॥ ॐ श्री गणपतये नमः ॥

५२ सर्गः

तदुक्तमतिकायस्य बलिनो बाहुशालिनःकुम्भकर्णस्य वचनं श्रुत्वोवाच महोदरः

कुम्भकर्णकुले जातो धृष्टः प्राकृतदर्शनःअवलिप्तो शक्नोषि कृत्यं सर्वत्र वेदितुम्

हि राजा जानीते कुम्भकर्ण नयानयौत्वं तु कैशोरकाद्धृष्टः केवलं वक्तुमिच्छसि

स्थानं वृद्धिं हानिं देशकालविभागवित्आत्मनश्च परेषां बुध्यते राक्षसर्षभ

यत्तु शक्यं बलवता कर्तुं प्राकृतबुद्धिनाअनुपासितवृद्धेन कः कुर्यात्तादृशं बुधः

यांस्तु धर्मार्थकामांस्त्वं ब्रवीषि पृथगाश्रयान्अनुबोद्धुं स्वभावेन हि लक्षणमस्ति ते

कर्म चैव हि सर्वेषां कारणानां प्रयोजनम्श्रेयः पापीयसां चात्र फलं भवति कर्मणाम्

निःश्रेयस फलावेव धर्मार्थावितरावपिअधर्मानर्थयोः प्राप्तिः फलं प्रत्यवायिकम्

ऐहलौकिकपारत्र्यं कर्म पुम्भिर्निषेव्यतेकर्माण्यपि तु कल्प्यानि लभते काममास्थितः

तत्र कॢप्तमिदं राज्ञा हृदि कार्यं मतं नःशत्रौ हि साहसं यत्स्यात्किमिवात्रापनीयते१०

एकस्यैवाभियाने तु हेतुर्यः प्रकृतस्त्वयातत्राप्यनुपपन्नं ते वक्ष्यामि यदसाधु ११

येन पूर्वं जनस्थाने बहवोऽतिबला हताःराक्षसा राघवं तं त्वं कथमेको जयिष्यसि१२

ये पुरा निर्जितास्तेन जनस्थाने महौजसःराक्षसांस्तान्पुरे सर्वान्भीतानद्यापि पश्यसि१३

तं सिंहमिव संक्रुद्धं रामं दशरथात्मजम्सर्पं सुप्तमिवाबुद्ध्या प्रबोधयितुमिच्छसि१४

ज्वलन्तं तेजसा नित्यं क्रोधेन दुरासदम्कस्तं मृत्युमिवासह्यमासादयितुमर्हति१५

संशयस्थमिदं सर्वं शत्रोः प्रतिसमासनेएकस्य गमनं तत्र हि मे रोचते तव१६

हीनार्थस्तु समृद्धार्थं को रिपुं प्राकृतो यथानिश्चितं जीवितत्यागे वशमानेतुमिच्छति१७

यस्य नास्ति मनुष्येषु सदृशो राक्षसोत्तमकथमाशंससे योद्धुं तुल्येनेन्द्रविवस्वतोः१८

एवमुक्त्वा तु संरब्धं कुम्भकर्णं महोदरःउवाच रक्षसां मध्ये रावणो लोकरावणम्१९

लब्ध्वा पुनस्तां वैदेहीं किमर्थं त्वं प्रजल्पसियदेच्छसि तदा सीता वशगा ते भविष्यति२०

दृष्टः कश्चिदुपायो मे सीतोपस्थानकारकःरुचितश्चेत्स्वया बुद्ध्या राक्षसेश्वर तं शृणु२१

अहं द्विजिह्वः संह्रादी कुम्भकर्णो वितर्दनःपञ्चरामवधायैते निर्यान्तीत्यवघोषय२२

ततो गत्वा वयं युद्धं दास्यामस्तस्य यत्नतःजेष्यामो यदि ते शत्रून्नोपायैः कृत्यमस्ति नः२३

अथ जीवति नः शत्रुर्वयं कृतसंयुगाःततः समभिपत्स्यामो मनसा यत्समीक्षितुम्२४

वयं युद्धादिहैष्यामो रुधिरेण समुक्षिताःविदार्य स्वतनुं बाणै रामनामाङ्कितैः शितैः२५

भक्षितो राघवोऽस्माभिर्लक्ष्मणश्चेति वादिनःतव पादौ ग्रहीष्यामस्त्वं नः काम प्रपूरय२६

ततोऽवघोषय पुरे गजस्कन्धेन पार्थिवहतो रामः सह भ्रात्रा ससैन्य इति सर्वतः२७

प्रीतो नाम ततो भूत्वा भृत्यानां त्वमरिंदमभोगांश्च परिवारांश्च कामांश्च वसुदापय२८

ततो माल्यानि वासांसि वीराणामनुलेपनम्पेयं बहु योधेभ्यः स्वयं मुदितः पिब२९

ततोऽस्मिन्बहुलीभूते कौलीने सर्वतो गतेप्रविश्याश्वास्य चापि त्वं सीतां रहसि सान्त्वयधनधान्यैश्च कामैश्च रत्नैश्चैनां प्रलोभय३०

अनयोपधया राजन्भयशोकानुबन्धयाअकामा त्वद्वशं सीता नष्टनाथा गमिष्यति३१

रञ्जनीयं हि भर्तारं विनष्टमवगम्य सानैराश्यात्स्त्रीलघुत्वाच्च त्वद्वशं प्रतिपत्स्यते३२

सा पुरा सुखसंवृद्धा सुखार्हा दुःखकर्षितात्वय्यधीनः सुखं ज्ञात्वा सर्वथोपगमिष्यति३३

एतत्सुनीतं मम दर्शनेनरामं हि दृष्ट्वैव भवेदनर्थःइहैव ते सेत्स्यति मोत्सुको भूर्महानयुद्धेन सुखस्य लाभः३४

अनष्टसैन्यो ह्यनवाप्तसंशयोरिपूनयुद्धेन जयञ्जनाधिपयशश्च पुण्यं महन्महीपतेश्रियं कीर्तिं चिरं समश्नुते३५

इति श्रीरामायणे युद्धकाण्डे द्विपञ्चाशः सर्गः५२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved