॥ ॐ श्री गणपतये नमः ॥

सर्गः

कस्यचित्त्वथ कालस्य सुमाली नाम राक्षसःरसातलान्मर्त्यलोकं सर्वं वै विचचार

नीलजीमूतसंकाशस्तप्तकाञ्चनकुण्डलःकन्यां दुहितरं गृह्य विना पद्ममिव श्रियम्अथापश्यत्स गच्छन्तं पुष्पकेण धनेश्वरम्

तं दृष्ट्वामरसंकाशं गच्छन्तं पावकोपमम्अथाब्रवीत्सुतां रक्षः कैकसीं नाम नामतः

पुत्रि प्रदानकालोऽयं यौवनं तेऽतिवर्ततेत्वत्कृते वयं सर्वे यन्त्रिता धर्मबुद्धयः

त्वं हि सर्वगुणोपेता श्रीः सपद्मेव पुत्रिकेप्रत्याख्यानाच्च भीतैस्त्वं वरैः प्रतिगृह्यसे

कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ज्ञायते कः कन्यां वरयेदिति पुत्रिके

मातुः कुलं पितृकुलं यत्र चैव प्रदीयतेकुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति

सा त्वं मुनिवरश्रेष्ठं प्रजापतिकुलोद्भवम्गच्छ विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम्

ईदृशास्ते भविष्यन्ति पुत्राः पुत्रि संशयःतेजसा भास्करसमा यादृशोऽयं धनेश्वरः

एतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजःअग्निहोत्रमुपातिष्ठच्चतुर्थ इव पावकः१०

सा तु तां दारुणां वेलामचिन्त्य पितृगौरवात्उपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता११

तु तां वीक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम्अब्रवीत्परमोदारो दीप्यमान इवौजसा१२

भद्रे कस्यासि दुहिता कुतो वा त्वमिहागताकिं कार्यं कस्य वा हेतोस्तत्त्वतो ब्रूहि शोभने१३

एवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत्आत्मप्रभावेन मुने ज्ञातुमर्हसि मे मतम्१४

किं तु विद्धि हि मां ब्रह्मञ्शासनात्पितुरागताम्कैकसी नाम नाम्नाहं शेषं त्वं ज्ञातुमर्हसि१५

तु गत्वा मुनिर्ध्यानं वाक्यमेतदुवाच विज्ञातं ते मया भद्रे कारणं यन्मनोगतम्१६

दारुणायां तु वेलायां यस्मात्त्वं मामुपस्थिताशृणु तस्मात्सुतान्भद्रे यादृशाञ्जनयिष्यसि१७

दारुणान्दारुणाकारान्दारुणाभिजनप्रियान्प्रसविष्यसि सुश्रोणि राक्षसान्क्रूरकर्मणः१८

सा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद्वचःभगवन्नेदृशाः पुत्रास्त्वत्तोऽर्हा ब्रह्मयोनितः१९

अथाब्रवीन्मुनिस्तत्र पश्चिमो यस्तवात्मजःमम वंशानुरूपश्च धर्मात्मा भविष्यति२०

एवमुक्ता तु सा कन्या राम कालेन केनचित्जनयामास बीभत्सं रक्षोरूपं सुदारुणम्२१

दशशीर्षं महादंष्ट्रं नीलाञ्जनचयोपमम्ताम्रौष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम्२२

जातमात्रे ततस्तस्मिन्सज्वालकवलाः शिवाःक्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रिरे२३

ववर्ष रुधिरं देवो मेघाश्च खरनिस्वनाःप्रबभौ खे सूर्यो महोल्काश्चापतन्भुवि२४

अथ नामाकरोत्तस्य पितामहसमः पितादशशीर्षः प्रसूतोऽयं दशग्रीवो भविष्यति२५

तस्य त्वनन्तरं जातः कुम्भकर्णो महाबलःप्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते२६

ततः शूर्पणखा नाम संजज्ञे विकृताननाविभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः२७

ते तु तत्र महारण्ये ववृधुः सुमहौजसःतेषां क्रूरो दशग्रीवो लोकोद्वेगकरोऽभवत्२८

कुम्भकर्णः प्रमत्तस्तु महर्षीन्धर्मसंश्रितान्त्रैलोक्यं त्रासयन्दुष्टो भक्षयन्विचचार २९

विभीषणस्तु धर्मात्मा नित्यं धर्मपथे स्थितःस्वाध्यायनियताहार उवास नियतेन्द्रियः३०

अथ वित्तेश्वरो देवस्तत्र कालेन केनचित्आगच्छत्पितरं द्रष्टुं पुष्पकेण महौजसं३१

तं दृष्ट्वा कैकसी तत्र ज्वलन्तमिव तेजसाआस्थाय राक्षसीं बुद्धिं दशग्रीवमुवाच ३२

पुत्र वैश्रवणं पश्य भ्रातरं तेजसा वृतम्भ्रातृभावे समे चापि पश्यात्मानं त्वमीदृशम्३३

दशग्रीव तथा यत्नं कुरुष्वामितविक्रमयथा भवसि मे पुत्र शीघ्रं वैश्वरणोपमः३४

मातुस्तद्वचनं श्रुत्वा दशग्रीवः प्रतापवान्अमर्षमतुलं लेभे प्रतिज्ञां चाकरोत्तदा३५

सत्यं ते प्रतिजानामि तुल्यो भ्रात्राधिकोऽपि वाभविष्याम्यचिरान्मातः संतापं त्यज हृद्गतम्३६

ततः क्रोधेन तेनैव दशग्रीवः सहानुजःप्राप्स्यामि तपसा काममिति कृत्वाध्यवस्य आगच्छदात्मसिद्ध्यर्थं गोकर्णस्याश्रमं शुभम्३७

इति श्रीरामायणे उत्तरकाण्डे नवमः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved