॥ ॐ श्री गणपतये नमः ॥

३२ सर्गः

ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम्न्यवेदयन्पुरीं रुद्धां रामेण सह वानरैः

रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरःविधानं द्विगुणं श्रुत्वा प्रासादं सोऽध्यरोहत

ददर्शावृतां लङ्कां सशैलवनकाननाम्असंख्येयैर्हरिगणैः सर्वतो युद्धकाङ्क्षिभिः

दृष्ट्वा वानरैः सर्वां वसुधां कवलीकृताम्कथं क्षपयितव्याः स्युरिति चिन्तापरोऽभवत्

चिन्तयित्वा सुचिरं धैर्यमालम्ब्य रावणःराघवं हरियूथांश्च ददर्शायतलोचनः

प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशःराघवप्रियकामार्थं लङ्कामारुरुहुस्तदा

ते ताम्रवक्त्रा हेमाभा रामार्थे त्यक्तजीविताःलङ्कामेवाह्यवर्तन्त सालतालशिलायुधाः

ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवंगमाःप्रासादाग्राणि चोच्चानि ममन्तुस्तोरणानि

पारिखाः पूरयन्ति स्म प्रसन्नसलिलायुताःपांसुभिः पर्वताग्रैश्च तृणैः काष्ठैश्च वानराः

ततः सहस्रयूथाश्च कोटियूथाश्च यूथपाःकोटीशतयुताश्चान्ये लङ्कामारुरुहुस्तदा१०

काञ्चनानि प्रमृद्नन्तस्तोरणानि प्लवंगमाःकैलासशिखराभानि गोपुराणि प्रमथ्य ११

आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाःलङ्कां तामभ्यवर्तन्त महावारणसंनिभाः१२

जयत्यतिबलो रामो लक्ष्मणश्च महाबलःराजा जयति सुग्रीवो राघवेणाभिपालितः१३

इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवंगमाःअभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः१४

वीरबाहुः सुबाहुश्च नलश्च वनगोचरःनिपीड्योपनिविष्टास्ते प्राकारं हरियूथपाः१५

एतस्मिन्नन्तरे चक्रुः स्कन्धावारनिवेशनम्१६

पूर्वद्वारं तु कुमुदः कोटिभिर्दशभिर्वृतःआवृत्य बलवांस्तस्थौ हरिभिर्जितकाशिभिः१७

दक्षिणद्वारमागम्य वीरः शतबलिः कपिःआवृत्य बलवांस्तस्थौ विंशत्या कोटिभिर्वृतः१८

सुषेणः पश्चिमद्वारं गतस्तारा पिता हरिःआवृत्य बलवांस्तस्थौ षष्टि कोटिभिरावृतः१९

उत्तरद्वारमासाद्य रामः सौमित्रिणा सहआवृत्य बलवांस्तस्थौ सुग्रीवश्च हरीश्वरः२०

गोलाङ्गूलो महाकायो गवाक्षो भीमदर्शनःवृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्वतः२१

ऋष्काणां भीमवेगानां धूम्रः शत्रुनिबर्हणःवृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः२२

संनद्धस्तु महावीर्यो गदापाणिर्विभीषणःवृतो यस्तैस्तु सचिवैस्तस्थौ तत्र महाबलः२३

गजो गवाक्षो गवयः शरभो गन्धमादनःसमन्तात्परिघावन्तो ररक्षुर्हरिवाहिनीम्२४

ततः कोपपरीतात्मा रावणो राक्षसेश्वरःनिर्याणं सर्वसैन्यानां द्रुतमाज्ञापयत्तदा२५

निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताःसमये पूर्यमाणस्य वेगा इव महोदधेः२६

एतस्मिन्नन्तरे घोरः संग्रामः समपद्यतरक्षसां वानराणां यथा देवासुरे पुरा२७

ते गदाभिः प्रदीप्ताभिः शक्तिशूलपरश्वधैःनिजघ्नुर्वानरान्घोराः कथयन्तः स्वविक्रमान्२८

तथा वृक्षैर्महाकायाः पर्वताग्रैश्च वानराःराक्षसास्तानि रक्षांसि नखैर्दन्तैश्च वेगिताः२९

राक्षसास्त्वपरे भीमाः प्राकारस्था महीगतान्भिण्डिपालैश्च खड्गैश्च शूलैश्चैव व्यदारयन्३०

वानराश्चापि संक्रुद्धाः प्राकारस्थान्महीगताःराक्षसान्पातयामासुः समाप्लुत्य प्लवंगमाः३१

संप्रहारस्तुमुलो मांसशोणितकर्दमःरक्षसां वानराणां संबभूवाद्भुतोपमाः३२

इति श्रीरामायणे युद्धकाण्डे द्वात्रिंशत्तमः सर्गः३२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved