ततः शरं दाशरथिः संधायामित्रकर्शनः।ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन्॥ १
तस्य ज्यातलनिर्घोषं स श्रुत्वा रावणात्मजः।विवर्णवदनो भूत्वा लक्ष्मणं समुदैक्षत॥ २
तं विषण्णमुखं दृष्ट्वा राक्षसं रावणात्मजम्।सौमित्रिं युद्धसंसक्तं प्रत्युवाच विभीषणः॥ ३
निमित्तान्यनुपश्यामि यान्यस्मिन्रावणात्मजे।त्वर तेन महाबाहो भग्न एष न संशयः॥ ४
ततः संधाय सौमित्रिः शरानग्निशिखोपमान्।मुमोच निशितांस्तस्मै सर्वानिव विषोल्बणान्॥ ५
शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतः शरैः।मुहूर्तमभवन्मूढः सर्वसंक्षुभितेन्द्रियः॥ ६
उपलभ्य मुहूर्तेन संज्ञां प्रत्यागतेन्द्रियः।ददर्शावस्थितं वीरं वीरो दशरथात्मजम्॥ ७
सोऽभिचक्राम सौमित्रिं रोषात्संरक्तलोचनः।अब्रवीच्चैनमासाद्य पुनः स परुषं वचः॥ ८
किं न स्मरसि तद्युद्धे प्रथमे मत्पराक्रमम्।निबद्धस्त्वं सह भ्रात्रा यदा युधि विचेष्टसे॥ ९
युवा खलु महायुद्धे शक्राशनिसमैः शरैः।शायिनौ प्रथमं भूमौ विसंज्ञौ सपुरःसरौ॥ १०
स्मृतिर्वा नास्ति ते मन्ये व्यक्तं वा यमसादनम्।गन्तुमिच्छसि यस्मात्त्वं मां धर्षयितुमिच्छसि॥ ११
यदि ते प्रथमे युद्धे न दृष्टो मत्पराक्रमः।अद्य त्वां दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः॥ १२
इत्युक्त्वा सप्तभिर्बाणैरभिविव्याध लक्ष्मणम्।दशभिश्च हनूमन्तं तीक्ष्णधारैः शरोत्तमैः॥ १३
ततः शरशतेनैव सुप्रयुक्तेन वीर्यवान्।क्रोधाद्द्विगुणसंरब्धो निर्बिभेद विभीषणम्॥ १४
तद्दृष्ट्वेन्द्रजितः कर्म कृतं रामानुजस्तदा।अचिन्तयित्वा प्रहसन्नैतत्किंचिदिति ब्रुवन्॥ १५
मुमोच स शरान्घोरान्संगृह्य नरपुंगवः।अभीतवदनः क्रुद्धो रावणिं लक्ष्मणो युधि॥ १६
नैवं रणगतः शूराः प्रहरन्ति निशाचर।लघवश्चाल्पवीर्याश्च सुखा हीमे शरास्तव॥ १७
नैवं शूरास्तु युध्यन्ते समरे जयकाङ्क्षिणः।इत्येवं तं ब्रुवाणस्तु शरवर्षैरवाकिरत्॥ १८
तस्य बाणैस्तु विध्वस्तं कवचं हेमभूषितम्।व्यशीर्यत रथोपस्थे ताराजालमिवाम्बरात्॥ १९
विधूतवर्मा नाराचैर्बभूव स कृतव्रणः।इन्द्रजित्समरे शूरः प्ररूढ इव सानुमान्॥ २०
अभीक्ष्णं निश्वसन्तौ हि युध्येतां तुमुलं युधि।शरसंकृत्तसर्वाङ्गो सर्वतो रुधिरोक्षितौ॥ २१
अस्त्राण्यस्त्रविदां श्रेष्ठौ दर्शयन्तौ पुनः पुनः।शरानुच्चावचाकारानन्तरिक्षे बबन्धतुः॥ २२
व्यपेतदोषमस्यन्तौ लघुचित्रं च सुष्ठु च।उभौ तु तुमुलं घोरं चक्रतुर्नरराक्षसौ॥ २३
तयोः पृथक्पृथग्भीमः शुश्रुवे तलनिस्वनः।सुघोरयोर्निष्टनतोर्गगने मेघयोरिव॥ २४
ते गात्रयोर्निपतिता रुक्मपुङ्खाः शरा युधि।असृग्दिग्धा विनिष्पेतुर्विविशुर्धरणीतलम्॥ २५
अन्यैः सुनिशितैः शस्त्रैराकाशे संजघट्टिरे।बभञ्जुश्चिच्छिदुश्चापि तयोर्बाणाः सहस्रशः॥ २६
स बभूव रणे घोरस्तयोर्बाणमयश्चयः।अग्निभ्यामिव दीप्ताभ्यां सत्रे कुशमयश्चयः॥ २७
तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोः।सपुष्पाविव निष्पत्रौ वने शाल्मलिकुंशुकौ॥ २८
चक्रतुस्तुमुलं घोरं संनिपातं मुहुर्मुहुः।इन्द्रजिल्लक्ष्मणश्चैव परस्परजयैषिणौ॥ २९
लक्ष्मणो रावणिं युद्धे रावणिश्चापि लक्ष्मणम्।अन्योन्यं तावभिघ्नन्तौ न श्रमं प्रत्यपद्यताम्॥ ३०
बाणजालैः शरीरस्थैरवगाढैस्तरस्विनौ।शुशुभाते महावीरौ विरूढाविव पर्वतौ॥ ३१
तयो रुधिरसिक्तानि संवृतानि शरैर्भृशम्।बभ्राजुः सर्वगात्राणि ज्वलन्त इव पावकाः॥ ३२
तयोरथ महान्कालो व्यतीयाद्युध्यमानयोः।न च तौ युद्धवैमुख्यं श्रमं वाप्युपजग्मतुः॥ ३३
अथ समरपरिश्रमं निहन्तुंसमरमुखेष्वजितस्य लक्ष्मणस्य।प्रियहितमुपपादयन्महौजाःसमरमुपेत्य विभीषणोऽवतस्थे॥ ३४
इति श्रीरामायणे युद्धकाण्डे षट्सप्ततितमः सर्गः ॥ ७६