॥ ॐ श्री गणपतये नमः ॥

२३ सर्गः

सा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम्सुग्रीवप्रतिसंसर्गमाख्यातं हनूमता

नयने मुखवर्णं भर्तुस्तत्सदृशं मुखम्केशान्केशान्तदेशं तं चूडामणिं शुभम्

एतैः सर्वैरभिज्ञानैरभिज्ञाय सुदुःखिताविजगर्हेऽथ कैकेयीं क्रोशन्ती कुररी यथा

सकामा भव कैकेयि हतोऽयं कुलनन्दनःकुलमुत्सादितं सर्वं त्वया कलहशीलया

आर्येण किं नु कैकेय्याः कृतं रामेण विप्रियम्यद्गृहाच्चीरवसनस्तया प्रस्थापितो वनम्

एवमुक्त्वा तु वैदेही वेपमाना तपस्विनीजगाम जगतीं बाला छिन्ना तु कदली यथा

सा मुहूर्तात्समाश्वस्य प्रतिलभ्य चेतनाम्तच्छिरः समुपाघ्राय विललापायतेक्षणा

हा हतास्मि महाबाहो वीरव्रतमनुव्रताइमां ते पश्चिमावस्थां गतास्मि विधवा कृता

प्रथमं मरणं नार्या भर्तुर्वैगुण्यमुच्यतेसुवृत्तः साधुवृत्तायाः संवृत्तस्त्वं ममाग्रतः

दुःखाद्दुःखं प्रपन्नाया मग्नायाः शोकसागरेयो हि मामुद्यतस्त्रातुं सोऽपि त्वं विनिपातितः१०

सा श्वश्रूर्मम कौसल्या त्वया पुत्रेण राघववत्सेनेव यथा धेनुर्विवत्सा वत्सला कृता११

आदिष्टं दीर्घमायुस्ते यैरचिन्त्यपराक्रमअनृतं वचनं तेषामल्पायुरसि राघव१२

अथ वा नश्यति प्रज्ञा प्राज्ञस्यापि सतस्तवपचत्येनं तथा कालो भूतानां प्रभवो ह्ययम्१३

अदृष्टं मृत्युमापन्नः कस्मात्त्वं नयशास्त्रवित्व्यसनानामुपायज्ञः कुशलो ह्यसि वर्जने१४

तथा त्वं संपरिष्वज्य रौद्रयातिनृशंसयाकालरात्र्या मयाच्छिद्य हृतः कमललोचनः१५

उपशेषे महाबाहो मां विहाय तपस्विनीम्प्रियामिव शुभां नारीं पृथिवीं पुरुषर्षभ१६

अर्चितं सततं यत्नाद्गन्धमाल्यैर्मया तवइदं ते मत्प्रियं वीर धनुः काञ्चनभूषितम्१७

पित्रा दशरथेन त्वं श्वशुरेण ममानघपूर्वैश्च पितृभिः सार्धं नूनं स्वर्गे समागतः१८

दिवि नक्षत्रभूतस्त्वं महत्कर्म कृतं प्रियम्पुण्यं राजर्षिवंशं त्वमात्मनः समुपेक्षसे१९

किं मान्न प्रेक्षसे राजन्किं मां प्रतिभाषसेबालां बालेन संप्राप्तां भार्यां मां सहचारिणीम्२०

संश्रुतं गृह्णता पाणिं चरिष्यामीति यत्त्वयास्मर तन्मम काकुत्स्थ नय मामपि दुःखिताम्२१

कस्मान्मामपहाय त्वं गतो गतिमतां वरअस्माल्लोकादमुं लोकं त्यक्त्वा मामिह दुःखिताम्२२

कल्याणैरुचितं यत्तत्परिष्वक्तं मयैव तुक्रव्यादैस्तच्छरीरं ते नूनं विपरिकृष्यते२३

अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैःअग्निहोत्रेण संस्कारं केन त्वं तु लप्स्यसे२४

प्रव्रज्यामुपपन्नानां त्रयाणामेकमागतम्परिप्रक्ष्यति कौसल्या लक्ष्मणं शोकलालसा२५

तस्याः परिपृच्छन्त्या वधं मित्रबलस्य तेतव चाख्यास्यते नूनं निशायां राक्षसैर्वधम्२६

सा त्वां सुप्तं हतं श्रुत्वा मां रक्षोगृहं गताम्हृदयेन विदीर्णेन भविष्यति राघव२७

साधु पातय मां क्षिप्रं रामस्योपरि रावणःसमानय पतिं पत्न्या कुरु कल्याणमुत्तमम्२८

शिरसा मे शिरश्चास्य कायं कायेन योजयरावणानुगमिष्यामि गतिं भर्तुर्महात्मनःमुहूर्तमपि नेच्छामि जीवितुं पापजीविना२९

श्रुतं मया वेदविदां ब्राह्मणानां पितुर्गृहेयासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः३०

क्षमा यस्मिन्दमस्त्यागः सत्यं धर्मः कृतज्ञताअहिंसा चैव भूतानां तमृते का गतिर्मम३१

इति सा दुःखसंतप्ता विललापायतेक्षणाभर्तुः शिरो धनुस्तत्र समीक्ष्य जनकात्मजा३२

एवं लालप्यमानायां सीतायां तत्र राक्षसःअभिचक्राम भर्तारमनीकस्थः कृताञ्जलिः३३

विजयस्वार्यपुत्रेति सोऽभिवाद्य प्रसाद्य न्यवेदयदनुप्राप्तं प्रहस्तं वाहिनीपतिम्३४

अमात्यैः सहितः सर्वैः प्रहस्तः समुपस्थितःकिंचिदात्ययिकं कार्यं तेषां त्वं दर्शनं कुरु३५

एतच्छ्रुत्वा दशग्रीवो राक्षसप्रतिवेदितम्अशोकवनिकां त्यक्त्वा मन्त्रिणां दर्शनं ययौ३६

तु सर्वं समर्थ्यैव मन्त्रिभिः कृत्यमात्मनःसभां प्रविश्य विदधे विदित्वा रामविक्रमम्३७

अन्तर्धानं तु तच्छीर्षं तच्च कार्मुकमुत्तमम्जगाम रावणस्यैव निर्याणसमनन्तरम्३८

राक्षसेन्द्रस्तु तैः सार्धं मन्त्रिभिर्भीमविक्रमैःसमर्थयामास तदा रामकार्यविनिश्चयम्३९

अविदूरस्थितान्सर्वान्बलाध्यक्षान्हितैषिणःअब्रवीत्कालसदृशो रावणो राक्षसाधिपः४०

शीघ्रं भेरीनिनादेन स्फुटकोणाहतेन मेसमानयध्वं सैन्यानि वक्तव्यं कारणम्४१

ततस्तथेति प्रतिगृह्य तद्वचोबलाधिपास्ते महदात्मनो बलम्समानयंश्चैव समागतं तेन्यवेदयन्भर्तरि युद्धकाङ्क्षिणि४२

इति श्रीरामायणे युद्धकाण्डे त्रयोविंशतितमः सर्गः२३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved