रुधिरक्लिन्नगात्रस्तु लक्ष्मणः शुभलक्षणः।बभूव हृष्टस्तं हत्वा शक्रजेतारमाहवे॥ १
ततः स जाम्बवन्तं च हनूमन्तं च वीर्यवान्।संनिवर्त्य महातेजास्तांश्च सर्वान्वनौकसः॥ २
आजगाम ततः शीघ्रं यत्र सुग्रीवराघवौ।विभीषणमवष्टभ्य हनूमन्तं च लक्ष्मणः॥ ३
ततो राममभिक्रम्य सौमित्रिरभिवाद्य च।तस्थौ भ्रातृसमीपस्थः शक्रस्येन्द्रानुजो यथा।आचचक्षे तदा वीरो घोरमिन्द्रजितो वधम्॥ ४
रावणस्तु शिरश्छिन्नं लक्ष्मणेन महात्मना।न्यवेदयत रामाय तदा हृष्टो विभीषणः॥ ५
उपवेश्य तमुत्सङ्गे परिष्वज्यावपीडितम्।मूर्ध्नि चैनमुपाघ्राय भूयः संस्पृश्य च त्वरन्।उवाच लक्ष्मणं वाक्यमाश्वास्य पुरुषर्षभः॥ ६
कृतं परमकल्याणं कर्म दुष्करकारिणा।निरमित्रः कृतोऽस्म्यद्य निर्यास्यति हि रावणः।बलव्यूहेन महता श्रुत्वा पुत्रं निपातितम्॥ ७
तं पुत्रवधसंतप्तं निर्यान्तं राक्षसाधिपम्।बलेनावृत्य महता निहनिष्यामि दुर्जयम्॥ ८
त्वया लक्ष्मण नाथेन सीता च पृथिवी च मे।न दुष्प्रापा हते त्वद्य शक्रजेतरि चाहवे॥ ९
स तं भ्रातरमाश्वास्य पारिष्वज्य च राघवः।रामः सुषेणं मुदितः समाभाष्येदमब्रवीत्॥ १०
सशल्योऽयं महाप्राज्ञः सौमित्रिर्मित्रवत्सलः।यथा भवति सुस्वस्थस्तथा त्वं समुपाचर।विशल्यः क्रियतां क्षिप्रं सौमित्रिः सविभीषणः॥ ११
कृष वानरसैन्यानां शूराणां द्रुमयोधिनाम्।ये चान्येऽत्र च युध्यन्तः सशल्या व्रणिनस्तथा।तेऽपि सर्वे प्रयत्नेन क्रियन्तां सुखिनस्त्वया॥ १२
एवमुक्तः स रामेण महात्मा हरियूथपः।लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधम्॥ १३
स तस्य गन्धमाघ्राय विशल्यः समपद्यत।तदा निर्वेदनश्चैव संरूढव्रण एव च॥ १४
विभीषण मुखानां च सुहृदां राघवाज्ञया।सर्ववानरमुख्यानां चिकित्सां स तदाकरोत्॥ १५
ततः प्रकृतिमापन्नो हृतशल्यो गतव्यथः।सौमित्रिर्मुदितस्तत्र क्षणेन विगतज्वरः॥ १६
तथैव रामः प्लवगाधिपस्तदाविभीषणश्चर्क्षपतिश्च जाम्बवान्।अवेक्ष्य सौमित्रिमरोगमुत्थितंमुदा ससैन्यः सुचिरं जहर्षिरे॥ १७
अपूजयत्कर्म स लक्ष्मणस्यसुदुष्करं दाशरथिर्महात्मा।हृष्टा बभूवुर्युधि यूथपेन्द्रानिशम्य तं शक्रजितं निपातितम्॥ १८
इति श्रीरामायणे युद्धकाण्डे एकोनाशीतितमः सर्गः ॥ ७९