॥ ॐ श्री गणपतये नमः ॥

९६ सर्गः

तौ तथा युध्यमानौ तु समरे रामरावणौददृशुः सर्वभूतानि विस्मितेनान्तरात्मना

अर्दयन्तौ तु समरे तयोस्तौ स्यन्दनोत्तमौपरस्परवधे युक्तौ घोररूपौ बभूवतुः

मण्डलानि वीथीश्च गतप्रत्यागतानि दर्शयन्तौ बहुविधां सूतौ सारथ्यजां गतिम्

अर्दयन्रावणं रामो राघवं चापि रावणःगतिवेगं समापन्नौ प्रवर्तन निवर्तने

क्षिपतोः शरजालानि तयोस्तौ स्यन्दनोत्तमौचेरतुः संयुगमहीं सासारौ जलदाविव

दर्शयित्वा तदा तौ तु गतिं बहुविधां रणेपरस्परस्याभिमुखौ पुनरेव तस्थतुः

धुरं धुरेण रथयोर्वक्त्रं वक्त्रेण वाजिनाम्पताकाश्च पताकाभिः समेयुः स्थितयोस्तदा

रावणस्य ततो रामो धनुर्मुक्तैः शितैः शरैःचतुर्भिश्चतुरो दीप्तान्हयान्प्रत्यपसर्पयत्

क्रोधवशमापन्नो हयानामपसर्पणेमुमोच निशितान्बाणान्राघवाय निशाचरः

सोऽतिविद्धो बलवता दशग्रीवेण राघवःजगाम विकारं चापि व्यथितोऽभवत्१०

चिक्षेप पुनर्बाणान्वज्रपातसमस्वनान्सारथिं वज्रहस्तस्य समुद्दिश्य निशाचरः११

मातलेस्तु महावेगाः शरीरे पतिताः शराः सूक्ष्ममपि संमोहं व्यथां वा प्रददुर्युधि१२

तया धर्षणया क्रोद्धो मातलेर्न तथात्मनःचकार शरजालेन राघवो विमुखं रिपुम्१३

विंशतिं त्रिंशतं षष्टिं शतशोऽथ सहस्रशःमुमोच राघवो वीरः सायकान्स्यन्दने रिपोः१४

गदानां मुसलानां परिघाणां निस्वनैःशराणां पुङ्खवातैश्च क्षुभिताः सप्तसागराः१५

क्षुब्धानां सागराणां पातालतलवासिनःव्यथिताः पन्नगाः सर्वे दानवाश्च सहस्रशः१६

चकम्पे मेदिनी कृत्स्ना सशैलवनकाननाभास्करो निष्प्रभश्चाभून्न ववौ चापि मारुतः१७

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयःचिन्तामापेदिरे सर्वे सकिंनरमहोरगाः१८

स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकास्तिष्ठन्तु शाश्वताःजयतां राघवः संख्ये रावणं राक्षसेश्वरम्१९

ततः क्रुद्धो महाबाहू रघूणां कीर्तिवर्धनःसंधाय धनुषा रामः क्षुरमाशीविषोपमम्रावणस्य शिरोऽच्छिन्दच्छ्रीमज्ज्वलितकुण्डलम्२०

तच्छिरः पतितं भूमौ दृष्टं लोकैस्त्रिभिस्तदातस्यैव सदृशं चान्यद्रावणस्योत्थितं शिरः२१

तत्क्षिप्रं क्षिप्रहस्तेन रामेण क्षिप्रकारिणाद्वितीयं रावणशिरश्छिन्नं संयति सायकैः२२

छिन्नमात्रं तच्छीर्षं पुनरन्यत्स्म दृश्यतेतदप्यशनिसंकाशैश्छिन्नं रामेण सायकैः२३

एवमेव शतं छिन्नं शिरसां तुल्यवर्चसाम् चैव रावणस्यान्तो दृश्यते जीवितक्षये२४

ततः सर्वास्त्रविद्वीरः कौसल्यानन्दिवर्धनःमार्गणैर्बहुभिर्युक्तश्चिन्तयामास राघवः२५

मारीचो निहतो यैस्तु खरो यैस्तु सुदूषणःक्रञ्चारण्ये विराधस्तु कबन्धो दण्डका वने२६

इमे सायकाः सर्वे युद्धे प्रत्ययिका ममकिं नु तत्कारणं येन रावणे मन्दतेजसः२७

इति चिन्तापरश्चासीदप्रमत्तश्च संयुगेववर्ष शरवर्षाणि राघवो रावणोरसि२८

रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरःगदामुसलवर्षेण रामं प्रत्यर्दयद्रणे२९

देवदानवयक्षाणां पिशाचोरगरक्षसाम्पश्यतां तन्महद्युद्धं सर्वरात्रमवर्तत३०

नैव रत्रिं दिवसं मुहूर्तं चक्षणम्रामरावणयोर्युद्धं विराममुपगच्छति३१

इति श्रीरामायणे युद्धकाण्डे षण्णवतितमः सर्गः९६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved