॥ ॐ श्री गणपतये नमः ॥

१२ सर्गः

अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम्

ममापि तु विवक्षास्ति काचित्प्रति विभीषणम्श्रुतमिच्छामि तत्सर्वं भवद्भिः श्रेयसि स्थितैः

मित्रभावेन संप्राप्तं त्यजेयं कथंचनदोषो यद्यपि तस्य स्यात्सतामेतदगर्हितम्

रामस्य वचनं श्रुत्वा सुग्रीवः प्लवगेश्वरःप्रत्यभाषत काकुत्स्थं सौहार्देनाभिचोदितः

किमत्र चित्रं धर्मज्ञ लोकनाथशिखामणेयत्त्वमार्यं प्रभाषेथाः सत्त्ववान्सपथे स्थितः

मम चाप्यन्तरात्मायं शुद्धिं वेत्ति विभीषणम्अनुमनाच्च भावाच्च सर्वतः सुपरीक्षितः

तस्मात्क्षिप्रं सहास्माभिस्तुल्यो भवतु राघवविभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः

सुग्रीवस्य तद्वाक्यं रामः श्रुत्वा विमृश्य ततः शुभतरं वाक्यमुवाच हरिपुंगवम्

सुदुष्टो वाप्यदुष्टो वा किमेष रजनीचरःसूक्ष्ममप्यहितं कर्तुं ममाशक्तः कथंचन

पिशाचान्दानवान्यक्षान्पृथिव्यां चैव राक्षसान्अङ्गुल्यग्रेण तान्हन्यामिच्छन्हरिगणेश्वर१०

श्रूयते हि कपोतेन शत्रुः शरणमागतःअर्चितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः११

हि तं प्रतिजग्राह भार्या हर्तारमागतम्कपोतो वानरश्रेष्ठ किं पुनर्मद्विधो जनः१२

ऋषेः कण्वस्य पुत्रेण कण्डुना परमर्षिणाशृणु गाथां पुरा गीतां धर्मिष्ठां सत्यवादिना१३

बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम् हन्यादानृशंस्यार्थमपि शत्रुं परं पत१४

आर्तो वा यदि वा दृप्तः परेषां शरणं गतःअरिः प्राणान्परित्यज्य रक्षितव्यः कृतात्मना१५

चेद्भयाद्वा मोहाद्वा कामाद्वापि रक्षतिस्वया शक्त्या यथातत्त्वं तत्पापं लोकगर्हितम्१६

विनष्टः पश्यतस्तस्य रक्षिणः शरणागतःआदाय सुकृतं तस्य सर्वं गच्छेदरक्षितः१७

एवं दोषो महानत्र प्रपन्नानामरक्षणेअस्वर्ग्यं चायशस्यं बलवीर्यविनाशनम्१८

करिष्यामि यथार्थं तु कण्डोर्वचनमुत्तमम्धर्मिष्ठं यशस्यं स्वर्ग्यं स्यात्तु फलोदये१९

सकृदेव प्रपन्नाय तवास्मीति याचतेअभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम२०

आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मयाविभीषणो वा सुग्रीव यदि वा रावणः स्वयम्२१

ततस्तु सुग्रीववचो निशम्य द्धरीश्वरेणाभिहितं नरेश्वरःविभीषणेनाशु जगाम संगमंपतत्रिराजेन यथा पुरंदरः२२

इति श्रीरामायणे युद्धकाण्डे द्वादशः सर्गः१२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved