अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुंगवः।अचिरेणैव कालेन पितेव तपसि स्थितः॥ १
सत्यवाञ्शीलवान्दक्षः स्वाध्यायनिरतः शुचिः।सर्वभोगेष्वसंसक्तो नित्यं धर्मपरायणः॥ २
ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महानृषिः।ददौ विश्रवसे भार्यां स्वां सुतां देववर्णिनीम्॥ ३
प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा।मुदा परमया युक्तो विश्रवा मुनिपुंगवः॥ ४
स तस्यां वीर्यसंपन्नमपत्यं परमाद्भुतम्।जनयामास धर्मात्मा सर्वैर्ब्रह्मगुणैर्युतम्॥ ५
तस्मिञ्जाते तु संहृष्टः स बभूव पितामहः।नाम चास्याकरोत्प्रीतः सार्धं देवर्षिभिस्तदा॥ ६
यस्माद्विश्रवसोऽपत्यं सादृश्याद्विश्रवा इव।तस्माद्वैश्रवणो नाम भविष्यत्येष विश्रुतः॥ ७
स तु वैश्रवणस्तत्र तपोवनगतस्तदा।अवर्धत महातेजा हुताहुतिरिवानलः॥ ८
तस्याश्रमपदस्थस्य बुद्धिर्जज्ञे महात्मनः।चरिष्ये नियतो धर्मं धर्मो हि परमा गतिः॥ ९
स तु वर्षसहस्राणि तपस्तप्त्वा महावने।पूर्णे वर्षसहस्रे तु तं तं विधिमवर्तत॥ १०
जलाशी मारुताहारो निराहारस्तथैव च।एवं वर्षसहस्राणि जग्मुस्तान्येव वर्षवत्॥ ११
अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह।गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत्॥ १२
परितुष्टोऽस्मि ते वत्स कर्मणानेन सुव्रत।वरं वृणीष्व भद्रं ते वरार्हस्त्वं हि मे मतः॥ १३
अथाब्रवीद्वैश्रवणः पितामहमुपस्थितम्।भगवँल्लोकपालत्वमिच्छेयं वित्तरक्षणम्॥ १४
ततोऽब्रवीद्वैश्रवणं परितुष्टेन चेतसा।ब्रह्मा सुरगणैः सार्धं बाढमित्येव हृष्टवत्॥ १५
अहं हि लोकपालानां चतुर्थं स्रष्टुमुद्यतः।यमेन्द्रवरुणानां हि पदं यत्तव चेप्सितम्॥ १६
तत्कृतं गच्छ धर्मज्ञ धनेशत्वमवाप्नुहि।यमेन्द्रवरुणानां हि चतुर्थोऽद्य भविष्यसि॥ १७
एतच्च पुष्पकं नाम विमानं सूर्यसंनिभम्।प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज॥ १८
स्वस्ति तेऽस्तु गमिष्यामः सर्व एव यथागतम्।कृतकृत्या वयं तात दत्त्वा तव महावरम्॥ १९
गतेषु ब्रह्मपूर्वेषु देवेष्वथ नभस्तलम्।धनेशः पितरं प्राह विनयात्प्रणतो वचः॥ २०
भगवँल्लब्धवानस्मि वरं कमलयोनितः।निवासं न तु मे देवो विदधे स प्रजापतिः॥ २१
तत्पश्य भगवन्कंचिद्देशं वासाय नः प्रभो।न च पीडा भवेद्यत्र प्राणिनो यस्य कस्यचित्॥ २२
एवमुक्तस्तु पुत्रेण विश्रवा मुनिपुंगवः।वचनं प्राह धर्मज्ञ श्रूयतामिति धर्मवित्॥ २३
लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा।राक्षसानां निवासार्थं यथेन्द्रस्यामरावती॥ २४
रमणीया पुरी सा हि रुक्मवैदूर्यतोरणा।राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः।शून्या रक्षोगणैः सर्वै रसातलतलं गतैः॥ २५
स त्वं तत्र निवासाय रोचयस्व मतिं स्वकाम्।निर्दोषस्तत्र ते वासो न च बाधास्ति कस्यचित्॥ २६
एतच्छ्रुत्वा तु धर्मात्मा धर्मिष्ठं वचनं पितुः।निवेशयामास तदा लङ्कां पर्वतमूर्धनि॥ २७
नैरृतानां सहस्रैस्तु हृष्टैः प्रमुदितैः सदा।अचिरेणैककालेन संपूर्णा तस्य शासनात्॥ २८
अथ तत्रावसत्प्रीतो धर्मात्मा नैरृताधिपः।समुद्रपरिधानायां लङ्कायां विश्रवात्मजः॥ २९
काले काले विनीतात्मा पुष्पकेण धनेश्वरः।अभ्यगच्छत्सुसंहृष्टः पितरं मातरं च सः॥ ३०
स देवगन्धर्वगणैरभिष्टुतस्तथैव सिद्धैः सह चारणैरपि।गभस्तिभिः सूर्य इवौजसा वृतःपितुः समीपं प्रययौ श्रिया वृतः॥ ३१
इति श्रीरामायणे उत्तरकाण्डे तृतीयः सर्गः ॥ ३