्यः स्त्रिया पाप हन्तुं त्वं तु विशेषतःशापे त्वयि मयोत्सृष्टे तपसश्च व्ययो भवेत्२६

यदि त्वस्ति मया किंचित्कृतं दत्तं हुतं तथातेन ह्ययोनिजा साध्वी भवेयं धर्मिणः सुता२७

एवमुक्त्वा प्रविष्टा सा ज्वलन्तं वै हुताशनम्पपात दिवो दिव्या पुष्पवृष्टिः समन्ततः२८

पूर्वं क्रोधहतः शत्रुर्ययासौ निहतस्त्वयासमुपाश्रित्य शैलाभं तव वीर्यममानुषम्२९

एवमेषा महाभागा मर्त्येषूत्पद्यते पुनःक्षेत्रे हलमुखग्रस्ते वेद्यामग्निशिखोपमा३०

एषा वेदवती नाम पूर्वमासीत्कृते युगेत्रेतायुगमनुप्राप्य वधार्थं तस्य रक्षसःसीतोत्पन्नेति सीतैषा मानुषैः पुनरुच्यते३१

इति श्रीरामायणे उत्तरकाण्डे सप्तदशः सर्गः१७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved