॥ ॐ श्री गणपतये नमः ॥

६३ सर्गः

प्रवृत्ते संकुले तस्मिन्घोरे वीरजनक्षयेअङ्गदः कम्पनं वीरमाससाद रणोत्सुकः

आहूय सोऽङ्गदं कोपात्ताडयामास वेगितःगदया कम्पनः पूर्वं चचाल भृशाहतः

संज्ञां प्राप्य तेजस्वी चिक्षेप शिखरं गिरेःअर्दितश्च प्रहारेण कम्पनः पतितो भुवि

हतप्रवीरा व्यथिता राक्षसेन्द्रचमूस्तदाजगामाभिमुखी सा तु कुम्भकर्णसुतो यतःआपतन्तीं वेगेन कुम्भस्तां सान्त्वयच्चमूम्

धनुर्धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितःमुमोचाशीविषप्रख्याञ्शरान्देहविदारणान्

तस्य तच्छुशुभे भूयः सशरं धनुरुत्तमम्विद्युदैरावतार्चिष्मद्द्वितीयेन्द्रधनुर्यथा

आकर्णकृष्टमुक्तेन जघान द्विविदं तदातेन हाटकपुङ्खेन पत्रिणा पत्रवाससा

सहसाभिहतस्तेन विप्रमुक्तपदः स्फुरन्निपपाताद्रिकूटाभो विह्वलः प्लवगोत्तमः

मैन्दस्तु भ्रातरं दृष्ट्वा भग्नं तत्र महाहवेअभिदुद्राव वेगेन प्रगृह्य महतीं शिलाम्

तां शिलां तु प्रचिक्षेप राक्षसाय महाबलःबिभेद तां शिलां कुम्भः प्रसन्नैः पञ्चभिः शरैः१०

संधाय चान्यं सुमुखं शरमाशीविषोपमम्आजघान महातेजा वक्षसि द्विविदाग्रजम्११

तु तेन प्रहारेण मैन्दो वानरयूथपःमर्मण्यभिहतस्तेन पपात भुवि मूर्छितः१२

अङ्गदो मातुलौ दृष्ट्वा पतितौ तौ महाबलौअभिदुद्राव वेगेन कुम्भमुद्यतकार्मुकम्१३

तमापतन्तं विव्याध कुम्भः पञ्चभिरायसैःत्रिभिश्चान्यैः शितैर्बाणैर्मातंगमिव तोमरैः१४

सोऽङ्गदं विविधैर्बाणैः कुम्भो विव्याध वीर्यवान्अकुण्ठधारैर्निशितैस्तीक्ष्णैः कनकभूषणैः१५

अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रो कम्पतेशिलापादपवर्षाणि तस्य मूर्ध्नि ववर्ष १६

प्रचिच्छेद तान्सर्वान्बिभेद पुनः शिलाःकुम्भकर्णात्मजः श्रीमान्वालिपुत्रसमीरितान्१७

आपतन्तं संप्रेक्ष्य कुम्भो वानरयूथपम्भ्रुवोर्विव्याध बाणाभ्यामुल्काभ्यामिव कुञ्जरम्१८

अङ्गदः पाणिना नेत्रे पिधाय रुधिरोक्षितेसालमासन्नमेकेन परिजग्राह पाणिना१९

तमिन्द्रकेतुप्रतिमं वृक्षं मन्दरसंनिभम्समुत्सृजन्तं वेगेन पश्यतां सर्वरक्षसाम्२०

चिच्छेद शितैर्बाणैः सप्तभिः कायभेदनैःअङ्गदो विव्यथेऽभीक्ष्णं ससाद मुमोह २१

अङ्गदं व्यथितं दृष्ट्वा सीदन्तमिव सागरेदुरासदं हरिश्रेष्ठा राघवाय न्यवेदयन्२२

रामस्तु व्यथितं श्रुत्वा वालिपुत्रं महाहवेव्यादिदेश हरिश्रेष्ठाञ्जाम्बवत्प्रमुखांस्ततः२३

ते तु वानरशार्दूलाः श्रुत्वा रामस्य शासनम्अभिपेतुः सुसंक्रुद्धाः कुम्भमुद्यतकार्मुकम्२४

ततो द्रुमशिलाहस्ताः कोपसंरक्तलोचनाःरिरक्षिषन्तोऽभ्यपतन्नङ्गदं वानरर्षभाः२५

जाम्बवांश्च सुषेणश्च वेगदर्शी वानरःकुम्भकर्णात्मजं वीरं क्रुद्धाः समभिदुद्रुवुः२६

समीक्ष्यातततस्तांस्तु वानरेन्द्रान्महाबलान्आववार शरौघेण नगेनेव जलाशयम्२७

तस्य बाणचयं प्राप्य शोकेरतिवर्तितुम्वानरेन्द्रा महात्मानो वेलामिव महोदधिः२८

तांस्तु दृष्ट्वा हरिगणाञ्शरवृष्टिभिरर्दितान्अङ्गदं पृष्ठतः कृत्वा भ्रातृजं प्लवगेश्वरः२९

अभिदुद्राव वेगेन सुग्रीवः कुम्भमाहवेशैलसानु चरं नागं वेगवानिव केसरी३०

उत्पाट्य महाशैलानश्वकर्णान्धवान्बहून्अन्यांश्च विविधान्वृक्षांश्चिक्षेप महाबलः३१

तां छादयन्तीमाकाशं वृक्षवृष्टिं दुरासदाम्कुम्भकर्णात्मजः श्रीमांश्चिच्छेद निशितैः शरैः३२

अभिलक्ष्येण तीव्रेण कुम्भेन निशितैः शरैःआचितास्ते द्रुमा रेजुर्यथा घोराः शतघ्नयः३३

द्रुमवर्षं तु तच्छिन्नं दृष्ट्वा कुम्भेन वीर्यवान्वानराधिपतिः श्रीमान्महासत्त्वो विव्यथे३४

निर्भिद्यमानः सहसा सहमानश्च ताञ्शरान्कुम्भस्य धनुराक्षिप्य बभञ्जेन्द्रधनुःप्रभम्३५

अवप्लुत्य ततः शीघ्रं कृत्वा कर्म सुदुष्करम्अब्रवीत्कुपितः कुम्भं भग्नशृङ्गमिव द्विपम्३६

निकुम्भाग्रज वीर्यं ते बाणवेगं तदद्भुतम्संनतिश्च प्रभावश्च तव वा रावणस्य वा३७

प्रह्रादबलिवृत्रघ्नकुबेरवरुणोपमएकस्त्वमनुजातोऽसि पितरं बलवत्तरः३८

त्वामेवैकं महाबाहुं शूलहस्तमरिंदमम्त्रिदशा नातिवर्तन्ते जितेन्द्रियमिवाधयः३९

वरदानात्पितृव्यस्ते सहते देवदानवान्कुम्भकर्णस्तु वीर्येण सहते सुरासुरान्४०

धनुषीन्द्रजितस्तुल्यः प्रतापे रावणस्य त्वमद्य रक्षसां लोके श्रेष्ठोऽसि बलवीर्यतः४१

महाविमर्दं समरे मया सह तवाद्भुतम्अद्य भूतानि पश्यन्तु शक्रशम्बरयोरिव४२

कृतमप्रतिमं कर्म दर्शितं चास्त्रकौशलम्पातिता हरिवीराश्च त्वयैते भीमविक्रमाः४३

उपालम्भभयाच्चापि नासि वीर मया हतःकृतकर्मा परिश्रान्तो विश्रान्तः पश्य मे बलम्४४

तेन सुग्रीववाक्येन सावमानेन मानितःअग्नेराज्यहुतस्येव तेजस्तस्याभ्यवर्धत४५

ततः कुम्भः समुत्पत्य सुग्रीवमभिपद्य आजघानोरसि क्रुद्धो वज्रवेगेन मुष्टिना४६

तस्य चर्म पुस्फोट संजज्ञे चास्य शोणितम् मुष्टिर्महावेगः प्रतिजघ्नेऽस्थिमण्डले४७

तदा वेगेन तत्रासीत्तेजः प्रज्वालितं मुहुःवज्रनिष्पेषसंजातज्वाला मेरौ यथा गिरौ४८

तत्राभिहतस्तेन सुग्रीवो वानरर्षभःमुष्टिं संवर्तयामास वज्रकल्पं महाबलः४९

अर्चिःसहस्रविकचं रविमण्डलसप्रभम् मुष्टिं पातयामास कुम्भस्योरसि वीर्यवान्५०

मुष्टिनाभिहतस्तेन निपपाताशु राक्षसःलोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया५१

कुम्भस्य पततो रूपं भग्नस्योरसि मुष्टिनाबभौ रुद्राभिपन्नस्य यथारूपं गवां पतेः५२

तस्मिन्हते भीमपराक्रमेणप्लवंगमानामृषभेण युद्धेमही सशैला सवना चचालभयं रक्षांस्यधिकं विवेश५३

इति श्रीरामायणे युद्धकाण्डे त्रिषष्टितमः सर्गः६३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved