॥ ॐ श्री गणपतये नमः ॥

६५ सर्गः

एवमुक्तस्तु हनुमान्राघवेण महात्मनासीताया भाषितं सर्वं न्यवेदयत राघवे

इदमुक्तवती देवी जानकी पुरुषर्षभपूर्ववृत्तमभिज्ञानं चित्रकूटे यथा तथम्

सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थितावायसः सहसोत्पत्य विरराद स्तनान्तरे

पर्यायेण सुप्तस्त्वं देव्यङ्के भरताग्रजपुनश्च किल पक्षी देव्या जनयति व्यथाम्

ततः पुनरुपागम्य विरराद भृशं किलततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः

वायसेन तेनैव सततं बाध्यमानयाबोधितः किल देव्यास्त्वं सुखसुप्तः परंतप

तां तु दृष्ट्वा महाबाहो रादितां स्तनान्तरेआशीविष इव क्रुद्धो निःश्वसन्नभ्यभाषथाः

नखाग्रैः केन ते भीरु दारितं तु स्तनान्तरम्कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना

निरीक्षमाणः सहसा वायसं समवैक्षताःनखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम्

सुतः किल शक्रस्य वायसः पततां वरःधरान्तरचरः शीघ्रं पवनस्य गतौ समः१०

ततस्तस्मिन्महाबाहो कोपसंवर्तितेक्षणःवायसे त्वं कृत्वाः क्रूरां मतिं मतिमतां वर११

दर्भं संस्तराद्गृह्य ब्रह्मास्त्रेण न्ययोजयः दीप्त इव कालाग्निर्जज्वालाभिमुखः खगम्१२

त्वं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रतिततस्तु वायसं दीप्तः दर्भोऽनुजगाम १३

पित्रा परित्यक्तः सुरैः सर्वैर्महर्षिभिःत्रीँल्लोकान्संपरिक्रम्य त्रातारं नाधिगच्छति१४

तं त्वं निपतितं भूमौ शरण्यः शरणागतम्वधार्हमपि काकुत्स्थ कृपया परिपालयः१५

मोघमस्त्रं शक्यं तु कर्तुमित्येव राघवततस्तस्याक्षिकाकस्य हिनस्ति स्म दक्षिणम्१६

राम त्वां नमस्कृत्वा राज्ञो दशरथस्य विसृष्टस्तु तदा काकः प्रतिपेदे खमालयम्१७

एवमस्त्रविदां श्रेष्ठः सत्त्ववाञ्शीलवानपिकिमर्थमस्त्रं रक्षःसु योजयसि राघव१८

नागा नापि गन्धर्वा नासुरा मरुद्गणाःतव राम मुखे स्थातुं शक्ताः प्रतिसमाधितुम्१९

तव वीर्यवतः कच्चिन्मयि यद्यस्ति संभ्रमःक्षिप्रं सुनिशितैर्बाणैर्हन्यतां युधि रावणः२०

भ्रातुरादेशमादाय लक्ष्मणो वा परंतपः किमर्थं नरवरो मां रक्षति राघवः२१

शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौसुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः२२

ममैव दुष्कृतं किंचिन्महदस्ति संशयःसमर्थौ सहितौ यन्मां नापेक्षेते परंतपौ२३

वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम्पुनरप्यहमार्यां तामिदं वचनमब्रुवम्२४

त्वच्छोकविमुखो रामो देवि सत्येन ते शपेरामे दुःखाभिभूते लक्ष्मणः परितप्यते२५

कथंचिद्भवती दृष्टा कालः परिशोचितुम्इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि२६

तावुभौ नरशार्दूलौ राजपुत्रावरिंदमौत्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः२७

हत्वा समरे रौद्रं रावणं सह बान्धवम्राघवस्त्वां महाबाहुः स्वां पुरीं नयते ध्रुवम्२८

यत्तु रामो विजानीयादभिज्ञानमनिन्दितेप्रीतिसंजननं तस्य प्रदातुं तत्त्वमर्हसि२९

साभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथनमुत्तमम्मुक्त्वा वस्त्राद्ददौ मह्यं मणिमेतं महाबल३०

प्रतिगृह्य मणिं दिव्यं तव हेतो रघूत्तमशिरसा संप्रणम्यैनामहमागमने त्वरे३१

गमने कृतोत्साहमवेक्ष्य वरवर्णिनीविवर्धमानं हि मामुवाच जनकात्मजाअश्रुपूर्णमुखी दीना बाष्पसंदिग्धभाषिणी३२

हनुमन्सिंहसंकाशौ तावुभौ रामलक्ष्मणौसुग्रीवं सहामात्यं सर्वान्ब्रूया अनामयम्३३

यथा महाबाहुर्मां तारयति राघवःअस्माद्दुःखाम्बुसंरोधात्तत्समाधातुमर्हसि३४

इमं तीव्रं मम शोकवेगंरक्षोभिरेभिः परिभर्त्सनं ब्रूयास्तु रामस्य गतः समीपंशिवश्च तेऽध्वास्तु हरिप्रवीर३५

एतत्तवार्या नृपराजसिंहसीता वचः प्राह विषादपूर्वम्एतच्च बुद्ध्वा गदितं मया त्वंश्रद्धत्स्व सीतां कुशलां समग्राम्३६

इति श्रीरामायणे सुन्दरकाण्डे पञ्चषष्टितमः सर्गः६५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved