॥ ॐ श्री गणपतये नमः ॥

१०६ सर्गः

एतच्छ्रुत्वा शुभं वाक्यं पितामहसमीरितम्अङ्केनादाय वैदेहीमुत्पपात विभावसुः

तरुणादित्यसंकाशां तप्तकाञ्चनभूषणाम्रक्ताम्बरधरां बालां नीलकुञ्चितमूर्धजाम्

अक्लिष्टमाल्याभरणां तथा रूपां मनस्विनीम्ददौ रामाय वैदेहीमङ्के कृत्वा विभावसुः

अब्रवीच्च तदा रामं साक्षी लोकस्य पावकःएषा ते राम वैदेही पापमस्या विद्यते

नैव वाचा मनसा नानुध्यानान्न चक्षुषासुवृत्ता वृत्तशौण्डीरा त्वामतिचचार

रावणेनापनीतैषा वीर्योत्सिक्तेन रक्षसात्वया विरहिता दीना विवशा निर्जनाद्वनात्

रुद्धा चान्तःपुरे गुप्ता त्वक्चित्ता त्वत्परायणारक्षिता राक्षसी संघैर्विकृतैर्घोरदर्शनैः

प्रलोभ्यमाना विविधं भर्त्स्यमाना मैथिलीनाचिन्तयत तद्रक्षस्त्वद्गतेनान्तरात्मना

विशुद्धभावां निष्पापां प्रतिगृह्णीष्व राघव किंचिदभिधातव्यमहमाज्ञापयामि ते

एवमुक्तो महातेजा धृतिमान्दृढविक्रमःअब्रवीत्त्रिदशश्रेष्ठं रामो धर्मभृतां वरः१०

अवश्यं त्रिषु लोकेषु सीता पावनमर्हतिदीर्घकालोषिता चेयं रावणान्तःपुरे शुभा११

बालिशः खलु कामात्मा रामो दशरथात्मजःइति वक्ष्यन्ति मां सन्तो जानकीमविशोध्य हि१२

अनन्यहृदयां भक्तां मच्चित्तपरिरक्षणीम्अहमप्यवगच्छामि मैथिलीं जनकात्मजाम्१३

प्रत्ययार्थं तु लोकानां त्रयाणां सत्यसंश्रयःउपेक्षे चापि वैदेहीं प्रविशन्तीं हुताशनम्१४

इमामपि विशालाक्षीं रक्षितां स्वेन तेजसारावणो नातिवर्तेत वेलामिव महोदधिः१५

हि शक्तः दुष्टात्मा मनसापि हि मैथिलीम्प्रधर्षयितुमप्राप्तां दीप्तामग्निशिखामिव१६

नेयमर्हति चैश्वर्यं रावणान्तःपुरे शुभाअनन्या हि मया सीतां भास्करेण प्रभा यथा१७

विशुद्धा त्रिषु लोकेषु मैथिली जनकात्मजा हि हातुमियं शक्या कीर्तिरात्मवता यथा१८

अवश्यं मया कार्यं सर्वेषां वो वचो हितम्स्निग्धानां लोकमान्यानामेवं ब्रुवतां हितम्१९

इतीदमुक्त्वा वचनं महाबलैःप्रशस्यमानः स्वकृतेन कर्मणासमेत्य रामः प्रियया महाबलःसुखं सुखार्होऽनुबभूव राघवः२०

इति श्रीरामायणे युद्धकाण्डे षडधिकशततमः सर्गः१०६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved