॥ ॐ श्री गणपतये नमः ॥

१३ सर्गः

अथ लोकेश्वरोत्सृष्टा तत्र कालेन केनचित्निद्रा समभवत्तीव्रा कुम्भकर्णस्य रूपिणी

ततो भ्रातरमासीनं कुम्भकर्णोऽब्रवीद्वचःनिद्रा मां बाधते राजन्कारयस्व ममालयम्

विनियुक्तास्ततो राज्ञा शिल्पिनो विश्वकर्मवत्अकुर्वन्कुम्भकर्णस्य कैलाससममालयम्

विस्तीर्णं योजनं शुभ्रं ततो द्विगुणमायतम्दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे

स्फाटिकैः काञ्चनैश्चित्रैः स्तम्भैः सर्वत्र शोभितम्वैदूर्यकृतशोभं किङ्किणीजालकं तथा

दन्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम्सर्वर्तुसुखदं नित्यं मेरोः पुण्यां गुहामिव

तत्र निद्रां समाविष्टः कुम्भकर्णो निशाचरःबहून्यब्दसहस्राणि शयानो नावबुध्यते

निद्राभिभूते तु तदा कुम्भकर्णे दशाननःदेवर्षियक्षगन्धर्वान्बाधते स्म नित्यशः

उद्यानानि विचित्राणि नन्दनादीनि यानि तानि गत्वा सुसंक्रुद्धो भिनत्ति स्म दशाननः

नदीं गज इव क्रीडन्वृक्षान्वायुरिव क्षिपन्नगान्वज्र इव सृष्टो विध्वंसयति नित्यशः१०

तथा वृत्तं तु विज्ञाय दशग्रीवं धनेश्वरःकुलानुरूपं धर्मज्ञ वृत्तं संस्मृत्य चात्मनः११

सौभ्रात्रदर्शनार्थं तु दूतं वैश्वरणस्तदालङ्कां संप्रेषयामास दशग्रीवस्य वै हितम्१२

गत्वा नगरीं लङ्कामाससाद विभीषणम्मानितस्तेन धर्मेण पृष्टश्चागमनं प्रति१३

पृष्ट्वा कुशलं राज्ञो ज्ञातीनपि बान्धवान्सभायां दर्शयामास तमासीनं दशाननम्१४

दृष्ट्वा तत्र राजानं दीप्यमानं स्वतेजसाजयेन चाभिसंपूज्य तूष्णीमासीन्मुहूर्तकम्१५

तस्योपनीते पर्यङ्के वरास्तरणसंवृतेउपविश्य दशग्रीवं दूतो वाक्यमथाब्रवीत्१६

राजन्वदामि ते सर्वं भ्राता तव यदब्रवीत्उभयोः सदृशं सौम्य वृत्तस्य कुलस्य १७

साधु पर्याप्तमेतावत्कृतश्चारित्रसंग्रहःसाधु धर्मे व्यवस्थानं क्रियतां यदि शक्यते१८

दृष्टं मे नन्दनं भग्नमृषयो निहताः श्रुताःदेवानां तु समुद्योगस्त्वत्तो राजञ्श्रुतश्च मे१९

निराकृतश्च बहुशस्त्वयाहं राक्षसाधिपअपराद्धा हि बाल्याच्च रक्षणीयाः स्वबान्धवाः२०

अहं तु हिमवत्पृष्ठं गतो धर्ममुपासितुम्रौद्रं व्रतं समास्थाय नियतो नियतेन्द्रियः२१

तत्र देवो मया दृष्टः सह देव्योमया प्रभुःसव्यं चक्षुर्मया चैव तत्र देव्यां निपातितम्२२

का न्वियं स्यादिति शुभा खल्वन्येन हेतुनारूपं ह्यनुपमं कृत्वा तत्र क्रीडति पार्वती२३

ततो देव्याः प्रभावेन दग्धं सव्यं ममेक्षणम्रेणुध्वस्तमिव ज्योतिः पिङ्गलत्वमुपागतम्२४

ततोऽहमन्यद्विस्तीर्णं गत्वा तस्य गिरेस्तटम्पूर्णं वर्षशतान्यष्टौ समवाप महाव्रतम्२५

समाप्ते नियमे तस्मिंस्तत्र देवो महेश्वरःप्रीतः प्रीतेन मनसा प्राह वाक्यमिदं प्रभुः२६

प्रीतोऽस्मि तव धर्मज्ञ तपसानेन सुव्रतमया चैतद्व्रतं चीर्णं त्वया चैव धनाधिप२७

तृतीयः पुरुषो नास्ति यश्चरेद्व्रतमीदृशम्व्रतं सुदुश्चरं ह्येतन्मयैवोत्पादितं पुरा२८

तत्सखित्वं मया सार्धं रोचयस्व धनेश्वरतपसा निर्जितत्वाद्धि सखा भव ममानघ२९

देव्या दग्धं प्रभावेन यच्च साव्यं तवेक्षणम्एकाक्षि पिङ्गलेत्येव नाम स्थास्यति शाश्वतम्३०

एवं तेन सखित्वं प्राप्यानुज्ञां शंकरात्आगम्य श्रुतोऽयं मे तव पापविनिश्चयः३१

तदधर्मिष्ठसंयोगान्निवर्त कुलदूषणचिन्त्यते हि वधोपायः सर्षिसंघैः सुरैस्तव३२

एवमुक्तो दशग्रीवः क्रुद्धः संरक्तलोचनःहस्तान्दन्तांश संपीड्य वाक्यमेतदुवाच ३३

विज्ञातं ते मया दूत वाक्यं यत्त्वं प्रभाषसेनैव त्वमसि नैवासौ भ्रात्रा येनासि प्रेषितः३४

हितं ममैतद्धि ब्रवीति धनरक्षकःमहेश्वरसखित्वं तु मूढ श्रावयसे किल३५

हन्तव्यो गुरुर्ज्येष्ठो ममायमिति मन्यतेतस्य त्विदानीं श्रुत्वा मे वाक्यमेषा कृता मतिः३६

त्रीँल्लोकानपि जेष्यामि बाहुवीर्यमुपाश्रितःएतन्मुहूर्तमेषोऽहं तस्यैकस्य कृते वैचतुरो लोकपालांस्तान्नयिष्यामि यमक्षयम्३७

एवमुक्त्वा तु लङ्केशो दूतं खड्गेन जघ्निवान्ददौ भक्षयितुं ह्येनं राक्षसानां दुरात्मनाम्३८

ततः कृतस्वस्त्ययनो रथमारुह्य रावणःत्रैलोक्यविजयाकाङ्क्षी ययौ तत्र धनेश्वरः३९

इति श्रीरामायणे उत्तरकाण्डे त्रयोदशः सर्गः१३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved