॥ ॐ श्री गणपतये नमः ॥

६२ सर्गः

सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिःराघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत्

प्रणम्य सुग्रीवं राघवौ महाबलौवानरैः सहितैः शूरैर्दिवमेवोत्पपात

यथैवागतः पूर्वं तथैव त्वरितो गतःनिपत्य गगनाद्भूमौ तद्वनं प्रविवेश

प्रविष्टो मधुवनं ददर्श हरियूथपान्विमदानुद्धतान्सर्वान्मेहमानान्मधूदकम्

तानुपागमद्वीरो बद्ध्वा करपुटाञ्जलिम्उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम्

सौम्य रोषो कर्तव्यो यदेभिरभिवारितःअज्ञानाद्रक्षिभिः क्रोधाद्भवन्तः प्रतिषेधिताः

युवराजस्त्वमीशश्च वनस्यास्य महाबलमौर्ख्यात्पूर्वं कृतो दोषस्तद्भवान्क्षन्तुमर्हति

यथैव हि पिता तेऽभूत्पूर्वं हरिगणेश्वरःतथा त्वमपि सुग्रीवो नान्यस्तु हरिसत्तम

आख्यातं हि मया गत्वा पितृव्यस्य तवानघइहोपयानं सर्वेषामेतेषां वनचारिणाम्

त्वदागमनं श्रुत्वा सहैभिर्हरियूथपैःप्रहृष्टो तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम्१०

प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरःशीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः११

श्रुत्वा दधिमुखस्यैतद्वचनं श्लक्ष्णमङ्गदःअब्रवीत्तान्हरिश्रेष्ठो वाक्यं वाक्यविशारदः१२

शङ्के श्रुतोऽयं वृत्तान्तो रामेण हरियूथपाःतत्क्षमं नेह नः स्थातुं कृते कार्ये परंतपाः१३

पीत्वा मधु यथाकामं विश्रान्ता वनचारिणःकिं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः१४

सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाःतथास्मि कर्ता कर्तव्ये भवद्भिः परवानहम्१५

नाज्ञापयितुमीशोऽहं युवराजोऽस्मि यद्यपिअयुक्तं कृतकर्माणो यूयं धर्षयितुं मया१६

ब्रुवतश्चाङ्गदश्चैवं श्रुत्वा वचनमव्ययम्प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः१७

एवं वक्ष्यति को राजन्प्रभुः सन्वानरर्षभऐश्वर्यमदमत्तो हि सर्वोऽहमिति मन्यते१८

तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित्संनतिर्हि तवाख्याति भविष्यच्छुभभाग्यताम्१९

सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः यत्र हरिवीराणां सुग्रीवः पतिरव्ययः२०

त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात्पदम्क्वचिद्गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते२१

एवं तु वदतां तेषामङ्गदः प्रत्यभाषतबाढं गच्छाम इत्युक्त्वा उत्पपात महीतलात्२२

उत्पतन्तमनूत्पेतुः सर्वे ते हरियूथपाःकृत्वाकाशं निराकाशं यज्ञोत्क्षिप्ता इवानलाः२३

तेऽम्बरं सहसोत्पत्य वेगवन्तः प्लवंगमाःविनदन्तो महानादं घना वातेरिता यथा२४

अङ्गदे ह्यननुप्राप्ते सुग्रीवो वानराधिपःउवाच शोकोपहतं रामं कमललोचनम्२५

समाश्वसिहि भद्रं ते दृष्टा देवी संशयःनागन्तुमिह शक्यं तैरतीते समये हि नः२६

मत्सकाशमागच्छेत्कृत्ये हि विनिपातितेयुवराजो महाबाहुः प्लवतां प्रवरोऽङ्गदः२७

यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमःभवेत्तु दीनवदनो भ्रान्तविप्लुतमानसः२८

पितृपैतामहं चैतत्पूर्वकैरभिरक्षितम् मे मधुवनं हन्यादहृष्टः प्लवगेश्वरः२९

कौसल्या सुप्रजा राम समाश्वसिहि सुव्रतदृष्टा देवी संदेहो चान्येन हनूमता ह्यन्यः कर्मणो हेतुः साधने तद्विधो भवेत्३०

हनूमति हि सिद्धिश्च मतिश्च मतिसत्तमव्यवसायश्च वीर्यं सूर्ये तेज इव ध्रुवम्३१

जाम्बवान्यत्र नेता स्यादङ्गदश्च बलेश्वरःहनूमांश्चाप्यधिष्ठाता तस्य गतिरन्यथा३२

मा भूश्चिन्ता समायुक्तः संप्रत्यमितविक्रम३३

ततः किल किला शब्दं शुश्रावासन्नमम्बरेहनूमत्कर्मदृप्तानां नर्दतां काननौकसाम्किष्किन्धामुपयातानां सिद्धिं कथयतामिव३४

ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमःआयताञ्चितलाङ्गूलः सोऽभवद्धृष्टमानसः३५

आजग्मुस्तेऽपि हरयो रामदर्शनकाङ्क्षिणःअङ्गदं पुरतः कृत्वा हनूमन्तं वानरम्३६

तेऽङ्गदप्रमुखा वीराः प्रहृष्टाश्च मुदान्विताःनिपेतुर्हरिराजस्य समीपे राघवस्य ३७

हनूमांश्च महाबहुः प्रणम्य शिरसा ततःनियतामक्षतां देवीं राघवाय न्यवेदयत्३८

निश्चितार्थं ततस्तस्मिन्सुग्रीवं पवनात्मजेलक्ष्मणः प्रीतिमान्प्रीतं बहुमानादवैक्षत३९

प्रीत्या रममाणोऽथ राघवः परवीरहाबहु मानेन महता हनूमन्तमवैक्षत४०

इति श्रीरामायणे सुन्दरकाण्डे द्विषष्टितमः सर्गः६२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved