॥ ॐ श्री गणपतये नमः ॥

६१ सर्गः

ततो मूर्ध्ना निपतितं वानरं वानरर्षभःदृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच

उत्तिष्ठोत्तिष्ठ कस्मात्त्वं पादयोः पतितो ममअभयं ते भवेद्वीर सत्यमेवाभिधीयताम्

तु विश्वासितस्तेन सुग्रीवेण महात्मनाउत्थाय महाप्राज्ञो वाक्यं दधिमुखोऽब्रवीत्

नैवर्क्षरजसा राजन्न त्वया नापि वालिनावनं निसृष्टपूर्वं हि भक्षितं तत्तु वानरैः

एभिः प्रधर्षिताश्चैव वारिता वनरक्षिभिःमधून्यचिन्तयित्वेमान्भक्षयन्ति पिबन्ति

शिष्टमत्रापविध्यन्ति भक्षयन्ति तथापरेनिवार्यमाणास्ते सर्वे भ्रुवौ वै दर्शयन्ति हि

इमे हि संरब्धतरास्तथा तैः संप्रधर्षिताःवारयन्तो वनात्तस्मात्क्रुद्धैर्वानरपुंगवैः

ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभाःसंरक्तनयनैः क्रोधाद्धरयः संप्रचालिताः

पाणिभिर्निहताः केचित्केचिज्जानुभिराहताःप्रकृष्टाश्च यथाकामं देवमार्गं दर्शिताः

एवमेते हताः शूरास्त्वयि तिष्ठति भर्तरिकृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते१०

एवं विज्ञाप्यमानं तु सुग्रीवं वानरर्षभम्अपृच्छत्तं महाप्राज्ञो लक्ष्मणः परवीरहा११

किमयं वानरो राजन्वनपः प्रत्युपस्थितःकं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत्१२

एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मनालक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः१३

आर्य लक्ष्मण संप्राह वीरो दधिमुखः कपिःअङ्गदप्रमुखैर्वीरैर्भक्षितं मधुवानरैः१४

नैषामकृतकृत्यानामीदृशः स्यादुपक्रमःवनं यथाभिपन्नं तैः साधितं कर्म वानरैः१५

दृष्टा देवी संदेहो चान्येन हनूमता ह्यन्यः साधने हेतुः कर्मणोऽस्य हनूमतः१६

कार्यसिद्धिर्हनुमति मतिश्च हरिपुंगवव्यवसायश्च वीर्यं श्रुतं चापि प्रतिष्ठितम्१७

जाम्बवान्यत्र नेता स्यादङ्गदस्य बलेश्वरःहनूमांश्चाप्यधिष्ठाता तस्य गतिरन्यथा१८

अङ्गदप्रमुखैर्वीरैर्हतं मधुवनं किलविचिन्त्य दक्षिणामाशामागतैर्हरिपुंगवैः१९

आगतैश्च प्रविष्टं तद्यथा मधुवनं हि तैःधर्षितं वनं कृत्स्नमुपयुक्तं वानरैःवारिताः सहिताः पालास्तथा जानुभिराहताः२०

एतदर्थमयं प्राप्तो वक्तुं मधुरवागिहनाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः२१

दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतःअभिगम्य यथा सर्वे पिबन्ति मधु वानराः२२

चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभवनं दात्त वरं दिव्यं धर्षयेयुर्वनौकसः२३

ततः प्रहृष्टो धर्मात्मा लक्ष्मणः सहराघवःश्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्च्युताम्२४

प्राहृष्यत भृशं रामो लक्ष्मणश्च महायशाःश्रुत्वा दधिमुखस्येदं सुग्रीवस्तु प्रहृष्य वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत२५

प्रीतोऽस्मि सौम्य यद्भुक्तं वनं तैः कृतकर्मभिःमर्षितं मर्षणीयं चेष्टितं कृतकर्मणाम्२६

इच्छामि शीघ्रं हनुमत्प्रधानान्शाखामृगांस्तान्मृगराजदर्पान्द्रष्टुं कृतार्थान्सह राघवाभ्यांश्रोतुं सीताधिगमे प्रयत्नम्२७

इति श्रीरामायणे सुन्दरकाण्डे एकषष्टितमः सर्गः६१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved