सुनिविष्टं हितं वाक्यमुक्तवन्तं विभीषणम्।अब्रवीत्परुषं वाक्यं रावणः कालचोदितः॥ १
वसेत्सह सपत्नेन क्रुद्धेनाशीविषेण वा।न तु मित्रप्रवादेन संवसेच्छत्रुसेविना॥ २
जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस।हृष्यन्ति व्यसनेष्वेते ज्ञातीनां ज्ञातयः सदा॥ ३
प्रधानं साधकं वैद्यं धर्मशीलं च राक्षस।ज्ञातयो ह्यवमन्यन्ते शूरं परिभवन्ति च॥ ४
नित्यमन्योन्यसंहृष्टा व्यसनेष्वाततायिनः।प्रच्छन्नहृदया घोरा ज्ञातयस्तु भयावहाः॥ ५
श्रूयन्ते हस्तिभिर्गीताः श्लोकाः पद्मवने क्वचित्।पाशहस्तान्नरान्दृष्ट्वा शृणु तान्गदतो मम॥ ६
नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः।घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः॥ ७
उपायमेते वक्ष्यन्ति ग्रहणे नात्र संशयः।कृत्स्नाद्भयाज्ज्ञातिभयं सुकष्टं विदितं च नः॥ ८
विद्यते गोषु संपन्नं विद्यते ब्राह्मणे दमः।विद्यते स्त्रीषु चापल्यं विद्यते ज्ञातितो भयम्॥ ९
ततो नेष्टमिदं सौम्य यदहं लोकसत्कृतः।ऐश्वर्यमभिजातश्च रिपूणां मूर्ध्नि च स्थितः॥ १०
अन्यस्त्वेवंविधं ब्रूयाद्वाक्यमेतन्निशाचर।अस्मिन्मुहूर्ते न भवेत्त्वां तु धिक्कुलपांसनम्॥ ११
इत्युक्तः परुषं वाक्यं न्यायवादी विभीषणः।उत्पपात गदापाणिश्चतुर्भिः सह राक्षसैः॥ १२
अब्रवीच्च तदा वाक्यं जातक्रोधो विभीषणः।अन्तरिक्षगतः श्रीमान्भ्रातरं राक्षसाधिपम्॥ १३
स त्वं भ्रातासि मे राजन्ब्रूहि मां यद्यदिच्छसि।इदं तु परुषं वाक्यं न क्षमाम्यनृतं तव॥ १४
सुनीतं हितकामेन वाक्यमुक्तं दशानन।न गृह्णन्त्यकृतात्मानः कालस्य वशमागताः॥ १५
सुलभाः पुरुषा राजन्सततं प्रियवादिनः।अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः॥ १६
बद्धं कालस्य पाशेन सर्वभूतापहारिणा।न नश्यन्तमुपेक्षेयं प्रदीप्तं शरणं यथा॥ १७
दीप्तपावकसंकाशैः शितैः काञ्चनभूषणैः।न त्वामिच्छाम्यहं द्रष्टुं रामेण निहतं शरैः॥ १८
शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे।कालाभिपन्ना सीदन्ति यथा वालुकसेतवः॥ १९
आत्मानं सर्वथा रक्ष पुरीं चेमां सराक्षसाम्।स्वस्ति तेऽस्तु गमिष्यामि सुखी भव मया विना॥ २०
निवार्यमाणस्य मया हितैषिणान रोचते ते वचनं निशाचर।परीतकाला हि गतायुषो नराहितं न गृह्णन्ति सुहृद्भिरीरितम्॥ २१
इति श्रीरामायणे युद्धकाण्डे दशमः सर्गः ॥ १०