॥ ॐ श्री गणपतये नमः ॥

सर्गः

नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाःअवर्षन्निषुवर्षेण वर्षेणाद्रिमिवाम्बुदाः

श्यामावदातस्तैर्विष्णुर्नीलैर्नक्तंचरोत्तमैःवृतोऽञ्जनगिरीवासीद्वर्षमाणैः पयोधरैः

शलभा इव केदारं मशका इव पर्वतम्यथामृतघटं जीवा मकरा इव चार्णवम्

तथा रक्षोधनुर्मुक्ता वज्रानिलमनोजवाःहरिं विशन्ति स्म शरा लोकास्तमिव पर्यये

स्यन्दनैः स्यन्दनगता गजैश्च गजधूर्गताःअश्वारोहाः सदश्वैश्च पादाताश्चाम्बरे चराः

राक्षसेन्द्रा गिरिनिभाः शरशक्त्यृष्टितोमरैःनिरुच्छ्वासं हरिं चक्रुः प्राणायाम इव द्विजम्

निशाचरैस्तुद्यमानो मीनैरिव महातिमिःशार्ङ्गमायम्य गात्राणि राक्षसानां महाहवे

शरैः पूर्णायतोत्सृष्टैर्वज्रवक्त्रैर्मनोजवैःचिच्छेद तिलशो विष्णुः शतशोऽथ सहस्रशः

विद्राव्य शरवर्षं तं वर्षं वायुरिवोत्थितम्पाञ्चजन्यं महाशङ्खं प्रदध्मौ पुरुषोत्तमः

सोऽम्बुजो हरिणा ध्मातः सर्वप्राणेन शङ्खराट्ररास भीमनिह्रादो युगान्ते जलदो यथा१०

शङ्खराजरवः सोऽथ त्रासयामास राक्षसान्मृगराज इवारण्ये समदानिव कुञ्जरान्११

शेकुरश्वाः संस्थातुं विमदाः कुञ्जराभवन्स्यन्दनेभ्यश्च्युता योधाः शङ्खरावितदुर्बलाः१२

शार्ङ्गचापविनिर्मुक्ता वज्रतुल्याननाः शराःविदार्य तानि रक्षांसि सुपुङ्खा विविशुः क्षितिम्१३

भिद्यमानाः शरैश्चान्ये नारायणधनुश्च्युतैःनिपेतू राक्षसा भीमाः शैला वज्रहता इव१४

व्रणैर्व्रणकरारीणामधोक्षजशरोद्भवैःअसृक्क्षरन्ति धाराभिः स्वर्णधारामिवाचलाः१५

शङ्खराजरवश्चापि शार्ङ्गचापरवस्तथाराक्षसानां रवांश्चापि ग्रसते वैष्णवो रवः१६

सूर्यादिव करा घोरा ऊर्मयः सागरादिवपर्वतादिव नागेन्द्रा वार्योघा इव चाम्बुदात्१७

तथा बाणा विनिर्मुक्ताः शार्ङ्गान्नरायणेरिताःनिर्धावन्तीषवस्तूर्णं शतशोऽथ सहस्रशः१८

शरभेण यथा सिंहाः सिंहेन द्विरदा यथाद्विरदेन यथा व्याघ्रा व्याघ्रेण द्वीपिनो यथा१९

द्वीपिना यथा श्वानः शुना मार्जारका यथामार्जारेण यथा सर्पाः सर्पेण यथाखवः२०

तथा ते राक्षसा युद्धे विष्णुना प्रभविष्णुनाद्रवन्ति द्राविताश्चैव शायिताश्च महीतले२१

राक्षसानां सहस्राणि निहत्य मधुसूदनःवारिजं नादयामास तोयदं सुरराडिव२२

नारायणशरग्रस्तं शङ्खनादसुविह्वलम्ययौ लङ्कामभिमुखं प्रभग्नं राक्षसं बलम्२३

प्रभग्ने राक्षसबले नारायणशराहतेसुमाली शरवर्षेण आववार रणे हरिम्२४

उत्क्षिप्य हेमाभरणं करं करमिव द्विपःररास राक्षसो हर्षात्सतडित्तोयदो यथा२५

सुमालेर्नर्दतस्तस्य शिरो ज्वलितकुण्डलम्चिच्छेद यन्तुरश्वाश्च भ्रान्तास्तस्य तु रक्षसः२६

तैरश्वैर्भ्राम्यते भ्रान्तैः सुमाली राक्षसेश्वरःइन्द्रियाश्वैर्यथा भ्रान्तैर्धृतिहीनो यथा नरः२७

माली चाभ्यद्रवद्युद्धे प्रगृह्य सशरं धनुःमालेर्धनुश्च्युता बाणाः कार्तस्वरविभूषिताःविविशुर्हरिमासाद्य क्रौञ्चं पत्ररथा इव२८

अर्द्यमानः शरैः सोऽथ मालिमुक्तैः सहस्रशःचुक्षुभे रणे विष्णुर्जितेन्द्रिय इवाधिभिः२९

अथ मौर्वी स्वनं कृत्वा भगवान्भूतभावनःमालिनं प्रति बाणौघान्ससर्जासिगदाधरः३०

ते मालिदेहमासाद्य वज्रविद्युत्प्रभाः शराःपिबन्ति रुधिरं तस्य नागा इव पुरामृतम्३१

मालिनं विमुखं कृत्वा मालिमौलिं हरिर्बलात्रथं सध्वजं चापं वाजिनश्च न्यपातयत्३२

विरथस्तु गदां गृह्य माली नक्तंचरोत्तमःआपुप्लुवे गदापाणिर्गिर्यग्रादिव केषरी३३

तया गरुडं संख्ये ईशानमिव चान्तकःललाटदेशेऽभ्यहनद्वज्रेणेन्द्रो यथाचलम्३४

गदयाभिहतस्तेन मालिना गरुडो भृशम्रणात्पराङ्मुखं देवं कृतवान्वेदनातुरः३५

पराङ्मुखे कृते देवे मालिना गरुडेन वैउदतिष्ठन्महानादो रक्षसामभिनर्दताम्३६

रक्षसां नदतां नादं श्रुत्वा हरिहयानुजःपराङ्मुखोऽप्युत्ससर्ज चक्रं मालिजिघांसया३७

तत्सूर्यमण्डलाभासं स्वभासा भासयन्नभःकालचक्रनिभं चक्रं मालेः शीर्षमपातयत्३८

तच्छिरो राक्षसेन्द्रस्य चक्रोत्कृत्तं विभीषणम्पपात रुधिरोद्गारि पुरा राहुशिरो यथा३९

ततः सुरैः सुसंहृष्टैः सर्वप्राणसमीरितःसिंहनादरवो मुक्तः साधु देवेति वादिभिः४०

मालिनं निहतं दृष्ट्वा सुमाली मल्यवानपिसबलौ शोकसंतप्तौ लङ्कां प्रति विधावितौ४१

गरुडस्तु समाश्वस्तः संनिवृत्य महामनाःराक्षसान्द्रावयामास पक्षवातेन कोपितः४२

नारायणोऽपीषुवराशनीभिर्विदारयामास धनुःप्रमुक्तैःनक्तंचरान्मुक्तविधूतकेशान्यथाशनीभिः सतडिन्महेन्द्रः४३

भिन्नातपत्रं पतमानशस्त्रंशरैरपध्वस्तविशीर्णदेहम्विनिःसृतान्त्रं भयलोलनेत्रंबलं तदुन्मत्तनिभं बभूव४४

सिंहार्दितानामिव कुञ्जराणांनिशाचराणां सह कुञ्जराणाम्रवाश्च वेगाश्च समं बभूवुःपुराणसिंहेन विमर्दितानाम्४५

संछाद्यमाना हरिबाणजालैःस्वबाणजालानि समुत्सृजन्तःधावन्ति नक्तंचरकालमेघावायुप्रणुन्ना इव कालमेघाः४६

चक्रप्रहारैर्विनिकृत्तशीर्षाःसंचूर्णिताङ्गाश्च गदाप्रहारैःअसिप्रहारैर्बहुधा विभक्ताःपतन्ति शैला इव राक्षसेन्द्राः४७

चक्रकृत्तास्यकमला गदासंचूर्णितोरसःलाङ्गलग्लपितग्रीवा मुसलैर्भिन्नमस्तकाः४८

केचिच्चैवासिना छिन्नास्तथान्ये शरताडिताःनिपेतुरम्बरात्तूर्णं राक्षसाः सागराम्भसि४९

तदाम्बरं विगलितहारकुण्डलैर्निशाचरैर्नीलबलाहकोपमैःनिपात्यमानैर्ददृशे निरन्तरंनिपात्यमानैरिव नीलपर्वतैः५०

इति श्रीरामायणे उत्तरकाण्डे सप्तमः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved