॥ ॐ श्री गणपतये नमः ॥

७० सर्गः

राघवश्चापि विपुलं तं राक्षसवनौकसाम्श्रुत्वा संग्रामनिर्घोषं जाम्बवन्तमुवाच

सौम्य नूनं हनुमता कृतं कर्म सुदुष्करम्श्रूयते हि यथा भीमः सुमहानायुधस्वनः

तद्गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतःक्षिप्रमृष्कपते तस्य कपिश्रेष्ठस्य युध्यतः

ऋक्षराजस्तथेत्युक्त्वा स्वेनानीकेन संवृतःआगच्छत्पश्चिमद्वारं हनूमान्यत्र वानरः

अथायान्तं हनूमन्तं ददर्शर्क्षपतिः पथिवानरैः कृतसंग्रामैः श्वसद्भिरभिसंवृतम्

दृष्ट्वा पथि हनूमांश्च तदृष्कबलमुद्यतम्नीलमेघनिभं भीमं संनिवार्य न्यवर्तत

तेन हरिसैन्येन संनिकर्षं महायशाःशीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत्

समरे युध्यमानानामस्माकं प्रेक्षतां सःजघान रुदतीं सीतामिन्द्रजिद्रावणात्मजः

उद्भ्रान्तचित्तस्तां दृष्ट्वा विषण्णोऽहमरिंदमतदहं भवतो वृत्तं विज्ञापयितुमागतः

तस्य तद्वचनं श्रुत्वा राघवः शोकमूर्छितःनिपपात तदा भूमौ छिन्नमूल इव द्रुमः१०

तं भूमौ देवसंकाशं पतितं दृश्य राघवम्अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः११

असिञ्चन्सलिलैश्चैनं पद्मोत्पलसुगन्धिभिःप्रदहन्तमसह्यं सहसाग्निमिवोत्थितम्१२

तं लक्ष्मणोऽथ बाहुभ्यां परिष्वज्य सुदुःखितःउवाच राममस्वस्थं वाक्यं हेत्वर्थसंहितम्१३

शुभे वर्त्मनि तिष्ठन्तं त्वामार्यविजितेन्द्रियम्अनर्थेभ्यो शक्नोति त्रातुं धर्मो निरर्थकः१४

भूतानां स्थावराणां जङ्गमानां दर्शनम्यथास्ति तथा धर्मस्तेन नास्तीति मे मतिः१५

यथैव स्थावरं व्यक्तं जङ्गमं तथाविधम्नायमर्थस्तथा युक्तस्त्वद्विधो विपद्यते१६

यद्यधर्मो भवेद्भूतो रावणो नरकं व्रजेत्भवांश्च धर्मसंयुक्तो नैवं व्यसनमाप्नुयात्१७

तस्य व्यसनाभावाद्व्यसनं गते त्वयिधर्मेणोपलभेद्धर्ममधर्मं चाप्यधर्मतः१८

यदि धर्मेण युज्येरन्नाधर्मरुचयो जनाःधर्मेण चरतां धर्मस्तथा चैषां फलं भवेत्१९

यस्मादर्था विवर्धन्ते येष्वधर्मः प्रतिष्ठितःक्लिश्यन्ते धर्मशीलाश्च तस्मादेतौ निरर्थकौ२०

वध्यन्ते पापकर्माणो यद्यधर्मेण राघववधकर्महतो धर्मः हतः कं वधिष्यति२१

अथ वा विहितेनायं हन्यते हन्ति वा परम्विधिरालिप्यते तेन पापेन कर्मणा२२

अदृष्टप्रतिकारेण अव्यक्तेनासता सताकथं शक्यं परं प्राप्तुं धर्मेणारिविकर्शन२३

यदि सत्स्यात्सतां मुख्य नासत्स्यात्तव किंचनत्वया यदीदृशं प्राप्तं तस्मात्सन्नोपपद्यते२४

अथ वा दुर्बलः क्लीबो बलं धर्मोऽनुवर्ततेदुर्बलो हृतमर्यादो सेव्य इति मे मतिः२५

बलस्य यदि चेद्धर्मो गुणभूतः पराक्रमेधर्ममुत्सृज्य वर्तस्व यथा धर्मे तथा बले२६

अथ चेत्सत्यवचनं धर्मः किल परंतपअनृतस्त्वय्यकरुणः किं बद्धस्त्वया पिता२७

यदि धर्मो भवेद्भूत अधर्मो वा परंतप स्म हत्वा मुनिं वज्री कुर्यादिज्यां शतक्रतुः२८

अधर्मसंश्रितो धर्मो विनाशयति राघवसर्वमेतद्यथाकामं काकुत्स्थ कुरुते नरः२९

मम चेदं मतं तात धर्मोऽयमिति राघवधर्ममूलं त्वया छिन्नं राज्यमुत्सृजता तदा३०

अर्थेभ्यो हि विवृद्धेभ्यः संवृद्धेभ्यस्ततस्ततःक्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः३१

अर्थेन हि वियुक्तस्य पुरुषस्याल्पतेजसःव्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा३२

सोऽयमर्थं परित्यज्य सुखकामः सुखैधितःपापमारभते कर्तुं तथा दोषः प्रवर्तते३३

यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवःयस्यार्थाः पुमाँल्लोके यस्यार्थाः पण्डितः३४

यस्यार्थाः विक्रान्तो यस्यार्थाः बुद्धिमान्यस्यार्थाः महाभागो यस्यार्थाः महागुणः३५

अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मयाराज्यमुत्सृजता वीर येन बुद्धिस्त्वया कृता३६

यस्यार्था धर्मकामार्थास्तस्य सर्वं प्रदक्षिणम्अधनेनार्थकामेन नार्थः शक्यो विचिन्वता३७

हर्षः कामश्च दर्पश्च धर्मः क्रोधः शमो दमःअर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप३८

येषां नश्यत्ययं लोकश्चरतां धर्मचारिणाम्तेऽर्थास्त्वयि दृश्यन्ते दुर्दिनेषु यथा ग्रहाः३९

त्वयि प्रव्रजिते वीर गुरोश्च वचने स्थितेरक्षसापहृता भार्या प्राणैः प्रियतरा तव४०

तदद्य विपुलं वीर दुःखमिन्द्रजिता कृतम्कर्मणा व्यपनेष्यामि तस्मादुत्तिष्ठ राघव४१

अयमनघ तवोदितः प्रियार्थंजनकसुता निधनं निरीक्ष्य रुष्टःसहयगजरथां सराक्षसेन्द्रांभृशमिषुभिर्विनिपातयामि लङ्काम्४२

इति श्रीरामायणे युद्धकाण्डे सप्ततितमः सर्गः७०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved