॥ ॐ श्री गणपतये नमः ॥

२५ सर्गः

अथ तां जातसंतापां तेन वाक्येन मोहिताम्सरमा ह्लादयामास पृतिवीं द्यौरिवाम्भसा

ततस्तस्या हितं सख्याश्चिकीर्षन्ती सखी वचःउवाच काले कालज्ञा स्मितपूर्वाभिभाषिणी

उत्सहेयमहं गत्वा त्वद्वाक्यमसितेक्षणेनिवेद्य कुशलं रामे प्रतिच्छन्ना निवर्तितुम्

हि मे क्रममाणाया निरालम्बे विहायसिसमर्थो गतिमन्वेतुं पवनो गरुडोऽपि वा

एवं ब्रुवाणां तां सीता सरमां पुनरब्रवीत्मधुरं श्लक्ष्णया वाचा पूर्वशोकाभिपन्नया

समर्था गगनं गन्तुमपि वा त्वं रसातलम्अवगच्छाम्यकर्तव्यं कर्तव्यं ते मदन्तरे

मत्प्रियं यदि कर्तव्यं यदि बुद्धिः स्थिरा तवज्ञातुमिच्छामि तं गत्वा किं करोतीति रावणः

हि मायाबलः क्रूरो रावणः शत्रुरावणःमां मोहयति दुष्टात्मा पीतमात्रेव वारुणी

तर्जापयति मां नित्यं भर्त्सापयति चासकृत्राक्षसीभिः सुघोराभिर्या मां रक्षन्ति नित्यशः

उद्विग्ना शङ्किता चास्मि स्वस्थं मनो ममतद्भयाच्चाहमुद्विग्ना अशोकवनिकां गताः१०

यदि नाम कथा तस्य निश्चितं वापि यद्भवेत्निवेदयेथाः सर्वं तत्परो मे स्यादनुग्रहः११

सा त्वेवं ब्रुवतीं सीतां सरमा वल्गुभाषिणीउवाच वचनं तस्याः स्पृशन्ती बाष्पविक्लवम्१२

एष ते यद्यभिप्रायस्तस्माद्गच्छामि जानकिगृह्य शत्रोरभिप्रायमुपावृत्तां पश्य माम्१३

एवमुक्त्वा ततो गत्वा समीपं तस्य रक्षसःशुश्राव कथितं तस्य रावणस्य समन्त्रिणः१४

सा श्रुत्वा निश्चयं तस्य निश्चयज्ञा दुरात्मनःपुनरेवागमत्क्षिप्रमशोकवनिकां तदा१५

सा प्रविष्टा पुनस्तत्र ददर्श जनकात्मजाम्प्रतीक्षमाणां स्वामेव भ्रष्टपद्मामिव श्रियम्१६

तां तु सीता पुनः प्राप्तां सरमां वल्गुभाषिणीम्परिष्वज्य सुस्निग्धं ददौ स्वयमासनम्१७

इहासीना सुखं सर्वमाख्याहि मम तत्त्वतःक्रूरस्य निश्चयं तस्य रावणस्य दुरात्मनः१८

एवमुक्ता तु सरमा सीतया वेपमानयाकथितं सर्वमाचष्ट रावणस्य समन्त्रिणः१९

जनन्या राक्षसेन्द्रो वै त्वन्मोक्षार्थं बृहद्वचःअविद्धेन वैदेहि मन्त्रिवृद्धेन बोधितः२०

दीयतामभिसत्कृत्य मनुजेन्द्राय मैथिलीनिदर्शनं ते पर्याप्तं जनस्थाने यदद्भुतम्२१

लङ्घनं समुद्रस्य दर्शनं हनूमतःवधं रक्षसां युद्धे कः कुर्यान्मानुषो भुवि२२

एवं मन्त्रिवृद्धैश्च मात्रा बहु भाषितः त्वामुत्सहते मोक्तुमर्तह्मर्थपरो यथा२३

नोत्सहत्यमृतो मोक्तुं युद्धे त्वामिति मैथिलिसामात्यस्य नृशंसस्य निश्चयो ह्येष वर्तते२४

तदेषा सुस्थिरा बुद्धिर्मृत्युलोभादुपस्थिताभयान्न शक्तस्त्वां मोक्तुमनिरस्तस्तु संयुगेराक्षसानां सर्वेषामात्मनश्च वधेन हि२५

निहत्य रावणं संख्ये सर्वथा निशितैः शरैःप्रतिनेष्यति रामस्त्वामयोध्यामसितेक्षणे२६

एतस्मिन्नन्तरे शब्दो भेरीशङ्खसमाकुलःश्रुतो वै सर्वसैन्यानां कम्पयन्धरणीतलम्२७

श्रुत्वा तु तं वानरसैन्यशब्दंलङ्कागता राक्षसराजभृत्याःनष्टौजसो दैन्यपरीतचेष्टाःश्रेयो पश्यन्ति नृपस्य दोषैः२८

इति श्रीरामायणे युद्धकाण्डे पञ्चविंशतितमः सर्गः२५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved