॥ ॐ श्री गणपतये नमः ॥

१० सर्गः

अथाब्रवीद्द्विजं रामः कथं ते भ्रातरो वनेकीदृशं तु तदा ब्रह्मंस्तपश्चेरुर्महाव्रताः

अगस्त्यस्त्वब्रवीत्तत्र रामं प्रयत मानसंतांस्तान्धर्मविधींस्तत्र भ्रातरस्ते समाविशन्

कुम्भकर्णस्तदा यत्तो नित्यं धर्मपरायणःतताप ग्रैष्मिके काले पञ्चस्वग्निष्ववस्थितः

वर्षे मेघोदकक्लिन्नो वीरासनमसेवतनित्यं शैशिरे काले जलमध्यप्रतिश्रयः

एवं वर्षसहस्राणि दश तस्यातिचक्रमुःधर्मे प्रयतमानस्य सत्पथे निष्ठितस्य

विभीषणस्तु धर्मात्मा नित्यं धर्मपरः शुचिःपञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान्

समाप्ते नियमे तस्य ननृतुश्चाप्सरोगणाःपपात पुष्पवर्षं क्षुभिताश्चापि देवताः

पञ्चवर्षसहस्राणि सूर्यं चैवान्ववर्तततस्थौ चोर्ध्वशिरोबाहुः स्वाध्यायधृतमानसः

एवं विभीषणस्यापि गतानि नियतात्मनःदशवर्षसहस्राणि स्वर्गस्थस्येव नन्दने

दशवर्षसहस्रं तु निराहारो दशाननःपूर्णे वर्षसहस्रे तु शिरश्चाग्नौ जुहाव सः१०

एवं वर्षसहस्राणि नव तस्यातिचक्रमुःशिरांसि नव चाप्यस्य प्रविष्टानि हुताशनम्११

अथ वर्षसहस्रे तु दशमे दशमं शिरःछेत्तुकामः धर्मात्मा प्राप्तश्चात्र पितामहः१२

पितामहस्तु सुप्रीतः सार्धं देवैरुपस्थितःवत्स वत्स दशग्रीव प्रीतोऽस्मीत्यभ्यभाषत१३

शीघ्रं वरय धर्मज्ञ वरो यस्तेऽभिकाङ्क्षितःकिं ते कामं करोम्यद्य वृथा ते परिश्रमः१४

ततोऽब्रवीद्दशग्रीवः प्रहृष्टेनान्तरात्मनाप्रणम्य शिरसा देवं हर्षगद्गदया गिरा१५

भगवन्प्राणिनां नित्यं नान्यत्र मरणाद्भयम्नास्ति मृत्युसमः शत्रुरमरत्वमतो वृणे१६

सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम्अवध्यः स्यां प्रजाध्यक्ष देवतानां शाश्वतम्१७

हि चिन्ता ममान्येषु प्राणिष्वमरपूजिततृणभूता हि मे सर्वे प्राणिनो मानुषादयः१८

एवमुक्तस्तु धर्मात्मा दशग्रीवेण रक्षसाउवाच वचनं राम सह देवैः पितामहः१९

भविष्यत्येवमेवैतत्तव राक्षसपुंगवशृणु चापि वचो भूयः प्रीतस्येह शुभं मम२०

हुतानि यानि शीर्षाणि पूर्वमग्नौ त्वयानघपुनस्तानि भविष्यन्ति तथैव तव राक्षस२१

एवं पितामहोक्तस्य दशग्रीवस्य रक्षसःअग्नौ हुतानि शीर्षाणि यानि तान्युत्थितानि वै२२

एवमुक्त्वा तु तं राम दशग्रीवं प्रजापतिःविभीषणमथोवाच वाक्यं लोकपितामहः२३

विभीषण त्वया वत्स धर्मसंहितबुद्धिनापरितुष्टोऽस्मि धर्मज्ञ वरं वरय सुव्रत२४

विभीषणस्तु धर्मात्मा वचनं प्राह साञ्जलिःवृतः सर्वगुणैर्नित्यं चन्द्रमा इव रश्मिभिः२५

भगवन्कृतकृत्योऽहं यन्मे लोकगुरुः स्वयम्प्रीतो यदि त्वं दातव्यं वरं मे शृणु सुव्रत२६

या या मे जायते बुद्धिर्येषु येष्वाश्रमेष्विहसा सा भवतु धर्मिष्ठा तं तं धर्मं पालये२७

एष मे परमोदार वरः परमको मतः हि धर्माभिरक्तानां लोके किंचन दुर्लभम्२८

अथ प्रजापतिः प्रीतो विभीषणमुवाच धर्मिष्ठस्त्वं यथा वत्स तथा चैतद्भविष्यति२९

यस्माद्राक्षसयोनौ ते जातस्यामित्रकर्षणनाधर्मे जायते बुद्धिरमरत्वं ददामि ते३०

कुम्भकर्णाय तु वरं प्रयच्छन्तमरिंदमप्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयोऽब्रुवन्३१

तावत्कुम्भकर्णाय प्रदातव्यो वरस्त्वयाजानीषे हि यथा लोकांस्त्रासयत्येष दुर्मतिः३२

नन्दनेऽप्सरसः सप्त महेन्द्रानुचरा दशअनेन भक्षिता ब्रह्मन्नृषयो मानुषास्तथा३३

वरव्याजेन मोहोऽस्मै दीयताममितप्रभलोकानां स्वस्ति चैव स्याद्भवेदस्य संनतिः३४

एवमुक्तः सुरैर्ब्रह्माचिन्तयत्पद्मसंभवःचिन्तिता चोपतस्थेऽस्य पार्श्वं देवी सरस्वती३५

प्राञ्जलिः सा तु पर्श्वस्था प्राह वाक्यं सरस्वतीइयमस्म्यागता देव किं कार्यं करवाण्यहम्३६

प्रजापतिस्तु तां प्राप्तां प्राह वाक्यं सरस्वतीम्वाणि त्वं राक्षसेन्द्रस्य भव या देवतेप्सिता३७

तथेत्युक्त्वा प्रविष्टा सा प्रजापतिरथाब्रवीत्कुम्भकर्ण महाबाहो वरं वरय यो मतः३८

कुम्भकर्णस्तु तद्वाक्यं श्रुत्वा वचनमब्रवीत्स्वप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम्३९

एवमस्त्विति तं चोक्त्वा सह देवैः पितामहःदेवी सरस्वती चैव मुक्त्वा तं प्रययौ दिवम्४०

कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितःकीदृशं किं न्विदं वाक्यं ममाद्य वदनाच्च्युतम्४१

एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसःश्लेष्मातकवनं गत्वा तत्र ते न्यवसन्सुखम्४२

इति श्रीरामायणे उत्तरकाण्डे दशमः सर्गः१०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved