॥ ॐ श्री गणपतये नमः ॥

४२ सर्गः

धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमनिस्वनम्विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः

तेषां तु तुमुलं युद्धं संजज्ञे हरिरक्षसाम्अन्योन्यं पादपैर्घोरैर्निघ्नतं शूलमुद्गरैः

राक्षसैर्वानरा घोरा विनिकृत्ताः समन्ततःवानरै राक्षसाश्चापि द्रुमैर्भूमौ समीकृताः

राक्षसाश्चापि संक्रुद्धा वानरान्निशितैः शरैःविव्यधुर्घोरसंकाशैः कङ्कपत्रैरजिह्मगैः

ते गदाभिश्च भीमाभिः पट्टसैः कूटमुद्गरैःघोरैश्च परिघैश्चित्रैस्त्रिशूलैश्चापि संशितैः

विदार्यमाणा रक्षोभिर्वानरास्ते महाबलाःअमर्षाज्जनितोद्धर्षाश्चक्रुः कर्माण्यभीतवत्

शरनिर्भिन्नगात्रास्ते शूलनिर्भिन्नदेहिनःजगृहुस्ते द्रुमांस्तत्र शिलाश्च हरियूथपाः

ते भीमवेगा हरयो नर्दमानास्ततस्ततःममन्थू राक्षसान्भीमान्नामानि बभाषिरे

तद्बभूवाद्भुतं घोरं युद्धं वानररक्षसाम्शिलाभिर्विविधाभिश्च बहुशाखैश्च पादपैः

राक्षसा मथिताः केचिद्वानरैर्जितकाशिभिःववर्षू रुधिरं केचिन्मुखै रुधिरभोजनाः१०

पार्श्वेषु दारिताः केचित्केचिद्राशीकृता द्रुमैःशिलाभिश्चूर्णिताः केचित्केचिद्दन्तैर्विदारिताः११

ध्वजैर्विमथितैर्भग्नैः खरैश्च विनिपातितैःरथैर्विध्वंसितैश्चापि पतितै रजनीचरैः१२

वानरैर्भीमविक्रान्तैराप्लुत्याप्लुत्य वेगितैःराक्षसाः करजैस्तीक्ष्णैर्मुखेषु विनिकर्तिताः१३

विवर्णवदना भूयो विप्रकीर्णशिरोरुहाःमूढाः शोणितगन्धेन निपेतुर्धरणीतले१४

नये तु परमक्रुद्धा राक्षसा भीमविक्रमाःतलैरेवाभिधावन्ति वज्रस्पर्शसमैर्हरीन्१५

वनरैरापतन्तस्ते वेगिता वेगवत्तरैःमुष्टिभिश्चरणैर्दन्तैः पादपैश्चापपोथिताः१६

सन्यं तु विद्रुतं दृष्ट्वा धूम्राक्षो राक्षसर्षभःक्रोधेन कदनं चक्रे वानराणां युयुत्सताम्१७

प्रासैः प्रमथिताः केचिद्वानराः शोणितस्रवाःमुद्गरैराहताः केचित्पतिता धरणीतले१८

परिघैर्मथितः केचिद्भिण्डिपालैर्विदारिताःपट्टसैराहताः केचिद्विह्वलन्तो गतासवः१९

केचिद्विनिहता भूमौ रुधिरार्द्रा वनौकसःकेचिद्विद्राविता नष्टाः संक्रुद्धै राक्षसैर्युधि२०

विभिन्नहृदयाः केचिदेकपार्श्वेन शायिताःविदारितास्त्रशूलै केचिदान्त्रैर्विनिस्रुताः२१

तत्सुभीमं महद्युद्धं हरिराकस संकुलम्प्रबभौ शस्त्रबहुलं शिलापादपसंकुलम्२२

धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम्मन्द्रस्तनितसंगीतं युद्धगान्धर्वमाबभौ२३

धूम्राक्षस्तु धनुष्पाणिर्वानरान्रणमूर्धनिहसन्विद्रावयामास दिशस्ताञ्शरवृष्टिभिः२४

धूम्राक्षेणार्दितं सैन्यं व्यथितं दृश्य मारुतिःअभ्यवर्तत संक्रुद्धः प्रगृह्य विपुलां शिलाम्२५

क्रोधाद्द्विगुणताम्राक्षः पितृतुल्यपराक्रमःशिलां तां पातयामास धूम्राक्षस्य रथं प्रति२६

आपतन्तीं शिलां दृष्ट्वा गदामुद्यम्य संभ्रमात्रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत२७

सा प्रमथ्य रथं तस्य निपपात शिलाभुविसचक्रकूबरं साश्वं सध्वजं सशरासनम्२८

भङ्क्त्वा तु रथं तस्य हनूमान्मारुतात्मजःरक्षसां कदनं चक्रे सस्कन्धविटपैर्द्रुमैः२९

विभिन्नशिरसो भूत्वा राक्षसाः शोणितोक्षिताःद्रुमैः प्रमथिताश्चान्ये निपेतुर्धरणीतले३०

विद्राव्य राक्षसं सैन्यं हनूमान्मारुतात्मजःगिरेः शिखरमादाय धूम्राक्षमभिदुद्रुवे३१

तमापतन्तं धूम्राक्षो गदामुद्यम्य वीर्यवान्विनर्दमानः सहसा हनूमन्तमभिद्रवत्३२

ततः क्रुद्धस्तु वेगेन गदां तां बहुकण्टकाम्पातयामास धूम्राक्षो मस्तके तु हनूमतः३३

ताडितः तया तत्र गदया भीमरूपया कपिर्मारुतबलस्तं प्रहारमचिन्तयन्धूम्राक्षस्य शिरो मध्ये गिरिशृङ्गमपातयत्३४

विह्वलितसर्वाङ्गो गिरिशृङ्गेण ताडितःपपात सहसा भूमौ विकीर्ण इव पर्वतः३५

धूम्राक्षं निहतं दृष्ट्वा हतशेषा निशाचराःत्रस्ताः प्रविविशुर्लङ्कां वध्यमानाः प्लवंगमैः३६

तु पवनसुतो निहत्य शत्रुंक्षतजवहाः सरितश्च संविकीर्यरिपुवधजनितश्रमो महात्मामुदमगमत्कपिभिश्च पूज्यमानः३७

इति श्रीरामायणे युद्धकाण्डे द्विचत्वारिंशः सर्गः४२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved