निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम्।प्रदहन्निव कोपेन वानरेन्द्रमवैक्षत॥ १
ततः स्रग्दामसंनद्धं दत्तपञ्चाङ्गुलं शुभम्।आददे परिघं वीरो नगेन्द्रशिखरोपमम्॥ २
हेमपट्टपरिक्षिप्तं वज्रविद्रुमभूषितम्।यमदण्डोपमं भीमं रक्षसां भयनाशनम्॥ ३
तमाविध्य महातेजाः शक्रध्वजसमं रणे।विननाद विवृत्तास्यो निकुम्भो भीमविक्रमः॥ ४
उरोगतेन निष्केण भुजस्थैरङ्गदैरपि।कुण्डलाभ्यां च मृष्टाभ्यां मालया च विचित्रया॥ ५
निकुम्भो भूषणैर्भाति तेन स्म परिघेण च।यथेन्द्रधनुषा मेघः सविद्युत्स्तनयित्नुमान्॥ ६
परिघाग्रेण पुस्फोट वातग्रन्थिर्महात्मनः।प्रजज्वाल सघोषश्च विधूम इव पावकः॥ ७
नगर्या विटपावत्या गन्धर्वभवनोत्तमैः।सह चैवामरावत्या सर्वैश्च भवनैः सह॥ ८
सतारागणनक्षत्रं सचन्द्रं समहाग्रहम्।निकुम्भपरिघाघूर्णं भ्रमतीव नभस्तलम्॥ ९
दुरासदश्च संजज्ञे परिघाभरणप्रभः।क्रोधेन्धनो निकुम्भाग्निर्युगान्ताग्निरिवोत्थितः॥ १०
राक्षसा वानराश्चापि न शेकुः स्पन्दितुं भयात्।हनूमंस्तु विवृत्योरस्तस्थौ प्रमुखतो बली॥ ११
परिघोपमबाहुस्तु परिघं भास्करप्रभम्।बली बलवतस्तस्य पातयामास वक्षसि॥ १२
स्थिरे तस्योरसि व्यूढे परिघः शतधा कृतः।विशीर्यमाणः सहसा उल्का शतमिवाम्बरे॥ १३
स तु तेन प्रहारेण चचाल च महाकपिः।परिघेण समाधूतो यथा भूमिचलेऽचलः॥ १४
स तथाभिहतस्तेन हनूमान्प्लवगोत्तमः।मुष्टिं संवर्तयामास बलेनातिमहाबलः॥ १५
तमुद्यम्य महातेजा निकुम्भोरसि वीर्यवान्।अभिचिक्षेप वेगेन वेगवान्वायुविक्रमः॥ १६
ततः पुस्फोट चर्मास्य प्रसुस्राव च शोणितम्।मुष्टिना तेन संजज्ञे ज्वाला विद्युदिवोत्थिता॥ १७
स तु तेन प्रहारेण निकुम्भो विचचाल ह।स्वस्थश्चापि निजग्राह हनूमन्तं महाबलम्॥ १८
विचुक्रुशुस्तदा संख्ये भीमं लङ्कानिवासिनः।निकुम्भेनोद्धृतं दृष्ट्वा हनूमन्तं महाबलम्॥ १९
स तथा ह्रियमाणोऽपि कुम्भकर्णात्मजेन हि।आजघानानिलसुतो वज्रवेगेन मुष्टिना॥ २०
आत्मानं मोचयित्वाथ क्षितावभ्यवपद्यत।हनूमानुन्ममथाशु निकुम्भं मारुतात्मजः॥ २१
निक्षिप्य परमायत्तो निकुम्भं निष्पिपेष च।उत्पत्य चास्य वेगेन पपातोरसि वीर्यवान्॥ २२
परिगृह्य च बाहुभ्यां परिवृत्य शिरोधराम्।उत्पाटयामास शिरो भैरवं नदतो महत्॥ २३
अथ विनदति सादिते निकुम्भेपवनसुतेन रणे बभूव युद्धम्।दशरथसुतराक्षसेन्द्रचम्वोर्भृशतरमागतरोषयोः सुभीमम्॥ २४
इति श्रीरामायणे युद्धकाण्डे चतुष्षष्टितमः सर्गः ॥ ६४