॥ ॐ श्री गणपतये नमः ॥

६६ सर्गः

निर्गतं मकराक्षं ते दृष्ट्वा वानरपुंगवाःआप्लुत्य सहसा सर्वे योद्धुकामा व्यवस्थिताः

ततः प्रवृत्तं सुमहत्तद्युद्धं लोमहर्षणम्निशाचरैः प्लवंगानां देवानां दानवैरिव

वृक्षशूलनिपातैश्च शिलापरिघपातनैःअन्योन्यं मर्दयन्ति स्म तदा कपिनिशाचराः

शक्तिशूलगदाखड्गैस्तोमरैश्च निशाचराःपट्टसैर्भिन्दिपालैश्च बाणपातैः समन्ततः

पाशमुद्गरदण्डैश्च निर्घातैश्चापरैस्तथाकदनं कपिसिंहानां चक्रुस्ते रजनीचराः

बाणौघैरर्दिताश्चापि खरपुत्रेण वानराःसंभ्रान्तमनसः सर्वे दुद्रुवुर्भयपीडिताः

तान्दृष्ट्वा राक्षसाः सर्वे द्रवमाणान्वनौकसःनेदुस्ते सिंहवद्धृष्टा राक्षसा जितकाशिनः

विद्रवत्सु तदा तेषु वानरेषु समन्ततःरामस्तान्वारयामास शरवर्षेण राक्षसान्

वारितान्राक्षसान्दृष्ट्वा मकराक्षो निशाचरःक्रोधानलसमाविष्टो वचनं चेदमब्रवीत्

तिष्ठ राम मया सार्धं द्वन्द्वयुद्धं ददामि तेत्याजयिष्यामि ते प्राणान्धनुर्मुक्तैः शितैः शरैः१०

यत्तदा दण्डकारण्ये पितरं हतवान्मममदग्रतः स्वकर्मस्थं स्मृत्वा रोषोऽभिवर्धते११

दह्यन्ते भृशमङ्गानि दुरात्मन्मम राघवयन्मयासि दृष्टस्त्वं तस्मिन्काले महावने१२

दिष्ट्यासि दर्शनं राम मम त्वं प्राप्तवानिहकाङ्क्षितोऽसि क्षुधार्तस्य सिंहस्येवेतरो मृगः१३

अद्य मद्बाणवेगेन प्रेतराड्विषयं गतःये त्वया निहताः शूराः सह तैस्त्वं समेष्यसि१४

बहुनात्र किमुक्तेन शृणु राम वचो ममपश्यन्तु सकला लोकास्त्वां मां चैव रणाजिरे१५

अस्त्रैर्वा गदया वापि बाहुभ्यां वा महाहवेअभ्यस्तं येन वा राम तेन वा वर्ततां युधि१६

मकराक्षवचः श्रुत्वा रामो दशरथात्मजःअब्रवीत्प्रहसन्वाक्यमुत्तरोत्तरवादिनम्१७

चतुर्दशसहस्राणि रक्षसां त्वत्पिता यःत्रिशिरा दूषणश्चापि दण्डके निहता मया१८

स्वाशितास्तव मांसेन गृध्रगोमायुवायसाःभविष्यन्त्यद्य वै पाप तीक्ष्णतुण्डनखाङ्कुशाः१९

एवमुक्तस्तु रामेण खरपुत्रो निशाचरःबाणौघानसृजत्तस्मै राघवाय रणाजिरे२०

ताञ्शराञ्शरवर्षेण रामश्चिच्छेद नैकधानिपेतुर्भुवि ते छिन्ना रुक्मपुङ्खाः सहस्रशः२१

तद्युद्धमभवत्तत्र समेत्यान्योन्यमोजसाखर राक्षसपुत्रस्य सूनोर्दशरथस्य २२

जीमूतयोरिवाकाशे शब्दो ज्यातलयोस्तदाधनुर्मुक्तः स्वनोत्कृष्टः श्रूयते रणाजिरे२३

देवदानवगन्धर्वाः किंनराश्च महोरगाःअन्तरिक्षगताः सर्वे द्रष्टुकामास्तदद्भुतम्२४

विद्धमन्योन्यगात्रेषु द्विगुणं वर्धते बलम्कृतप्रतिकृतान्योन्यं कुर्वाते तौ रणाजिरे२५

राममुक्तास्तु बाणौघान्राक्षसस्त्वच्छिनद्रणेरक्षोमुक्तांस्तु रामो वै नैकधा प्राच्छिनच्छरैः२६

बाणौघवितताः सर्वा दिशश्च विदिशस्तथासंछन्ना वसुधा चैव समन्तान्न प्रकाशते२७

ततः क्रुद्धो महाबाहुर्धनुश्चिच्छेद रक्षसःअष्टाभिरथ नाराचैः सूतं विव्याध राघवःभित्त्वा शरै रथं रामो रथाश्वान्समपातयत्२८

विरथो वसुधां तिष्ठन्मकराक्षो निशाचरःअतिष्ठद्वसुधां रक्षः शूलं जग्राह पाणिनात्रासनं सर्वभूतानां युगान्ताग्निसमप्रभम्२९

विभ्राम्य महच्छूलं प्रज्वलन्तं निशाचरः क्रोधात्प्राहिणोत्तस्मै राघवाय महाहवे३०

तमापतन्तं ज्वलितं खरपुत्रकराच्च्युतम्बाणैस्तु त्रिभिराकाशे शूलं चिच्छेद राघवः३१

सच्छिन्नो नैकधा शूलो दिव्यहाटकमण्डितःव्यशीर्यत महोक्लेव रामबाणार्दितो भुवि३२

तच्छूलं निहतं दृष्ट्वा रामेणाद्भुतकर्मणासाधु साध्विति भूतानि व्याहरन्ति नभोगताः३३

तद्दृष्ट्वा निहतं शूलं मकराक्षो निशाचरःमुष्टिमुद्यम्य काकुत्स्थं तिष्ठ तिष्ठेति चाब्रवीत्३४

तं दृष्ट्वा पतन्तं वै प्रहस्य रघुनन्दनःपावकास्त्रं ततो रामः संदधे स्वशरासने३५

तेनास्त्रेण हतं रक्षः काकुत्स्थेन तदा रणेसंछिन्नहृदयं तत्र पपात ममार ३६

दृष्ट्वा ते राक्षसाः सर्वे मकराक्षस्य पातनम्लङ्कामेव प्रधावन्त रामबालार्दितास्तदा३७

दशरथनृपपुत्रबाणवेगैरजनिचरं निहतं खरात्मजं तम्ददृशुरथ देवताः प्रहृष्टागिरिमिव वज्रहतं यथा विशीर्णम्३८

इति श्रीरामायणे युद्धकाण्डे षट्षष्टितमः सर्गः६६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved