॥ ॐ श्री गणपतये नमः ॥

सर्गः

तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाःभयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम्

ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम्ऊचुः प्राञ्जलयो देवा भयगद्गदभाषिणः

सुकेशपुत्रैर्भगवन्पितामहवरोद्धतैःप्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुबाधन

शरण्यान्यशरण्यानि आश्रमाणि कृतानि नःस्वर्गाच्च च्यावितः शक्रः स्वर्गे क्रीडन्ति शक्रवत्

अहं विष्णुरहं रुद्रो ब्रह्माहं देवराडहम्अहं यमोऽहं वरुणश्चन्द्रोऽहं रविरप्यहम्

इति ते राक्षसा देव वरदानेन दर्पिताःबाधन्ते समरोद्धर्षा ये तेषां पुरःसराः

तन्नो देवभयार्तानामभयं दातुमर्हसिअशिवं वपुरास्थाय जहि दैवतकण्टकान्

इत्युक्तस्तु सुरैः सर्वैः कपर्दी नीललोहितःसुकेशं प्रति सापेक्ष आह देवगणान्प्रभुः

नाहं तान्निहनिष्यामि अवध्या मम तेऽसुराःकिं तु मन्त्रं प्रदास्यामि यो वै तान्निहनिष्यति

एवमेव समुद्योगं पुरस्कृत्य सुरर्षभाःगच्छन्तु शरणं विष्णुं हनिष्यति तान्प्रभुः१०

ततस्ते जयशब्देन प्रतिनन्द्य महेश्वरम्विष्णोः समीपमाजग्मुर्निशाचरभयार्दिताः११

शङ्खचक्रधरं देवं प्रणम्य बहुमान्य ऊचुः संभ्रान्तवद्वाक्यं सुकेशतनयार्दिताः१२

सुकेशतनयैर्देव त्रिभिस्त्रेताग्निसंनिभैःआक्रम्य वरदानेन स्थानान्यपहृतानि नः१३

लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थितातत्र स्थिताः प्रबाधन्ते सर्वान्नः क्षणदाचराः१४

त्वमस्मत्प्रियार्थं तु जहि तान्मधुसूदनचक्रकृत्तास्यकमलान्निवेदय यमाय वै१५

भयेष्वभयदोऽस्माकं नान्योऽस्ति भवता समःनुद त्वं नो भयं देव नीहारमिव भास्करः१६

इत्येवं दैवतैरुक्तो देवदेवो जनार्दनःअभयं भयदोऽरीणां दत्त्वा देवानुवाच १७

सुकेशं राक्षसं जाने ईशानवरदर्पितम्तांश्चास्य तनयाञ्जाने येषां ज्येष्ठः माल्यवान्१८

तानहं समतिक्रान्तमर्यादान्राक्षसाधमान्सूदयिष्यामि संग्रामे सुरा भवत विज्वराः१९

इत्युक्तास्ते सुराः सर्वे विष्णुना प्रभविष्णुनायथा वासं ययुर्हृष्टाः प्रशमन्तो जनार्दनम्२०

विबुधानां समुद्योगं माल्यवान्स निशाचरःश्रुत्वा तौ भ्रातरौ वीराविदं वचनमब्रवीत्२१

अमरा ऋषयश्चैव संहत्य किल शंकरम्अस्मद्वधं परीप्सन्त इदमूचुस्त्रिलोचनम्२२

सुकेशतनया देव वरदानबलोद्धताःबाधन्तेऽस्मान्समुद्युक्ता घोररूपाः पदे पदे२३

राक्षसैरभिभूताः स्म शक्ताः स्म उमापतेस्वेषु वेश्मसु संस्थातुं भयात्तेषां दुरात्मनाम्२४

तदस्माकं हितार्थे त्वं जहि तांस्तांस्त्रिलोचनराक्षसान्हुंकृतेनैव दह प्रदहतां वर२५

इत्येवं त्रिदशैरुक्तो निशम्यान्धकसूदनःशिरः करं धुन्वान इदं वचनमब्रवीत्२६

अवध्या मम ते देवाः सुकेशतनया रणेमन्त्रं तु वः प्रदास्यामि यो वै तान्निहनिष्यति२७

यः चक्रगदापाणिः पीतवासा जनार्दनःहनिष्यति तान्युद्धे शरणं तं प्रपद्यथ२८

हरान्नावाप्य ते कामं कामारिमभिवाद्य नारायणालयं प्राप्तास्तस्मै सर्वं न्यवेदयन्२९

ततो नारायणेनोक्ता देवा इन्द्रपुरोगमाःसुरारीन्सूदयिष्यामि सुरा भवत विज्वराः३०

देवानां भयभीतानां हरिणा राक्षसर्षभौप्रतिज्ञातो वधोऽस्माकं तच्चिन्तयथ यत्क्षमम्३१

हिरण्यकशिपोर्मृत्युरन्येषां सुरद्विषाम्दुःखं नारायणं जेतुं यो नो हन्तुमभीप्सति३२

ततः सुमाली माली श्रुत्वा माल्यवतो वचःऊचतुर्भ्रातरं ज्येष्ठं भगांशाविव वासवम्३३

स्वधीतं दत्तमिष्टं ऐश्वर्यं परिपालितम्आयुर्निरामयं प्राप्तं स्वधर्मः स्थापितश्च नः३४

देवसागरमक्षोभ्यं शस्त्रौघैः प्रविगाह्य जिता देवा रणे नित्यं नो मृत्युकृतं भयम्३५

नारायणश्च रुद्रश्च शक्रश्चापि यमस्तथाअस्माकं प्रमुखे स्थातुं सर्व एव हि बिभ्यति३६

विष्णोर्दोषश्च नास्त्यत्र कारणं राक्षसेश्वरदेवानामेव दोषेण विष्णोः प्रचलितं मनः३७

तस्मादद्य समुद्युक्ताः सर्वसैन्यसमावृताःदेवानेव जिघांसामो येभ्यो दोषः समुत्थितः३८

इति माली सुमाली माल्यवानग्रजः प्रभुःउद्योगं घोषयित्वाथ राक्षसाः सर्व एव तेयुद्धाय निर्ययुः क्रुद्धा जम्भवृत्रबला इव३९

स्यन्दनैर्वारणेन्द्रैश्च हयैश्च गिरिसंनिभैःखरैर्गोभिरथोष्ट्रैश्च शिंशुमारैर्भुजंगमैः४०

मकरैः कच्छपैर्मीनैर्विहंगैर्गरुडोपमैःसिंहैर्व्याघ्रैर्वराहैश्च सृमरैश्चमरैरपि४१

त्यक्त्वा लङ्कां ततः सर्वे राक्षसा बलगर्विताःप्रयाता देवलोकाय योद्धुं दैवतशत्रवः४२

लङ्काविपर्ययं दृष्ट्वा यानि लङ्कालयान्यथभूतानि भयदर्शीनि विमनस्कानि सर्वशः४३

भौमास्तथान्तरिक्षाश्च कालाज्ञप्ता भयावहाःउत्पाता राक्षसेन्द्राणामभावायोत्थिता द्रुतम्४४

अस्थीनि मेघा वर्षन्ति उष्णं शोणितमेव वेलां समुद्रोऽप्युत्क्रान्तश्चलन्ते चाचलोत्तमाः४५

अट्टहासान्विमुञ्चन्तो घननादसमस्वनान्भूताः परिपतन्ति स्म नृत्यमानाः सहस्रशः४६

गृध्रचक्रं महच्चापि ज्वलनोद्गारिभिर्मुखैःराक्षसानामुपरि वै भ्रमते कालचक्रवत्४७

तानचिन्त्य महोत्पातान्राक्षसा बलगर्विताःयन्त्येव निवर्तन्ते मृत्युपाशावपाशिताः४८

माल्यवांश्च सुमाली माली रजनीचराःआसन्पुरःसरास्तेषां क्रतूनामिव पावकाः४९

माल्यवन्तं तु ते सर्वे माल्यवन्तमिवाचलम्निशाचरा आश्रयन्ते धातारमिव देहिनः५०

तद्बलं राक्षसेन्द्राणां महाभ्रघननादितम्जयेप्सया देवलोकं ययौ माली वशे स्थितम्५१

राक्षसानां समुद्योगं तं तु नारायणः प्रभुःदेवदूतादुपश्रुत्य दध्रे युद्धे ततो मनः५२

देवसिद्धर्षिमहोरगैश्चगन्धर्वमुख्याप्सरसोपगीतःसमाससादामरशत्रुसैन्यंचक्रासिसीरप्रवरादिधारी५३

सुपर्णपक्षानिलनुन्नपक्षंभ्रमत्पताकं प्रविकीर्णशस्त्रम्चचाल तद्राक्षसराजसैन्यंचलोपलो नील इवाचलेन्द्रः५४

ततः शितैः शोणितमांसरूषितैर्युगान्तवैश्वानरतुल्यविग्रहैःनिशाचराः संपरिवार्य माधवंवरायुधैर्निर्बिभिदुः सहस्रशः५५

इति श्रीरामायणे उत्तरकाण्डे षष्ठः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved