॥ ॐ श्री गणपतये नमः ॥

३३ सर्गः

युध्यतां तु ततस्तेषां वानराणां महात्मनाम्रक्षसां संबभूवाथ बलकोपः सुदारुणः

ते हयैः काञ्चनापीडैर्ध्वजैश्चाग्निशिखोपमैःरथैश्चादित्यसंकाशैः कवचैश्च मनोरमैः

निर्ययू राक्षसव्याघ्रा नादयन्तो दिशो दशराक्षसा भीमकर्माणो रावणस्य जयैषिणः

वानराणामपि चमूर्महती जयमिच्चताम्अभ्यधावत तां सेनां रक्षसां कामरूपिणाम्

एतस्मिन्नन्तरे तेषामन्योन्यमभिधावताम्रक्षसां वानराणां द्वन्द्वयुद्धमवर्तत

अङ्गदेनेन्द्रजित्सार्धं वालिपुत्रेण राक्षसःअयुध्यत महातेजास्त्र्यम्बकेण यथान्धकः

प्रजङ्घेन संपातिर्नित्यं दुर्मर्षणो रणेजम्बूमालिनमारब्धो हनूमानपि वानरः

संगतः सुमहाक्रोधो राक्षसो रावणानुजःसमरे तीक्ष्णवेगेन मित्रघ्नेन विभीषणः

तपनेन गजः सार्धं राक्षसेन महाबलःनिकुम्भेन महातेजा नीलोऽपि समयुध्यत

वानरेन्द्रस्तु सुग्रीवः प्रघसेन समागतःसंगतः समरे श्रीमान्विरूपाक्षेण लक्ष्मणः१०

अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसःसुप्तघ्नो यज्ञकोपश्च रामेण सह संगताः११

वज्रमुष्टिस्तु मैन्देन द्विविदेनाशनिप्रभःराक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ१२

वीरः प्रतपनो घोरो राक्षसो रणदुर्धरःसमरे तीक्ष्णवेगेन नलेन समयुध्यत१३

धर्मस्य पुत्रो बलवान्सुषेण इति विश्रुतः विद्युन्मालिना सार्धमयुध्यत महाकपिः१४

वानराश्चापरे भीमा राक्षसैरपरैः सहद्वन्द्वं समीयुर्बहुधा युद्धाय बहुभिः सह१५

तत्रासीत्सुमहद्युद्धं तुमुलं लोमहर्षणम्रक्षसां वानराणां वीराणां जयमिच्छताम्१६

हरिराक्षसदेहेभ्यः प्रसृताः केशशाड्वलाःशरीरसंघाटवहाः प्रसुस्रुः शोणितापगाः१७

आजघानेन्द्रजित्क्रुद्धो वज्रेणेव शतक्रतुःअङ्गदं गदया वीरं शत्रुसैन्यविदारणम्१८

तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम्जघान समरे श्रीमानङ्गदो वेगवान्कपिः१९

संपातिस्तु त्रिभिर्बाणैः प्रजङ्घेन समाहतःनिजघानाश्वकर्णेन प्रजङ्घं रणमूर्धनि२०

जम्बूमाली रथस्थस्तु रथशक्त्या महाबलःबिभेद समरे क्रुद्धो हनूमन्तं स्तनान्तरे२१

तस्य तं रथमास्थाय हनूमान्मारुतात्मजःप्रममाथ तलेनाशु सह तेनैव रक्षसा२२

भिन्नगात्रः शरैस्तीक्ष्णैः क्षिप्रहस्तेन रक्षसाप्रजघानाद्रिशृङ्गेण तपनं मुष्टिना गजः२३

ग्रसन्तमिव सैन्यानि प्रघसं वानराधिपःसुग्रीवः सप्तपर्णेन निर्बिभेद जघान २४

प्रपीड्य शरवर्षेण राक्षसं भीमदर्शनम्निजघान विरूपाक्षं शरेणैकेन लक्ष्मणः२५

अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसःसुप्तिघ्नो यज्ञकोपश्च रामं निर्बिभिदुः शरैः२६

तेषां चतुर्णां रामस्तु शिरांसि समरे शरैःक्रुद्धश्चतुर्भिश्चिच्छेद घोरैरग्निशिखोपमैः२७

वज्रमुष्टिस्तु मैन्देन मुष्टिना निहतो रणेपपात सरथः साश्वः पुराट्ट इव भूतले२८

वज्राशनिसमस्पर्शो द्विविदोऽप्यशनिप्रभम्जघान गिरिशृङ्गेण मिषतां सर्वरक्षसाम्२९

द्विविदं वानरेन्द्रं तु द्रुमयोधिनमाहवेशरैरशनिसंकाशैः विव्याधाशनिप्रभः३०

शरैरतिविद्धाङ्गो द्विविदः क्रोधमूर्छितःसालेन सरथं साश्वं निजघानाशनिप्रभम्३१

निकुम्भस्तु रणे नीलं नीलाञ्जनचयप्रभम्निर्बिभेद शरैस्तीक्ष्णैः करैर्मेघमिवांशुमान्३२

पुनः शरशतेनाथ क्षिप्रहस्तो निशाचरःबिभेद समरे नीलं निकुम्भः प्रजहास ३३

तस्यैव रथचक्रेण नीलो विष्णुरिवाहवेशिरश्चिच्छेद समरे निकुम्भस्य सारथेः३४

विद्युन्माली रथस्थस्तु शरैः काञ्चनभूषणैःसुषेणं ताडयामास ननाद मुहुर्मुहुः३५

तं रथस्थमथो दृष्ट्वा सुषेणो वानरोत्तमःगिरिशृङ्गेण महता रथमाशु न्यपातयत्३६

लाघवेन तु संयुक्तो विद्युन्माली निशाचरःअपक्रम्य रथात्तूर्णं गदापाणिः क्षितौ स्थितः३७

ततः क्रोधसमाविष्टः सुषेणो हरिपुंगवःशिलां सुमहतीं गृह्य निशाचरमभिद्रवत्३८

तमापतन्तं गदया विद्युन्माली निशाचरःवक्षस्यभिजग्नानाशु सुषेणं हरिसत्तमम्३९

गदाप्रहारं तं घोरमचिन्त्यप्लवगोत्तमःतां शिलां पातयामास तस्योरसि महामृधे४०

शिलाप्रहाराभिहतो विद्युन्माली निशाचरःनिष्पिष्टहृदयो भूमौ गतासुर्निपपात ४१

एवं तैर्वानरैः शूरैः शूरास्ते रजनीचराःद्वन्द्वे विमृदितास्तत्र दैत्या इव दिवौकसैः४२

भल्लैः खड्गैर्गदाभिश्च शक्तितोमर पट्टसैःअपविद्धश्च भिन्नश्च रथैः सांग्रामिकैर्हयैः४३

निहतैः कुञ्जरैर्मत्तैस्तथा वानरराक्षसैःचक्राक्षयुगदण्डैश्च भग्नैर्धरणिसंश्रितैःबभूवायोधनं घोरं गोमायुगणसेवितम्४४

कबन्धानि समुत्पेतुर्दिक्षु वानररक्षसाम्विमर्दे तुमुले तस्मिन्देवासुररणोपमे४५

विदार्यमाणा हरिपुंगवैस्तदानिशाचराः शोणितदिग्धगात्राःपुनः सुयुद्धं तरसा समाश्रितादिवाकरस्यास्तमयाभिकाङ्क्षिणः४६

इति श्रीरामायणे युद्धकाण्डे त्रयस्त्रिंशः सर्गः३३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved