॥ ॐ श्री गणपतये नमः ॥

६४ सर्गः

एवमुक्तो हनुमता रामो दशरथात्मजःतं मणिं हृदये कृत्वा प्ररुरोद सलक्ष्मणः

तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितःनेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत्

यथैव धेनुः स्रवति स्नेहाद्वत्सस्य वत्सलातथा ममापि हृदयं मणिरत्नस्य दर्शनात्

मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मेवधूकाले यथा बद्धमधिकं मूर्ध्नि शोभते

अयं हि जलसंभूतो मणिः प्रवरपूजितःयज्ञे परमतुष्टेन दत्तः शक्रेण धीमता

इमं दृष्ट्वा मणिश्रेष्ठं तथा तातस्य दर्शनम्अद्यास्म्यवगतः सौम्य वैदेहस्य तथा विभोः

अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिःअद्यास्य दर्शनेनाहं प्राप्तां तामिव चिन्तये

किमाह सीता वैदेही ब्रूहि सौम्य पुनः पुनःपरासुमिव तोयेन सिञ्चन्ती वाक्यवारिणा

इतस्तु किं दुःखतरं यदिमं वारिसंभवम्मणिं पश्यामि सौमित्रे वैदेहीमागतं विना

चिरं जीवति वैदेही यदि मासं धरिष्यतिक्षणं सौम्य जीवेयं विना तामसितेक्षणाम्१०

नय मामपि तं देशं यत्र दृष्टा मम प्रिया तिष्ठेयं क्षणमपि प्रवृत्तिमुपलभ्य ११

कथं सा मम सुश्रोणि भीरु भीरुः सती तदाभयावहानां घोराणां मध्ये तिष्ठति रक्षसाम्१२

शारदस्तिमिरोन्मुखो नूनं चन्द्र इवाम्बुदैःआवृतं वदनं तस्या विराजति राक्षसैः१३

किमाह सीता हनुमंस्तत्त्वतः कथयस्व मेएतेन खलु जीविष्ये भेषजेनातुरो यथा१४

मधुरा मधुरालापा किमाह मम भामिनीमद्विहीना वरारोहा हनुमन्कथयस्व मेदुःखाद्दुःखतरं प्राप्य कथं जीवति जानकी१५

इति श्रीरामायणे सुन्दरकाण्डे चतुष्षष्टितमः सर्गः६४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved