॥ ॐ श्री गणपतये नमः ॥

२२ सर्गः

ततस्तमक्षोभ्यबलं लङ्कायां नृपतेश्चरःसुवेले राघवं शैले निविष्टं प्रत्यवेदयन्

चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम्जातोद्वेगोऽभवत्किंचित्सचिवांश्चेदमब्रवीत्

मन्त्रिणः शीघ्रमायान्तु सर्वे वै सुसमाहिताःअयं नो मन्त्रकालो हि संप्राप्त इव राक्षसाः

तस्य तच्छासनं श्रुत्वा मन्त्रिणोऽभ्यागमन्द्रुतम्ततः संमन्त्रयामास सचिवै राक्षसैः सह

मन्त्रयित्वा दुर्धर्षः क्षमं यत्समनन्तरम्विसर्जयित्वा सचिवान्प्रविवेश स्वमालयम्

ततो राक्षसमाहूय विद्युज्जिह्वं महाबलम्मायाविदं महामायः प्राविशद्यत्र मैथिली

विद्युज्जिह्वं मायाज्ञमब्रवीद्राक्षसाधिपःमोहयिष्यामहे सीतां मायया जनकात्मजाम्

शिरो मायामयं गृह्य राघवस्य निशाचरमां त्वं समुपतिष्ठस्व महच्च सशरं धनुः

एवमुक्तस्तथेत्याह विद्युज्जिह्वो निशाचरःतस्य तुष्टोऽभवद्राजा प्रददौ विभूषणम्

अशोकवनिकायां तु प्रविवेश महाबलःततो दीनामदैन्यार्हां ददर्श धनदानुजःअधोमुखीं शोकपरामुपविष्टां महीतले१०

भर्तारमेव ध्यायन्तीमशोकवनिकां गताम्उपास्यमानां घोराभी राक्षसीभिरदूरतः११

उपसृत्य ततः सीतां प्रहर्षन्नाम कीर्तयन्इदं वचनं धृष्टमुवाच जनकात्मजाम्१२

सान्त्व्यमाना मया भद्रे यमुपाश्रित्य वल्गसेखर हन्ता ते भर्ता राघवः समरे हतः१३

छिन्नं ते सर्वतो मूलं दर्पस्ते निहतो मयाव्यसनेनात्मनः सीते मम भार्या भविष्यसि१४

अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनिशृणु भर्तृबधं सीते घोरं वृत्रवधं यथा१५

समायातः समुद्रान्तं मां हन्तुं किल राघवःवानरेन्द्रप्रणीतेन बलेन महता वृतः१६

संनिविष्टः समुद्रस्य तीरमासाद्य दक्षिणम्बलेन महता रामो व्रजत्यस्तं दिवाकरे१७

अथाध्वनि परिश्रान्तमर्धरात्रे स्थितं बलम्सुखसुप्तं समासाद्य चारितं प्रथमं चरैः१८

तत्प्रहस्तप्रणीतेन बलेन महता ममबलमस्य हतं रात्रौ यत्र रामः सुलक्ष्मणः१९

पट्टसान्परिघान्खड्गांश्चक्रान्दण्डान्महायसान्बाणजालानि शूलानि भास्वरान्कूटमुद्गरान्२०

यष्टीश्च तोमरान्प्रासंश्चक्राणि मुसलानि उद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः२१

अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिनाअसक्तं कृतहस्तेन शिरश्छिन्नं महासिना२२

विभीषणः समुत्पत्य निगृहीतो यदृच्छयादिशः प्रव्राजितः सर्वैर्लक्ष्मणः प्लवगैः सह२३

सुग्रीवो ग्रीवया शेते भग्नया प्लवगाधिपःनिरस्तहनुकः शेते हनूमान्राक्षसैर्हतः२४

जाम्बवानथ जानुभ्यामुत्पतन्निहतो युधिपट्टसैर्बहुभिश्छिन्नो निकृत्तः पादपो यथा२५

मैन्दश्च द्विविदश्चोभौ निहतौ वानरर्षभौनिःश्वसन्तौ रुदन्तौ रुधिरेण समुक्षितौ२६

असिनाभ्याहतश्छिन्नो मध्ये रिपुनिषूदनःअभिष्टनति मेदिन्यां पनसः पनसो यथा२७

नाराचैर्बहुभिश्छिन्नः शेते दर्यां दरीमुखःकुमुदस्तु महातेजा निष्कूजन्सायकैर्हतः२८

अङ्गदो बहुभिश्छिन्नः शरैरासाद्य राक्षसैःपातितो रुधिरोद्गारी क्षितौ निपतितोऽङ्गदः२९

हरयो मथिता नागै रथजालैस्तथापरेशायिता मृदितास्तत्र वायुवेगैरिवाम्बुदाः३०

प्रद्रुताश्च परे त्रस्ता हन्यमाना जघन्यतःअभिद्रुतास्तु रक्षोभिः सिंहैरिव महाद्विपाः३१

सागरे पतिताः केचित्केचिद्गगनमाश्रिताःऋक्षा वृक्षानुपारूढा वानरैस्तु विमिश्रिताः३२

सागरस्य तीरेषु शैलेषु वनेषु पिङ्गाक्षास्ते विरूपाक्षैर्बहुभिर्बहवो हताः३३

एवं तव हतो भर्ता ससैन्यो मम सेनयाक्षतजार्द्रं रजोध्वस्तमिदं चास्याहृतं शिरः३४

ततः परमदुर्धर्षो रावणो राक्षसेश्वरःसीतायामुपशृण्वन्त्यां राक्षसीमिदमब्रवीत्३५

राक्षसं क्रूरकर्माणं विद्युज्जिह्वं त्वमानययेन तद्राघवशिरः संग्रामात्स्वयमाहृतम्३६

विद्युज्जिह्वस्ततो गृह्य शिरस्तत्सशरासनम्प्रणामं शिरसा कृत्वा रावणस्याग्रतः स्थितः३७

तमब्रवीत्ततो राजा रावणो राक्षसं स्थितम्विद्युज्जिह्वं महाजिह्वं समीपपरिवर्तिनम्३८

अग्रतः कुरु सीतायाः शीघ्रं दाशरथेः शिरःअवस्थां पश्चिमां भर्तुः कृपणा साधु पश्यतु३९

एवमुक्तं तु तद्रक्षः शिरस्तत्प्रियदर्शनम्उपनिक्षिप्य सीतायाः क्षिप्रमन्तरधीयत४०

रावणश्चापि चिक्षेप भास्वरं कार्मुकं महत्त्रिषु लोकेषु विख्यातं सीतामिदमुवाच ४१

इदं तत्तव रामस्य कार्मुकं ज्यासमन्वितम्इह प्रहस्तेनानीतं हत्वा तं निशि मानुषम्४२

विद्युज्जिह्वेन सहैव तच्छिरोधनुश्च भूमौ विनिकीर्य रावणःविदेहराजस्य सुतां यशस्विनींततोऽब्रवीत्तां भव मे वशानुगा४३

इति श्रीरामायणे युद्धकाण्डे द्वाविंशतितमः सर्गः२२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved