॥ ॐ श्री गणपतये नमः ॥

१६ सर्गः

सबले सागरं तीर्णे रामे दशरथात्मजेअमात्यौ रावणः श्रीमानब्रवीच्छुकसारणौ

समग्रं सागरं तीर्णं दुस्तरं वानरं बलम्अभूतपूर्वं रामेण सागरे सेतुबन्धनम्

सागरे सेतुबन्धं तु श्रद्दध्यां कथंचनअवश्यं चापि संख्येयं तन्मया वानरं बलम्

भवन्तौ वानरं सैन्यं प्रविश्यानुपलक्षितौपरिमाणं वीर्यं ये मुख्याः प्लवंगमाः

मन्त्रिणो ये रामस्य सुग्रीवस्य संमताःये पूर्वमभिवर्तन्ते ये शूराः प्लवंगमाः

सेतुर्यथा बद्धः सागरे सलिलार्णवेनिवेशश्च यथा तेषां वानराणां महात्मनाम्

रामस्य व्यवसायं वीर्यं प्रहरणानि लक्ष्मणस्य वीरस्य तत्त्वतो ज्ञातुमर्हथ

कश्च सेनापतिस्तेषां वानराणां महौजसाम्एतज्ज्ञात्वा यथातत्त्वं शीघ्रमगन्तुमर्हथः

इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौहरिरूपधरौ वीरौ प्रविष्टौ वानरं बलम्

ततस्तद्वानरं सैन्यमचिन्त्यं लोमहर्षणम्संख्यातुं नाध्यगच्छेतां तदा तौ शुकसारणौ१०

तत्स्थितं पर्वताग्रेषु निर्दरेषु गुहासु समुद्रस्य तीरेषु वनेषूपवनेषु ११

तरमाणं तीर्णं तर्तुकामं सर्वशःनिविष्टं निविशच्चैव भीमनादं महाबलम्१२

तौ ददर्श महातेजाः प्रच्छन्नौ विभीषणःआचचक्षेऽथ रामाय गृहीत्वा शुकसारणौलङ्कायाः समनुप्राप्तौ चारौ परपुरंजयौ१३

तौ दृष्ट्वा व्यथितौ रामं निराशौ जीविते तदाकृताञ्जलिपुटौ भीतौ वचनं चेदमूचतुः१४

आवामिहागतौ सौम्य रावणप्रहितावुभौपरिज्ञातुं बलं कृत्स्नं तवेदं रघुनन्दन१५

तयोस्तद्वचनं श्रुत्वा रामो दशरथात्मजःअब्रवीत्प्रहसन्वाक्यं सर्वभूतहिते रतः१६

यदि दृष्टं बलं कृत्स्नं वयं वा सुसमीक्षिताःयथोक्तं वा कृतं कार्यं छन्दतः प्रतिगम्यताम्१७

प्रविश्य नगरीं लङ्कां भवद्भ्यां धनदानुजःवक्तव्यो रक्षसां राजा यथोक्तं वचनं मम१८

यद्बलं समाश्रित्य सीतां मे हृतवानसितद्दर्शय यथाकामं ससैन्यः सहबान्धवः१९

श्वःकाले नगरीं लङ्कां सप्राकारां सतोरणाम्राक्षसं बलं पश्य शरैर्विध्वंसितं मया२०

घोरं रोषमहं मोक्ष्ये बलं धारय रावणश्वःकाले वज्रवान्वज्रं दानवेष्विव वासवः२१

इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौआगम्य नगरीं लङ्कामब्रूतां राक्षसाधिपम्२२

विभीषणगृहीतौ तु वधार्हौ राक्षसेश्वरदृष्ट्वा धर्मात्मना मुक्तौ रामेणामिततेजसा२३

एकस्थानगता यत्र चत्वारः पुरुषर्षभाःलोकपालोपमाः शूराः कृतास्त्रा दृढविक्रमाः२४

रामो दाशरथिः श्रीमाँल्लक्ष्मणश्च विभीषणःसुग्रीवश्च महातेजा महेन्द्रसमविक्रमः२५

एते शक्ताः पुरीं लङ्कां सप्राकारां सतोरणाम्उत्पाट्य संक्रामयितुं सर्वे तिष्ठन्तु वानराः२६

यादृशं तस्य रामस्य रूपं प्रहरणानि वधिष्यति पुरीं लङ्कामेकस्तिष्ठन्तु ते त्रयः२७

रामलक्ष्मणगुप्ता सा सुग्रीवेण वाहिनीबभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः२८

प्रहृष्टरूपा ध्वजिनी वनौकसांमहात्मनां संप्रति योद्धुमिच्छताम्अलं विरोधेन शमो विधीयतांप्रदीयतां दाशरथाय मैथिली२९

इति श्रीरामायणे युद्धकाण्डे षोडशः सर्गः१६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved