महोदरे तु निहते महापार्श्वो महाबलः।अङ्गदस्य चमूं भीमां क्षोभयामास सायकैः॥ १
स वानराणां मुख्यानामुत्तमाङ्गानि सर्वशः।पातयामास कायेभ्यः फलं वृन्तादिवानिलः॥ २
केषांचिदिषुभिर्बाहून्स्कन्धांश्चिछेद राक्षसः।वानराणां सुसंक्रुद्धः पार्श्वं केषां व्यदारयत्॥ ३
तेऽर्दिता बाणवर्षेण महापार्श्वेन वानराः।विषादविमुखाः सर्वे बभूवुर्गतचेतसः॥ ४
निरीक्ष्य बलमुद्विग्नमङ्गदो राक्षसार्दितम्।वेगं चक्रे महाबाहुः समुद्र इव पर्वणि॥ ५
आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम्।समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत्॥ ६
स तु तेन प्रहारेण महापार्श्वो विचेतनः।ससूतः स्यन्दनात्तस्माद्विसंज्ञः प्रापतद्भुवि॥ ७
सर्क्षराजस्तु तेजस्वी नीलाञ्जनचयोपमः।निष्पत्य सुमहावीर्यः स्वाद्यूथान्मेघसंनिभात्॥ ८
प्रगृह्य गिरिशृङ्गाभां क्रुद्धः स विपुलां शिलाम्।अश्वाञ्जघान तरसा स्यन्दनं च बभञ्ज तम्॥ ९
मुहूर्ताल्लब्धसंज्ञस्तु महापार्श्वो महाबलः।अङ्गदं बहुभिर्बाणैर्भूयस्तं प्रत्यविध्यत॥ १०
जाम्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरे।ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः॥ ११
गवाक्षं जाम्बवन्तं च स दृष्ट्वा शरपीडितौ।जग्राह परिघं घोरमङ्गदः क्रोधमूर्छितः॥ १२
तस्याङ्गदः प्रकुपितो राक्षसस्य तमायसं।दूरस्थितस्य परिघं रविरश्मिसमप्रभम्॥ १३
द्वाभ्यां भुजाभ्यां संगृह्य भ्रामयित्वा च वेगवान्।महापार्श्वाय चिक्षेप वधार्थं वालिनः सुतः॥ १४
स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः।धनुश्च सशरं हस्ताच्छिरस्त्रं चाप्यपातयत्॥ १५
तं समासाद्य वेगेन वालिपुत्रः प्रतापवान्।तलेनाभ्यहनत्क्रुद्धः कर्णमूले सकुण्डले॥ १६
स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः।करेणैकेन जग्राह सुमहान्तं परश्वधम्॥ १७
तं तैलधौतं विमलं शैलसारमयं दृढम्।राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत्॥ १८
तेन वामांसफलके भृशं प्रत्यवपातितम्।अङ्गदो मोक्षयामास सरोषः स परश्वधम्॥ १९
स वीरो वज्रसंकाशमङ्गदो मुष्टिमात्मनः।संवर्तयन्सुसंक्रुद्धः पितुस्तुल्यपराक्रमः॥ २०
राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रति।इन्द्राशनिसमस्पर्शं स मुष्टिं विन्यपातयत्॥ २१
तेन तस्य निपातेन राक्षसस्य महामृधे।पफाल हृदयं चाशु स पपात हतो भुवि॥ २२
तस्मिन्निपतिते भूमौ तत्सैन्यं संप्रचुक्षुभे।अभवच्च महान्क्रोधः समरे रावणस्य तु॥ २३
इति श्रीरामायणे युद्धकाण्डे षडशीतितमः सर्गः ॥ ८६