॥ ॐ श्री गणपतये नमः ॥

१०४ सर्गः

एवमुक्ता तु वैदेही परुषं लोमहर्षणम्राघवेण सरोषेण भृशं प्रव्यथिताभवत्

सा तदश्रुतपूर्वं हि जने महति मैथिलीश्रुत्वा भर्तृवचो रूक्षं लज्जया व्रीडिताभवत्

प्रविशन्तीव गात्राणि स्वान्येव जनकात्मजावाक्शल्यैस्तैः सशल्येव भृशमश्रूण्यवर्तयत्

ततो बाष्पपरिक्लिष्टं प्रमार्जन्ती स्वमाननम्शनैर्गद्गदया वाचा भर्तारमिदमब्रवीत्

किं मामसदृशं वाक्यमीदृशं श्रोत्रदारुणम्रूक्षं श्रावयसे वीर प्राकृतः प्राकृतामिव

तथास्मि महाबाहो यथा त्वमवगच्छसिप्रत्ययं गच्छ मे स्वेन चारित्रेणैव ते शपे

पृथक्स्त्रीणां प्रचारेण जातिं त्वं परिशङ्कसेपरित्यजेमां शङ्कां तु यदि तेऽहं परीक्षिता

यद्यहं गात्रसंस्पर्शं गतास्मि विवशा प्रभोकामकारो मे तत्र दैवं तत्रापराध्यति

मदधीनं तु यत्तन्मे हृदयं त्वयि वर्ततेपराधीनेषु गात्रेषु किं करिष्याम्यनीश्वरा

सहसंवृद्धभावाच्च संसर्गेण मानदयद्यहं ते विज्ञाता हता तेनास्मि शाश्वतम्१०

प्रेषितस्ते यदा वीरो हनूमानवलोककःलङ्कास्थाहं त्वया वीर किं तदा विसर्जिता११

प्रत्यक्षं वानरेन्द्रस्य त्वद्वाक्यसमनन्तरम्त्वया संत्यक्तया वीर त्यक्तं स्याज्जीवितं मया१२

वृथा ते श्रमोऽयं स्यात्संशये न्यस्य जीवितम्सुहृज्जनपरिक्लेशो चायं निष्फलस्तव१३

त्वया तु नरशार्दूल क्रोधमेवानुवर्ततालघुनेव मनुष्येण स्त्रीत्वमेव पुरस्कृतम्१४

अपदेशेन जनकान्नोत्पत्तिर्वसुधातलात्मम वृत्तं वृत्तज्ञ बहु ते पुरस्कृतम्१५

प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितःमम भक्तिश्च शीलं सर्वं ते पृष्ठतः कृतम्१६

एवं ब्रुवाणा रुदती बाष्पगद्गदभाषिणीअब्रवील्लक्ष्मणं सीता दीनं ध्यानपरं स्थितम्१७

चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम्मिथ्यापवादोपहता नाहं जीवितुमुत्सहे१८

अप्रीतस्य गुणैर्भर्तुस्त्यक्तया जनसंसदिया क्षमा मे गतिर्गन्तुं प्रवेक्ष्ये हव्यवाहनम्१९

एवमुक्तस्तु वैदेह्या लक्ष्मणः परवीरहाअमर्षवशमापन्नो राघवाननमैक्षत२०

विज्ञाय मनश्छन्दं रामस्याकारसूचितम्चितां चकार सौमित्रिर्मते रामस्य वीर्यवान्२१

अधोमुखं ततो रामं शनैः कृत्वा प्रदक्षिणम्उपासर्पत वैदेही दीप्यमानं हुताशनम्२२

प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिलीबद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपतः२३

यथा मे हृदयं नित्यं नापसर्पति राघवात्तथा लोकस्य साक्षी मां सर्वतः पातु पावकः२४

एवमुक्त्वा तु वैदेही परिक्रम्य हुताशनम्विवेश ज्वलनं दीप्तं निःसङ्गेनान्तरात्मना२५

जनः सुमहांस्तत्र बालवृद्धसमाकुलःददर्श मैथिलीं तत्र प्रविशन्तीं हुताशनम्२६

तस्यामग्निं विशन्त्यां तु हाहेति विपुलः स्वनःरक्षसां वानराणां संबभूवाद्भुतोपमः२७

इति श्रीरामायणे युद्धकाण्डे चतुरधिकशततमः सर्गः१०४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved