स हताश्वो महातेजा भूमौ तिष्ठन्निशाचरः।इन्द्रजित्परमक्रुद्धः संप्रजज्वाल तेजसा॥ १
तौ धन्विनौ जिघांसन्तावन्योन्यमिषुभिर्भृशम्।विजयेनाभिनिष्क्रान्तौ वने गजवृषाविव॥ २
निबर्हयन्तश्चान्योन्यं ते राक्षसवनौकसः।भर्तारं न जहुर्युद्धे संपतन्तस्ततस्ततः॥ ३
स लक्ष्मणं समुद्दिश्य परं लाघवमास्थितः।ववर्ष शरवर्षाणि वर्षाणीव पुरंदरः॥ ४
मुक्तमिन्द्रजिता तत्तु शरवर्षमरिंदमः।अवारयदसंभ्रान्तो लक्ष्मणः सुदुरासदम्॥ ५
अभेद्यकचनं मत्वा लक्ष्मणं रावणात्मजः।ललाटे लक्ष्मणं बाणैः सुपुङ्खैस्त्रिभिरिन्द्रजित्।अविध्यत्परमक्रुद्धः शीघ्रमस्त्रं प्रदर्शयन्॥ ६
तैः पृषत्कैर्ललाटस्थैः शुशुभे रघुनन्दनः।रणाग्रे समरश्लाघी त्रिशृङ्ग इव पर्वतः॥ ७
स तथाप्यर्दितो बाणै राक्षसेन महामृधे।तमाशु प्रतिविव्याध लक्ष्मणः पनभिः शरैः॥ ८
लक्ष्मणेन्द्रजितौ वीरौ महाबलशरासनौ।अन्योन्यं जघ्नतुर्बाणैर्विशिखैर्भीमविक्रमौ॥ ९
तौ परस्परमभ्येत्य सर्वगात्रेषु धन्विनौ।घोरैर्विव्यधतुर्बाणैः कृतभावावुभौ जये॥ १०
तस्मै दृढतरं क्रुद्धो हताश्वाय विभीषणः।वज्रस्पर्शसमान्पञ्च ससर्जोरसि मार्गणान्॥ ११
ते तस्य कायं निर्भिद्य रुक्मपुङ्खा निमित्तगाः।बभूवुर्लोहितादिग्धा रक्ता इव महोरगाः॥ १२
स पितृव्यस्य संक्रुद्ध इन्द्रजिच्छरमाददे।उत्तमं रक्षसां मध्ये यमदत्तं महाबलः॥ १३
तं समीक्ष्य महातेजा महेषुं तेन संहितम्।लक्ष्मणोऽप्याददे बाणमन्यं भीमपराक्रमः॥ १४
कुबेरेण स्वयं स्वप्ने यद्दत्तममितात्मना।दुर्जयं दुर्विषह्यं च सेन्द्रैरपि सुरासुरैः॥ १५
ताभ्यां तौ धनुषि श्रेष्ठे संहितौ सायकोत्तमौ।विकृष्यमाणौ वीराभ्यां भृशं जज्वलतुः श्रिया॥ १६
तौ भासयन्तावाकाशं धनुर्भ्यां विशिखौ च्युतौ।मुखेन मुखमाहत्य संनिपेततुरोजसा॥ १७
तौ महाग्रहसंकाशावन्योन्यं संनिपत्य च।संग्रामे शतधा यातौ मेदिन्यां विनिपेततुः॥ १८
शरौ प्रतिहतौ दृष्ट्वा तावुभौ रणमूर्धनि।व्रीडितो जातरोषौ च लक्ष्मणेन्द्रजितावुभौ॥ १९
सुसंरब्धस्तु सौमित्रिरस्त्रं वारुणमाददे।रौद्रं महेद्रजिद्युद्धे व्यसृजद्युधि विष्ठितः॥ २०
तयोः सुतुमुलं युद्धं संबभूवाद्भुतोपमम्।गगनस्थानि भूतानि लक्ष्मणं पर्यवारयन्॥ २१
भैरवाभिरुते भीमे युद्धे वानरराक्षसाम्।भूतैर्बहुभिराकाशं विस्मितैरावृतं बभौ॥ २२
ऋषयः पितरो देवा गन्धर्वा गरुणोरगाः।शतक्रतुं पुरस्कृत्य ररक्षुर्लक्ष्मणं रणे॥ २३
अथान्यं मार्गणश्रेष्ठं संदधे रावणानुजः।हुताशनसमस्पर्शं रावणात्मजदारुणम्॥ २४
सुपत्रमनुवृत्ताङ्गं सुपर्वाणं सुसंस्थितम्।सुवर्णविकृतं वीरः शरीरान्तकरं शरम्॥ २५
दुरावारं दुर्विषहं राक्षसानां भयावहम्।आशीविषविषप्रख्यं देवसंघैः समर्चितम्॥ २६
येन शक्रो महातेजा दानवानजयत्प्रभुः।पुरा देवासुरे युद्धे वीर्यवान्हरिवाहनः॥ २७
तदैन्द्रमस्त्रं सौमित्रिः संयुगेष्वपराजितम्।शरश्रेष्ठं धनुः श्रेष्ठे नरश्रेष्ठोऽभिसंदधे॥ २८
संधायामित्रदलनं विचकर्ष शरासनम्।सज्यमायम्य दुर्धर्शः कालो लोकक्षये यथा॥ २९
संधाय धनुषि श्रेष्ठे विकर्षन्निदमब्रवीत्।लक्ष्मीवाँल्लक्ष्मणो वाक्यमर्थसाधकमात्मनः॥ ३०
धर्मात्मा सत्यसंधश्च रामो दाशरथिर्यदि।पौरुषे चाप्रतिद्वन्द्वस्तदेनं जहि रावणिम्॥ ३१
इत्युक्त्वा बाणमाकर्णं विकृष्य तमजिह्मगम्।लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति।ऐन्द्रास्त्रेण समायुज्य लक्ष्मणः परवीरहा॥ ३२
तच्छिरः सशिरस्त्राणं श्रीमज्ज्वलितकुण्डलम्।प्रमथ्येन्द्रजितः कायात्पपात धरणीतले॥ ३३
तद्राक्षसतनूजस्य छिन्नस्कन्धं शिरो महत्।तपनीयनिभं भूमौ ददृशे रुधिरोक्षितम्॥ ३४
हतस्तु निपपाताशु धरण्यां रावणात्मजः।कवची सशिरस्त्राणो विध्वस्तः सशरासनः॥ ३५
चुक्रुशुस्ते ततः सर्वे वानराः सविभीषणाः।हृष्यन्तो निहते तस्मिन्देवा वृत्रवधे यथा॥ ३६
अथान्तरिक्षे भूतानामृषीणां च महात्मनाम्।अभिजज्ञे च संनादो गन्धर्वाप्सरसामपि॥ ३७
पतितं समभिज्ञाय राक्षसी सा महाचमूः।वध्यमाना दिशो भेजे हरिभिर्जितकाशिभिः॥ ३८
वनरैर्वध्यमानास्ते शस्त्राण्युत्सृज्य राक्षसाः।लङ्कामभिमुखाः सर्वे नष्टसंज्ञाः प्रधाविताः॥ ३९
दुद्रुवुर्बहुधा भीता राक्षसाः शतशो दिशः।त्यक्त्वा प्रहरणान्सर्वे पट्टसासिपरश्वधान्॥ ४०
केचिल्लङ्कां परित्रस्ताः प्रविष्टा वानरार्दिताः।समुद्रे पतिताः केचित्केचित्पर्वतमाश्रिताः॥ ४१
हतमिन्द्रजितं दृष्ट्वा शयानं समरक्षितौ।राक्षसानां सहस्रेषु न कश्चित्प्रत्यदृश्यत॥ ४२
यथास्तं गत आदित्ये नावतिष्ठन्ति रश्मयः।तथा तस्मिन्निपतिते राक्षसास्ते गता दिशः॥ ४३
शान्तरक्श्मिरिवादित्यो निर्वाण इव पावकः।स बभूव महातेजा व्यपास्त गतजीवितः॥ ४४
प्रशान्तपीडा बहुलो विनष्टारिः प्रहर्षवान्।बभूव लोकः पतिते राक्षसेन्द्रसुते तदा॥ ४५
हर्षं च शक्रो भगवान्सह सर्वैः सुरर्षभैः।जगाम निहते तस्मिन्राक्षसे पापकर्मणि॥ ४६
शुद्धा आपो नभश्चैव जहृषुर्दैत्यदानवाः।आजग्मुः पतिते तस्मिन्सर्वलोकभयावहे॥ ४७
ऊचुश्च सहिताः सर्वे देवगन्धर्वदानवाः।विज्वराः शान्तकलुषा ब्राह्मणा विचरन्त्विति॥ ४८
ततोऽभ्यनन्दन्संहृष्टाः समरे हरियूथपाः।तमप्रतिबलं दृष्ट्वा हतं नैरृतपुंगवम्॥ ४९
विभीषणो हनूमांश्च जाम्बवांश्चर्क्षयूथपः।विजयेनाभिनन्दन्तस्तुष्टुवुश्चापि लक्ष्मणम्॥ ५०
क्ष्वेडन्तश्च नदन्तश्च गर्जन्तश्च प्लवंगमाः।लब्धलक्षा रघुसुतं परिवार्योपतस्थिरे॥ ५१
लाङ्गूलानि प्रविध्यन्तः स्फोटयन्तश्च वानराः।लक्ष्मणो जयतीत्येवं वाक्यं व्यश्रावयंस्तदा॥ ५२
अन्योन्यं च समाश्लिष्य कपयो हृष्टमानसाः।चक्रुरुच्चावचगुणा राघवाश्रयजाः कथाः॥ ५३
तदसुकरमथाभिवीक्ष्य हृष्टाःप्रियसुहृदो युधि लक्ष्मणस्य कर्म।परममुपलभन्मनःप्रहर्षंविनिहतमिन्द्ररिपुं निशम्य देवाः॥ ५४
इति श्रीरामायणे युद्धकाण्डे अष्टासप्ततितमः सर्गः ॥ ७८